TA 4.11

2 पञ्चाशत्

T.A.4.11.1
अप॑ नः॒ शोशु॑चद॒घमग्ने॑ शुशु॒द्ध्या र॒यिम् । अप॑ नः॒ शोशु॑चद॒घम् ॥ सु॒क्षे॒त्रि॒या सु॑गातु॒या व॑सू॒या च॑ यजामहे । अप॑ नः॒ शोशु॑चद॒घम् ॥ प्र यद्-भन्दि॑ष्ठ एषा॒म् प्रास्माका॑सश्च सू॒रयः॑ । अप॑ नः॒ शोशु॑चद॒घम् ॥ प्रयद॒ग्नेः सह॑स्वतो वि॒श्वतो॒ यन्ति॑ सू॒रयः॑ । अप॑ नः॒ शोशु॑चद॒घम् ॥ प्रयत्ते॑ अग्ने सू॒रयो॒ जाये॑महि॒ प्र ते॑ व॒यम् । अप॑ नः॒ शोशु॑चद॒घम् ।
कोर्वै (Index)
(अ॒घ - म॒घम् च॒त्वारि॑ च)
T.A.4.11.2
त्वꣳ हि वि॑श्वतोमुख वि॒श्वतः॑ परि॒भूरसि॑ । अप॑ नः॒ शोशु॑चद॒घम् ॥ द्विषो॑ नो विश्वतोमु॒खाति॑ ना॒वेव॑ पारय । अप॑ नः॒ शोशु॑चद॒घम् ॥ स नः॒ सिन्धु॑मिव ना॒वयाऽति॑ पर्.षा स्व॒स्तये᳚ । अप॑ नः॒ शोशु॑चद॒घम् ॥ आपः॑ प्रव॒णादि॑व य॒ती-रपा॒स्मथ्-स्य॑न्दताम॒घम् । अप॑ नः॒ शोशु॑चद॒घम् ॥ उ॒द्व॒ना-दु॑द॒कानी॒वापा॒स्मथ्-स्य॑न्दताम॒घम् । अप॑ नः॒ शोशु॑चद॒घम् ( ) ॥ आ॒न॒न्दाय॑ प्रमो॒दाय॒ पुन॒रागाꣳ॒॒ स्वान्गृ॒हान् । अप॑ नः॒ शोशु॑चद॒घम् ॥ न वै तत्र॒ प्रमी॑यते॒ गौरश्वः॒ पुरु॑षः प॒शुः । यत्रे॒दम् ब्रह्म॑ क्रि॒यते॑ परि॒धिर्जीव॑नाय॒ कमप॑ नः॒ शोशु॑चद॒घम् ।
कोर्वै (Index)
(अ॒घ - म॒घम् च॒त्वारि॑ च)