आरो॑ह॒तायु॑र्-ज॒रस॑म् गृणा॒ना अ॑नुपू॒र्वम् ॅयत॑माना॒ यति॒ष्ट । इ॒ह त्वष्टा॑ सु॒जनि॑मा सु॒रत्नो॑ दी॒र्घमायुः॑ करतु जी॒वसे॑ वः ॥ यथाऽहा᳚न्यनुपू॒र्वम् भव॑न्ति॒ यथ॒र्तव॑ ऋ॒तुभि॒र्-यन्ति॑ क्लृ॒प्ताः । यथा॒ न पूर्व॒मप॑रो॒ जहा᳚त्ये॒वा धा॑त॒रायूꣳ॑षि कल्पयैषाम् ॥ न हि॑ ते अग्ने त॒नुवै᳚ क्रू॒रम् च॒कार॒ मर्त्यः॑ । क॒पिर्-ब॑भस्ति॒ तेज॑न॒म् पुन॑र्ज॒रायु॒ गौरि॑व । अप॑ नः॒ शोशु॑चद॒घमग्ने॑ शुशु॒द्ध्या र॒यिम् । अप॑ नः॒ शोशु॑चद॒घम् मृ॒त्यवे॒ स्वाहा᳚ ॥ अ॒न॒ड्वाह॑-म॒न्वार॑भामहे स्व॒स्तये᳚ । स न॒ इन्द्र॑ इव दे॒वेभ्यो॒ वह्निः॑ स॒पांर॑णो भव ।
कोर्वै (Index)
(भ॒व॒ - ज॒म्भ॒या॒म॒सि॒ त्रीणि॑ च)