TA 8.9

11 पञ्चाशत्

T.A.8.9.1
घर्म॒ या ते॑ दि॒वि शुगिति॑ ति॒स्र आहु॑तीर्-जुहोति । छन्दो॑भिरे॒वास्यै॒भ्यो लो॒केभ्यः॒ शुच॒मव॑ यजते । इय॒त्यग्रे॑ जुहोति । अथेय॒त्यथेय॑ति । त्रय॑ इ॒मे लो॒काः । ए॒भ्य ए॒व लो॒केभ्यः॒ शुच॒मव॑ यजते । अनु॑ नो॒ऽद्यानु॑मति॒रित्या॒हानु॑मत्यै । दि॒वस्त्वा॑ पर॒स्पाया॒ इत्या॑ह । दि॒व ए॒वेमान् ॅलो॒कान् दा॑धार । ब्रह्म॑णस्त्वा पर॒स्पाया॒ इत्या॑ह
कोर्वै (Index)
(ब्रह्म॑णस्त्वा पर॒स्पाया॒ इत्या॑ह - दधा - त्य॒न्वित्य॑ - रक्ष॒स्वी रक्ष॑सा॒मप॑हत्यै॒ - वै हिर॑ण्य - माहा - र्द्धयति॒ - ह्ये॑ष - गृ॑णा॒त्वित्या॑ह - मनु॒ष्या॑नित्या॑हा - स्यै॒षो᳚ ऽष्टौ च॑)
T.A.8.9.2
ए॒ष्वे॑व लो॒केषु॑ प्र॒जा दा॑धार । प्रा॒णस्य॑ त्वा पर॒स्पाया॒ इत्या॑ह । प्र॒जास्वे॒व प्रा॒णान् दा॑धार । शिरो॒ वा ए॒तद्-य॒ज्ञ्स्य॑ । यत् प्र॑व॒र्ग्यः॑ । अ॒सौ खलु॒ वा आ॑दि॒त्यः प्र॑व॒र्ग्यः॑ । तं ॅयद्-द॑क्षि॒णा प्र॒त्यञ्च॒-मुद॑ञ्च-मुद्वा॒सये᳚त् । जि॒ह्मं ॅय॒ज्ञ्स्य॒ शिरो॑ हरेत् । प्राञ्च॒मुद्वा॑सयति । पु॒रस्ता॑दे॒व य॒ज्ञ्स्य॒ शिरः॒ प्रति॑दधाति
कोर्वै (Index)
(ब्रह्म॑णस्त्वा पर॒स्पाया॒ इत्या॑ह - दधा - त्य॒न्वित्य॑ - रक्ष॒स्वी रक्ष॑सा॒मप॑हत्यै॒ - वै हिर॑ण्य - माहा - र्द्धयति॒ - ह्ये॑ष - गृ॑णा॒त्वित्या॑ह - मनु॒ष्या॑नित्या॑हा - स्यै॒षो᳚ ऽष्टौ च॑)
T.A.8.9.3
प्राञ्च॒मुद्वा॑सयति । तस्मा॑द॒सावा॑दि॒त्यः पु॒रस्ता॒दुदे॑ति । श॒फो॒प॒य॒मान्ध॒वित्रा॑णि॒ धृष्टी॒ इत्य॒न्वव॑हरन्ति । सात्मा॑नमे॒वैनꣳ॒॒ सत॑नुम् करोति । सात्मा॒ऽमुष्मि॑न् ॅलो॒के भ॑वति । य ए॒वं ॅवेद॑ । औदु॑म्बराणि भवन्ति । ऊर्ग्वा उ॑दु॒म्बरः॑ । ऊर्ज॑मे॒वाव॑रुन्धे । वर्त्म॑ना॒ वा अ॒न्वित्य॑
कोर्वै (Index)
(ब्रह्म॑णस्त्वा पर॒स्पाया॒ इत्या॑ह - दधा - त्य॒न्वित्य॑ - रक्ष॒स्वी रक्ष॑सा॒मप॑हत्यै॒ - वै हिर॑ण्य - माहा - र्द्धयति॒ - ह्ये॑ष - गृ॑णा॒त्वित्या॑ह - मनु॒ष्या॑नित्या॑हा - स्यै॒षो᳚ ऽष्टौ च॑)
T.A.8.9.4
य॒ज्ञ्ꣳ रक्षाꣳ॑सि जिघाꣳसन्ति । साम्ना᳚ प्रस्तो॒ताऽन्ववै॑ति । साम॒ वै र॑क्षो॒हा । रक्ष॑सा॒मप॑हत्यै । त्रिर्नि॒धन॒मुपै॑ति । त्रय॑ इ॒मे लो॒काः । ए॒भ्य ए॒व लो॒केभ्यो॒ रक्षाꣳ॒॒स्यप॑हन्ति । पुरु॑षःपुरुषो नि॒धन॒मुपै॑ति । पुरु॑षःपुरुषो॒ हि र॑क्ष॒स्वी । रक्ष॑सा॒मप॑हत्यै
