TA 8.10

6 पञ्चाशत्

T.A.8.10.1
प्र॒जाप॑तिं॒ ॅवै दे॒वाः शु॒क्रम् पयो॑ऽदुह्रन्न् । तदे᳚भ्यो॒ न व्य॑भवत् । तद॒ग्निर्व्य॑करोत् । तानि॒ शुक्रि॑याणि॒ सामा᳚न्यभवन्न् । तेषां॒ ॅयो रसो॒ऽत्यक्ष॑रत् । तानि॑ शुक्रय॒जूꣳष्य॑भवन्न् । शुक्रि॑याणां॒ ॅवा ए॒तानि॒ शुक्रि॑याणि । सा॒म॒प॒य॒सम्ॅवा ए॒तयो॑र॒न्यत् । दे॒वाना॑म॒न्यत्पयः॑ । यद्गोः पयः॑
कोर्वै (Index)
(गोः पय॑ - उत्तरवे॒दि - रा॑सते - स्थापयति - घ॒र्मो - य॑न्ति)
T.A.8.10.2
तथ् साम्नः॒ पयः॑ । यद॒जायै॒ पयः॑ । तद्-दे॒वाना॒म् पयः॑ । तस्मा॒द्-यत्रै॒तैर्-यजु॑र्भि॒श्चर॑न्ति । तत् पय॑सा चरन्ति । प्र॒जाप॑तिमे॒व तद् दे॒वान्पय॑सा॒ऽन्नाद्ये॑न॒ सम॑र्द्धयन्ति । ए॒ष ह॒ त्वै सा॒क्षात् प्र॑व॒र्ग्य॑म् भक्षयति । यस्यै॒वं ॅवि॒दुषः॑ प्रव॒र्ग्यः॑ प्रवृ॒ज्यते᳚ । उ॒त्त॒र॒वे॒द्या-मुद्वा॑सये॒त्-तेज॑स्कामस्य । तेजो॒ वा उ॑त्तरवे॒दिः
कोर्वै (Index)
(गोः पय॑ - उत्तरवे॒दि - रा॑सते - स्थापयति - घ॒र्मो - य॑न्ति)
T.A.8.10.3
तेजः॑ प्रव॒र्ग्यः॑ । तेज॑सै॒व तेजः॒ सम॑र्द्धयति । उ॒त्त॒र॒वे॒द्या-मुद्वा॑सये॒-दन्न॑कामस्य । शिरो॒ वा ए॒तद्-य॒ज्ञ्स्य॑ । यत् प्र॑व॒र्ग्यः॑ । मुख॑मुत्तरवे॒दिः । शी॒र्ष्णैव मुखꣳ॒॒ सन्द॑धात्य॒न्नाद्या॑य । अ॒न्ना॒द ए॒व भ॑वति । यत्र॒ खलु॒ वा ए॒तमुद्वा॑सितं॒ ॅवयाꣳ॑सि प॒र्यास॑ते । परि॒ वै ताꣳ समा᳚म् प्र॒जा वयाꣳ॑स्यासते
कोर्वै (Index)
(गोः पय॑ - उत्तरवे॒दि - रा॑सते - स्थापयति - घ॒र्मो - य॑न्ति)
T.A.8.10.4
तस्मा॑-दुत्तरवे॒द्या-मे॒वोद्वा॑सयेत् । प्र॒जाना᳚म् गोपी॒थाय॑ । पु॒रो वा॑ प॒श्चाद्वोद्वा॑सयेत् । पु॒रस्ता॒द्वा ए॒तज्ज्योति॒रुदे॑ति । तत् प॒श्चान्निम्रो॑चति । स्वामे॒वैन॒म् ॅयोनि॒मनूद्वा॑सयति । अ॒पाम् मद्ध्य॒ उद्वा॑सयेत् । अ॒पां ॅवा ए॒तन्मद्ध्या॒-ज्ज्योति॑रजायत । ज्योतिः॑ प्रव॒र्ग्यः॑ । स्व ए॒॒वैनं॒ ॅयोनौ॒ प्रति॑ष्ठापयति
कोर्वै (Index)
(गोः पय॑ - उत्तरवे॒दि - रा॑सते - स्थापयति - घ॒र्मो - य॑न्ति)
T.A.8.10.5
यम् द्वि॒ष्यात् । यत्र॒ स स्यात् । तस्या᳚म् दि॒श्युद्वा॑सयेत् । ए॒ष वा अ॒ग्निर्-वै᳚श्वान॒रः । यत्-प्र॑व॒र्ग्यः॑ । अ॒ग्निनै॒वैनं॑ ॅवैश्वान॒रेणा॒भि प्रव॑र्तयति । औदु॑म्बर्याꣳ॒॒ शाखा॑या॒मुद्वा॑सयेत् । ऊर्ग्वा उ॑दु॒म्बरः॑ । अन्न॑म् प्रा॒णः । शुग्घ॒र्मः
कोर्वै (Index)
(गोः पय॑ - उत्तरवे॒दि - रा॑सते - स्थापयति - घ॒र्मो - य॑न्ति)
T.A.8.10.6
इ॒दम॒ह-म॒मुष्या॑मुष्याय॒णस्य॑ शु॒चा प्रा॒णमपि॑ दहा॒मीत्या॑ह । शु॒चैवास्य॑ प्रा॒णमपि॑ दहति । ता॒जगार्ति॒मार्च्छ॑ति । यत्र॑ द॒र्भा उ॑प॒दीक॑सन्तताः॒ स्युः । तदुद्वा॑सये॒द्-वृष्टि॑कामस्य । ए॒ता वा अ॒पाम॑नू॒ज्झाव॑र्यो॒ नाम॑ । यद्-द॒र्भाः । अ॒सौ खलु॒ वा आ॑दि॒त्य इ॒तो वृष्टि॒मुदी॑रयति । अ॒सावे॒वास्मा॑ आदि॒त्यो वृष्टि॒न्निय॑च्छति । ता आपो॒ निय॑ता॒ धन्व॑ना यन्ति ( ) ।
कोर्वै (Index)
(गोः पय॑ - उत्तरवे॒दि - रा॑सते - स्थापयति - घ॒र्मो - य॑न्ति)