अप॑श्याम युव॒ति-मा॒चर॑न्तीम् मृ॒ताय॑ जी॒वाम् प॑रिणी॒यमा॑नाम् । अ॒न्धेन॒ या तम॑सा॒ प्रावृ॑ताऽसि॒ प्राची॒मवा॑ची॒-मव॒यन्-नरि॑ष्ट्यै ॥ मयै॒ताम् माꣳ॒॒स्ताम् भ्रि॒यमा॑णा दे॒वी स॒ती पि॑तृलो॒कम् ॅयदैषि॑ । वि॒श्ववा॑रा॒ नभ॑सा॒ सम्ॅव्य॑यन्त्यु॒भौ नो॑ लो॒कौ पय॒साऽऽवृ॑णीहि ॥ रयि॑ष्ठाम॒ग्निम् मधु॑मन्तमू॒र्मिण॒मूर्जः॑ सन्तम् त्वा॒ पय॒सोप॒ सꣳस॑देम । सꣳ र॒य्या समु॒ वर्च॑सा॒ सच॑स्वा नः स्व॒स्तये᳚ ॥ ये जी॒वा ये च॑ मृ॒ता ये जा॒ता ये च॒ जन्त्याः᳚ । तेभ्यो॑ घृ॒तस्य॑ धारयितु॒म् मधु॑धारा व्युन्द॒ती ॥ मा॒ता रु॒द्राणा᳚म् दुहि॒ता वसू॑नाꣳ॒॒ स्वसा॑ऽऽदि॒त्याना॑म॒-मृत॑स्य॒ नाभिः॑ । प्रणु॒वोच॑म् चिकि॒तुषे॒ जना॑य॒ मा गामना॑गा॒मदि॑तिम् ॅवधिष्ट ( ) ॥ पिब॑तूद॒कम् तृणा᳚न्यत्तु । ओमुथ् सृ॒जत ।
कोर्वै (Index)
(व॒धि॒ष्ट॒ द्वे च॑)