अ॒पू॒पवा᳚न् घृ॒तवाꣳ॑श्च॒रुरेह सी॑दतूत्तभ्नु॒वन् पृ॑थि॒वीम् द्यामु॒तोपरि॑ । यो॒नि॒कृतः॑ पथि॒कृतः॑ सपर्यत॒ ये दे॒वाना᳚म् घृ॒तभा॑गा इ॒ह स्थ । ए॒षा ते यम॒साद॑ने स्व॒धा निधी॑यते गृ॒हे॑ऽसौ । दशा᳚क्षरा॒ ताꣳ र॑क्षस्व॒ ताम् गो॑पायस्व॒ ताम् ते॒ परि॑ ददामि॒ तस्या᳚म् त्वा॒ मा द॑भन् पि॒तरो॑ दे॒वता᳚ । प्र॒जाप॑तिस्त्वा सादयतु॒ तया॑ दे॒वत॑या ॥ अ॒पू॒पवा᳚-ञ्छृ॒तवा᳚न्-क्षी॒रवा॒न्-दधि॑वा॒न्-मधु॑माꣳ-श्च॒रुरेह सी॑दतूत्तभ्नु॒वन्-पृ॑थि॒वीम् द्यामु॒तोपरि॑ । यो॒नि॒कृतः॑ पथि॒कृतः॑ सपर्यत॒ ये दे॒वानाꣳ॑ शृ॒तभा॑गाः क्षी॒रभा॑गा॒ दधि॑भागा॒ मधु॑भागा इ॒ह स्थ । ए॒षा ते॑ यम॒साद॑ने स्व॒धा निधी॑यते गृ॒हे॑ऽसौ । श॒ताक्ष॑रा स॒हस्रा᳚क्षरा॒-ऽयुता᳚क्ष॒रा-ऽच्यु॑ताक्षरा॒ ताꣳ र॑क्षस्व॒ ताम् गो॑पायस्व॒ ताम् ते॒ परि॑ददामि॒ तस्या᳚म् त्वा॒ मा द॑भन् पि॒तरो॑ दे॒वता᳚ । प्र॒जाप॑तिस्त्वा सादयतु॒ तया॑ दे॒वत॑या ।
कोर्वै (Index)
(अ॒पू॒पवा॑नसौ॒ दश॑)