TA 4.3

3 पञ्चाशत्

T.A.4.3.1
प्र के॒तुना॑ बृह॒ता भा᳚त्य॒ग्निरा॒विर्-विश्वा॑नि वृष॒भो रो॑रवीति । दि॒वश्चि॒दन्ता॒दुप॒ मामु॒दान॑ड॒पामु॒पस्थे॑ महि॒षो व॑वर्द्ध ॥ इ॒दंत॒ एक॑म् प॒र ऊ॑त॒ एक॑म् तृ॒तीये॑न॒ ज्योति॑षा॒ सम्ॅवि॑शस्व । स॒म्ॅवेश॑नस्त॒नुवै॒ चारु॑रेधि प्रि॒यो दे॒वाना᳚म् पर॒मे स॒धस्थे᳚ ॥ नाके॑ सुप॒र्णमुप॒ यत् पत॑न्तꣳ हृ॒दा वेन॑न्तो अ॒भ्यच॑क्षत त्वा । हिर॑ण्यपक्ष॒म् ॅवरु॑णस्य दू॒तम् ॅय॒मस्य॒ योनौ॑ शकु॒नम् भु॑र॒ण्युम् ॥ अति॑द्रव सारमे॒यौ श्वानौ॑ चतुर॒क्षौ श॒बलौ॑ सा॒धुना॑ प॒था । अथा॑ पि॒तॄन्थ् सु॑वि॒दत्राꣳ॒॒ अपी॑हि य॒मेन॒ ये स॑ध॒माद॒म् मद॑न्ति ॥ यौ ते॒ श्वानौ॑ यम रक्षि॒तारौ॑ चतुर॒क्षौ प॑थि॒रक्षी॑ नृ॒चक्ष॑सा । ताभ्याꣳ॑ राज॒न् परि॑ देह्येनꣳ स्व॒स्ति चा᳚स्मा अनमी॒वम् च॑ धेहि ।
कोर्वै (Index)
(धे॒ - ह्युत्त॑रे - मा॒ष्टौ च॑)
T.A.4.3.2
उ॒रु॒ण॒सा-व॑सु॒तृपा॑-वुलुम्ब॒लौ य॒मस्य॑ दू॒तौ च॑रतो॒ वशाꣳ॒॒ अनु॑ । ताव॒स्मभ्य॑म् दृ॒शये॒ सूर्या॑य॒ पुन॑र्दत् ता॒वसु॑म॒द्येह भ॒द्रम् ॥ सोम॒ एके᳚भ्यः पवते घृ॒तमेक॒ उपा॑सते । येभ्यो॒ मधु॑ प्र॒धाव॑ति॒ ताꣳ-श्चि॑दे॒वापि॑गच्छतात् ॥ ये युद्ध्य॑न्ते प्र॒धने॑षु॒ शूरा॑सो॒ ये त॑नु॒त्यजः॑ । ये वा॑ स॒हस्र॑दक्षिणा॒स्ताꣳ श्चि॑दे॒वापि॑गच्छतात् ॥ तप॑सा॒ ये अ॑नाधृ॒ष्या-स्तप॑सा॒ ये सुव॑र्ग॒ताः । तपो॒ ये च॑क्रि॒रे म॒हत् ताꣳ-श्चि॑दे॒वापि॑गच्छतात् ॥ अश्म॑न्वती रेवतीः॒ सꣳर॑भद्ध्व॒-मुत्ति॑ष्ठत॒ प्रत॑रता सखायः । अत्रा॑ जहाम॒ ये अस॒न्नशे॑वाः शि॒वान्. व॒यम॒भि वाजा॒नुत्त॑रेम ।
कोर्वै (Index)
(धे॒ - ह्युत्त॑रे - मा॒ष्टौ च॑)
T.A.4.3.3
यद्वै दे॒वस्य॑ सवि॒तुः प॒वित्रꣳ॑ स॒हस्र॑धार॒म् ॅवित॑तम॒न्तरि॑क्षे । येनापु॑ना॒दिन्द्र॒मना᳚र्त॒-मार्त्यै॒ तेना॒हम् माꣳ स॒र्वत॑नुम् पुनामि ॥ या रा॒ष्ट्रात् प॒न्नादप॒ यन्ति॒ शाखा॑ अ॒भिमृ॑ता नृ॒पति॑मि॒च्छमा॑नाः । धा॒तुस्ताः सर्वाः॒ पव॑नेन पू॒ताः प्र॒जया॒ऽस्मान्-र॒य्या वर्च॑सा॒ सꣳसृ॑जाथ ॥ उद्व॒यम् तम॑स॒स्परि॒ पश्य॑न्तो॒ ज्योति॒रुत्त॑रम् । दे॒वम् दे॑व॒त्रा सूर्य॒मग॑न्म॒ ज्योति॑रुत्त॒मम् ॥ धा॒ता पु॑नातु सवि॒ता पु॑नातु । अ॒ग्नेस्तेज॑सा॒ सूर्य॑स्य॒ वर्च॑सा ।
कोर्वै (Index)
(धे॒ - ह्युत्त॑रे - मा॒ष्टौ च॑)