TA 4.2

1 पञ्चाशत्

T.A.4.2.1
य ए॒तस्य॑ प॒थो गो॒प्तार॒स्तेभ्यः॒ स्वाहा॒ य ए॒तस्य॑ प॒थो र॑क्षि॒तार॒स्तेभ्यः॒ स्वाहा॒ य ए॒तस्य॑ प॒थो॑ऽभिर॑क्षि॒तार॒स्तेभ्यः॒ स्वाहा᳚ऽऽख्या॒त्रे स्वाहा॑ऽपाख्या॒त्रे स्वाहा॑ऽभि॒लाल॑पते॒ स्वाहा॑ऽप॒लाल॑पते॒ स्वाहा॒ऽग्नये॑ कर्म॒कृते॒ स्वाहा॒ यमत्र॒ नाधी॒मस्तस्मै॒ स्वाहा᳚ ॥ यस्त॑ इ॒द्ध्मम् ज॒भर॑थ् सिष्विदा॒नो मू॒र्द्धान॑म् ॅवा त॒तप॑ते त्वा॒या । दिवो॒ विश्व॑स्माथ् सीमघाय॒त उ॑रुष्यः ॥ अ॒स्मात्त्वमधि॑ जा॒तो॑ऽसि॒ त्वद॒यम् जा॑यता॒म् पुनः॑ । अ॒ग्नये॑ वैश्वान॒राय॑ सुव॒र्गाय॑ लो॒काय॒ स्वाहा᳚ ।
कोर्वै (Index)
(य ए॒तस्य॒ त्वत् पञ्च॑ )