उत्ते॑ तभ्नोमि पृथि॒वीम् त्वत्परी॒मम् ॅलो॒कम् नि॒दध॒न्मो अ॒हꣳ रि॑षम् । ए॒ताꣳ स्थूणा᳚म् पि॒तरो॑ धारयन्तु॒ तेऽत्रा॑ य॒मः साद॑नात्ते मिनोतु ॥ उप॑सर्प मा॒तर॒म् भूमि॑मे॒ता-मु॑रु॒व्यच॑सम् पृथि॒वीꣳ सु॒शेवा᳚म् । ऊर्ण॑म्रदा युव॒तिर् दक्षि॑णावत्ये॒षा त्वा॑ पातु॒ निर्.ऋ॑त्या उ॒पस्थे᳚ ॥ उच्छ्म॑ञ्चस्व पृथिवि॒ मा विबा॑धिथाः सूपाय॒नाऽस्मै॑ भव सूपवञ्च॒ना । मा॒ता पु॒त्रम् ॅयथा॑ सि॒चाऽभ्ये॑नम् भूमि वृणु ॥ उ॒च्छ्मञ्च॑माना पृथि॒वी हि तिष्ठ॑सि स॒हस्र॒म्मित॒ उप॒ हि श्रय॑न्ताम् । ते गृ॒हासो॑ मधु॒श्चुतो॒ विश्वाहा᳚स्मै शर॒णाः स॒न्त्वत्र॑ ॥ एणी᳚र्द्धा॒ना हरि॑णी॒रर्जु॑नीः सन्तु धे॒नवः॑ । तिल॑वथ्सा॒ ऊर्ज॑मस्मै॒ दुहा॑ना॒ विश्वाहा॑ स॒न्त्वन॑पस्फुरन्तीः ।
कोर्वै (Index)
(अन॑पस्फुरन्ती॒ - रुत्त॑र - दे॒वत॑या॒ द्वे च॑)