TA 8.1

7 पञ्चाशत्

T.A.8.1.1
दे॒वा वै स॒त्रमा॑सत । ऋद्धि॑परिमित॒म् ॅयश॑स्कामाः । ते᳚ऽब्रुवन्न् । यन्नः॑ प्रथ॒मं ॅयश॑ ऋ॒च्छात् । सर्वे॑षा-न्न॒स्तथ्-स॒हास॒दिति॑ । तेषा᳚म् कुरुक्षे॒त्रं ॅवेदि॑रासीत् । तस्यै॑ खाण्ड॒वो द॑क्षिणा॒र्द्ध आ॑सीत् । तूर्घ्न॑मुत्तरा॒र्द्धः । प॒री॒णज्ज॑घना॒र्द्धः । म॒रव॑ उत्क॒रः
कोर्वै (Index)
(उ॒त्क॒रो - ह्ये॑ - ते - तृ॑न्दन्ति - महावीर॒त्व - म॑ब्रुवन् - नजयन्थ् स॒प्त च॑)
T.A.8.1.2
तेषा᳚म् म॒खं ॅवै᳚ष्ण॒वं ॅयश॑ आर्च्छत् । तन्न्य॑कामयत । तेनापा᳚क्रामत् । तम् दे॒वा अन्वा॑यन्न् । यशो॑ऽव॒रुरु॑थ्समानाः । तस्या॒न्वाग॑तस्य । स॒व्याद्धनु॒रजा॑यत । दक्षि॑णा॒दिष॑वः । तस्मा॑दिषुध॒न्वम् पुण्य॑जन्म । य॒ज्ञ्ज॑न्मा॒ हि
कोर्वै (Index)
(उ॒त्क॒रो - ह्ये॑ - ते - तृ॑न्दन्ति - महावीर॒त्व - म॑ब्रुवन् - नजयन्थ् स॒प्त च॑)
T.A.8.1.3
तमेकꣳ॒॒ सन्त᳚म् । ब॒हवो॒ नाभ्य॑धृष्णुवन्न् । तस्मा॒देक॑मिषुध॒न्विन᳚म् । ब॒हवो॑ऽनिषुध॒न्वा नाभिधृ॑ष्णुवन्ति । सो᳚ऽस्मयत । एक॑म् मा॒ सन्त॑म् ब॒हवो॒ नाभ्य॑धर्.षिषु॒रिति॑ । तस्य॑ सिष्मिया॒णस्य॒ तेजोऽपा᳚क्रामत् । तद्-दे॒वा ओष॑धीषु॒ न्य॑मृजुः । ते श्या॒माका॑ अभवन्न् । स्म॒याका॒ वै नामै॒ते
कोर्वै (Index)
(उ॒त्क॒रो - ह्ये॑ - ते - तृ॑न्दन्ति - महावीर॒त्व - म॑ब्रुवन् - नजयन्थ् स॒प्त च॑)
T.A.8.1.4
तथ् स्म॒याका॑नाꣳ स्मयाक॒त्वम् । तस्मा᳚द्-दीक्षि॒तेना॑पि॒गृह्य॑ स्मेत॒व्य᳚म् । तेज॑सो॒ धृत्यै᳚ । स धनुः॑ प्रति॒ष्कभ्या॑तिष्ठत् । ता उ॑प॒दीका॑ अब्रुव॒न्-वर॑म् ॅवृणामहै । अथ॑ व इ॒मꣳ र॑न्धयाम । यत्र॒ क्व॑ च॒ खना॑म । तद॒पो॑ऽभितृ॑णदा॒मेति॑ । तस्मा॑दुप॒दीका॒ यत्र॒ क्व॑ च॒ खन॑न्ति । तद॒पो॑ऽभितृ॑न्दन्ति
कोर्वै (Index)
