ए॒तास्ते᳚ स्व॒धा अ॒मृताः᳚ करोमि॒ यास्ते॑ धा॒नाः प॑रि॒किरा॒म्यत्र॑ । तास्ते॑ य॒मः पि॒तृभिः॑ सम्ॅविदा॒नोऽत्र॑ धे॒नूः का॑म॒दुघाः᳚ करोतु ॥ त्वामर्जु॒नौष॑धीना॒म् पयो᳚ ब्र॒ह्माण॒ इद्वि॑दुः । तासा᳚म् त्वा॒ मद्ध्या॒दाद॑दे च॒रुभ्यो॒ अपि॑धातवे ॥ दू॒र्वाणाꣳ॑ स्त॒म्बमाह॑रै॒ताम् प्रि॒यत॑मा॒म् मम॑ । इ॒माम् दिश॑म् मनु॒ष्या॑णा॒म् भूयि॒ष्ठाऽनु॒ वि रो॑हतु ॥ काशा॑नाꣳ स्त॒म्बमाह॑र॒ रक्ष॑सा॒मप॑हत्यै । य ए॒तस्यै॑ दि॒शः प॒राभ॑वन्नघा॒यवो॒ यथा॒ ते नाभ॑वा॒न् पुनः॑ ॥ द॒र्भाणाꣳ॑ स्त॒म्बमाह॑र पितृ॒णामोष॑धीम् प्रि॒याम् । अन्वस्यै॒ मूल॑म् जीवा॒दनु॒ काण्ड॒मथो॒ फल᳚म् ।
कोर्वै (Index)
(अथो॒ फल॑म् - धा॒ता पु॑नातु)