अ॒ग्निष्ट्वा॒ वसु॑भिः पु॒रस्ता᳚द्-रोचयतु गाय॒त्रेण॒ छन्द॒सेत्या॑ह । अ॒ग्निरे॒वैनं॒ ॅवसु॑भिः पु॒रस्ता᳚द्-रोचयति गाय॒त्रेण॒ छन्द॑सा । स मा॑ रुचि॒तो रो॑च॒येत्या॑ह । आ॒शिष॑मे॒वैतामाशा᳚स्ते । इन्द्र॑स्त्वा रु॒द्रैर्-द॑क्षिण॒तो रो॑चयतु॒ त्रैष्टु॑भेन॒ छन्द॒सेत्या॑ह । इन्द्र॑ ए॒वैनꣳ॑ रु॒द्रैर्-द॑क्षिण॒तो रो॑चयति॒ त्रैष्टु॑भेन॒ छन्द॑सा । स मा॑ रुचि॒तो रो॑च॒येत्या॑ह । आ॒शिष॑मे॒वैतामाशा᳚स्ते । वरु॑णस्त्वाऽऽदि॒त्यैः प॒श्चाद्-रो॑चयतु॒ जाग॑तेन॒ छन्द॒सेत्या॑ह । वरु॑ण ए॒वैन॑मादि॒त्यैः प॒श्चाद्-रो॑चयति॒ जाग॑तेन॒ छन्द॑सा
कोर्वै (Index)
(प॒श्चाद् रो॑चयति॒ जग॑तेन॒ छन्द॑सा॒ - पाङ्क्ते॑न॒ छन्द॑सा॒ स मा॑ रुचि॒तो रो॑च॒येत्या॑हा॒शिष॑मे॒वैतामाशा᳚स्ते - शास्ते॒ ऽष्टौ च॑)