वै॒श्वा॒न॒रे ह॒विरि॒दम् जु॑होमि साह॒स्र-मुथ्सꣳ॑ श॒तधा॑रमे॒तम् । तस्मि॑न्ने॒ष पि॒तर॑म् पिताम॒हम् प्रपि॑तामहम् बिभर॒त् पिन्व॑माने ॥ द्र॒फ्सश्च॑स्कन्द पृथि॒वीमनु॒ द्यामि॒मञ्च॒ योनि॒मनु॒ यश्च॒ पूर्वः॑ । तृ॒तीय॒म् ॅयोनि॒मनु॑ स॒ञ्चर॑न्तम् द्र॒फ्सम् जु॑हो॒म्यनु॑ स॒प्त होत्राः᳚ ॥ इ॒मꣳ स॑मु॒द्रꣳ श॒तधा॑र॒मुथ्स॑म् ॅव्य॒च्यमा॑न॒म् भुव॑नस्य॒ मद्ध्ये᳚ । घृ॒तम् दुहा॑ना॒मदि॑ति॒म् जना॒याग्ने॒ मा हिꣳ॑सीः पर॒मे व्यो॑मन्न् ॥ अपे॑त॒ वीत॒ वि च॑ सर्प॒तातो॒ येऽत्र॒ स्थ पु॑रा॒णा ये च॒ नूत॑नाः । अहो॑भिर॒द्भि-र॒क्तुभि॒र्-व्य॑क्तम् ॅय॒मो द॑दा-त्वव॒सान॑मस्मै ॥ स॒वि॒तैतानि॒ शरी॑राणि पृथि॒व्यै मा॒तुरु॒पस्थ॒ आद॑धे । तेभि॑र्-युज्यन्ता-मघ्नि॒याः ।
कोर्वै (Index)
(अ॒घ्नि॒या - अ॑गन्म - +स॒प्त च॑)