(उ॒त्क॒रो - ह्ये॑ - ते - तृ॑न्दन्ति - महावीर॒त्व - म॑ब्रुवन् - नजयन्थ् स॒प्त च॑)
T.A.8.1.5
वारे॑वृतꣳ॒॒ ह्या॑साम् । तस्य॒ ज्यामप्या॑दन्न् । तस्य॒ धनु॑र्वि॒प्रव॑माणꣳ॒॒ शिर॒ उद॑वर्तयत् । तद् द्यावा॑पृथि॒वी अनु॒प्राव॑र्तत । यत् प्राव॑र्तत । तत् प्र॑व॒र्ग्य॑स्य प्रवर्ग्य॒त्वम् । यद्घ्राॅ(4) इत्यप॑तत् । तद्ध॒र्मस्य॑ घर्म॒त्वम् । म॒ह॒तो वी॒र्य॑मपप्त॒दिति॑ । तन् म॑हावी॒रस्य॑ महावीर॒त्वम्
कोर्वै (Index)
(उ॒त्क॒रो - ह्ये॑ - ते - तृ॑न्दन्ति - महावीर॒त्व - म॑ब्रुवन् - नजयन्थ् स॒प्त च॑)
T.A.8.1.6
यद॒स्याः स॒मभ॑रन्न् । तथ् स॒म्राज्ञ्ः॑ सम्रा॒ट्त्वम् । तꣳ स्तृ॒तम् दे॒वता᳚स्त्रे॒धा व्य॑गृह्णत । अ॒ग्निः प्रा॑तस्सव॒नम् । इन्द्रो॒ माद्ध्य॑न्दिनꣳ॒॒ सव॑नम् । विश्वे॑ दे॒वास्तृ॑तीयसव॒नम् । तेनाप॑शीर्ष्णा य॒ज्ञेन॒ यज॑मानाः । नाशिषो॒ऽवारु॑न्धत । न सु॑व॒र्गं ॅलो॒कम॒भ्य॑जयन्न् । ते दे॒वा अ॒श्विना॑वब्रुवन्न्
कोर्वै (Index)
(उ॒त्क॒रो - ह्ये॑ - ते - तृ॑न्दन्ति - महावीर॒त्व - म॑ब्रुवन् - नजयन्थ् स॒प्त च॑)
T.A.8.1.7
भि॒षजौ॒ वै स्थः॑ । इ॒दं ॅय॒ज्ञ्स्य॒ शिरः॒ प्रति॑धत्त॒मिति॑ । ताव॑ब्रूतां॒ ॅवर॑म् ॅवृणावहै । ग्रह॑ ए॒व ना॒वत्रापि॑ गृह्यता॒मिति॑ । ताभ्या॑-मे॒तमा᳚श्वि॒न-म॑गृह्णन्न् । तावे॒तद्-य॒ज्ञ्स्य॒ शिरः॒ प्रत्य॑धत्ताम् । यत् प्र॑व॒र्ग्यः॑ । तेन॒ सशी᳚र्ष्णा य॒ज्ञेन॒ यज॑मानाः । अवा॒शिषोऽरु॑न्धत । अ॒भि सु॑व॒र्गं ॅलो॒कम॑जयन्न् ( ) । यत् प्र॑व॒र्ग्य॑म् प्रवृ॒णक्ति॑ । य॒ज्ञ्स्यै॒व तच्छिरः॒ प्रति॑दधाति । तेन॒ सशी᳚र्ष्णा य॒ज्ञेन॒ यज॑मानः । अवा॒शिषो॑ रु॒न्धे । अ॒भि सु॑व॒र्गं ॅलो॒कम् ज॑यति । तस्मा॑दे॒ष आ᳚श्वि॒नप्र॑वया इव । यत् प्र॑व॒र्ग्यः॑ ।
कोर्वै (Index)
(उ॒त्क॒रो - ह्ये॑ - ते - तृ॑न्दन्ति - महावीर॒त्व - म॑ब्रुवन् - नजयन्थ् स॒प्त च॑)