आया॑तु दे॒वः सु॒मना॑भि-रू॒तिभि॑र्-य॒मो ह॑वे॒ह प्रय॑ताभिर॒क्ता । आसी॑दताꣳ सुप्र॒यते॑ह ब॒र्॒.हिष्यूर्जा॑य जा॒त्यै मम॑ शत्रु॒हत्यै᳚ ॥ य॒मे इ॑व॒ यत॑माने॒ यदैत॒म् प्रवा᳚म्भर॒न् मानु॑षा देव॒यन्तः॑ । आसी॑दतꣳ॒॒ स्वमु॑ लो॒कम् ॅविदा॑ने स्वास॒स्थे भ॑वत॒मिन्द॑वे नः ॥ य॒माय॒ सोमꣳ॑ सुनुत य॒माय॑ जुहुता ह॒विः । य॒मꣳ ह॑ य॒ज्ञो ग॑च्छत्य॒ग्निदू॑तो॒ अर॑ङ्कृतः ॥ य॒माय॑ घृ॒तव॑द्ध॒विर्जु॒होत॒ प्र च॑ तिष्ठत । स नो॑ दे॒वेष्वाय॑मद्-दी॒र्घमायुः॒ प्र जी॒वसे᳚ ॥ य॒माय॒ मधु॑मत्तमꣳ॒॒ राज्ञे॑ ह॒व्यम् जु॑होतन । इ॒दम् नम॒ ऋषि॑भ्यः पूर्व॒जेभ्यः॒ पूर्वे᳚भ्यः पथि॒कृद्भ्यः॑ ।
कोर्वै (Index)
(प॒थि॒कृद्भ्यो॑ - विजान॒ते - ऽनु॑वेनति)