कोर्वै (Index)
(ब्रह्म॑णस्त्वा पर॒स्पाया॒ इत्या॑ह - दधा - त्य॒न्वित्य॑ - रक्ष॒स्वी रक्ष॑सा॒मप॑हत्यै॒ - वै हिर॑ण्य - माहा - र्द्धयति॒ - ह्ये॑ष - गृ॑णा॒त्वित्या॑ह - मनु॒ष्या॑नित्या॑हा - स्यै॒षो᳚ ऽष्टौ च॑)
T.A.8.9.5
यत् पृ॑थि॒व्यामु॑द्वा॒सये᳚त् । पृ॒थि॒वीꣳ शु॒चाऽर्प॑येत् । यद॒फ्सु । अ॒पः शु॒चार्प॑येत् । यदोष॑धीषु । ओष॑धीः शु॒चाऽर्प॑येत् । यद्-वन॒स्पति॑षु । वन॒स्पती᳚ञ्छु॒चाऽर्प॑येत् । हिर॑ण्यन्नि॒धायोद्वा॑सयति । अ॒मृतं॒ ॅवै हिर॑ण्यम्
कोर्वै (Index)
(ब्रह्म॑णस्त्वा पर॒स्पाया॒ इत्या॑ह - दधा - त्य॒न्वित्य॑ - रक्ष॒स्वी रक्ष॑सा॒मप॑हत्यै॒ - वै हिर॑ण्य - माहा - र्द्धयति॒ - ह्ये॑ष - गृ॑णा॒त्वित्या॑ह - मनु॒ष्या॑नित्या॑हा - स्यै॒षो᳚ ऽष्टौ च॑)
T.A.8.9.6
अ॒मृत॑ ए॒वैन॒म् प्रति॑ष्ठापयति । व॒ल्गुर॑सि शं॒ ॅयुधा॑या॒ इति॒ त्रिः प॑रिषि॒ञ्चन्पर्ये॑ति । त्रि॒वृद्वा अ॒ग्निः । यावा॑ने॒वाग्निः । तस्य॒ शुचꣳ॑ शमयति । त्रिः पुनः॒ पर्ये॑ति । षट्थ् सम्प॑द्यन्ते । षड्वा ऋ॒तवः॑ । ऋ॒तुभि॑रे॒वास्य॒ शुचꣳ॑ शमयति । चतुः॑ स्रक्ति॒र्नाभि॑र्. ऋ॒तस्येत्या॑ह
कोर्वै (Index)
(ब्रह्म॑णस्त्वा पर॒स्पाया॒ इत्या॑ह - दधा - त्य॒न्वित्य॑ - रक्ष॒स्वी रक्ष॑सा॒मप॑हत्यै॒ - वै हिर॑ण्य - माहा - र्द्धयति॒ - ह्ये॑ष - गृ॑णा॒त्वित्या॑ह - मनु॒ष्या॑नित्या॑हा - स्यै॒षो᳚ ऽष्टौ च॑)
T.A.8.9.7
इ॒यं ॅवा ऋ॒तम् । तस्या॑ ए॒ष ए॒व नाभिः॑ । यत् प्र॑व॒र्ग्यः॑ । तस्मा॑दे॒वमा॑ह । सदो॑ वि॒श्वायु॒रित्या॑ह । सदो॒ हीयम् । अप॒ द्वेषो॒ अप॒ ह्वर॒ इत्या॑ह॒ भ्रातृ॑व्यापनुत्त्यै । घर्मै॒तत्तेऽन्न॑मे॒तत् पुरी॑ष॒मिति॑ द॒द्ध्ना म॑धुमि॒श्रेण॑ पूरयति । ऊर्ग्वा अ॒न्नाद्य॒न्दधि॑ । ऊ॒र्जैवैन॑म॒न्नाद्ये॑न॒ सम॑र्द्धयति
कोर्वै (Index)
(ब्रह्म॑णस्त्वा पर॒स्पाया॒ इत्या॑ह - दधा - त्य॒न्वित्य॑ - रक्ष॒स्वी रक्ष॑सा॒मप॑हत्यै॒ - वै हिर॑ण्य - माहा - र्द्धयति॒ - ह्ये॑ष - गृ॑णा॒त्वित्या॑ह - मनु॒ष्या॑नित्या॑हा - स्यै॒षो᳚ ऽष्टौ च॑)
T.A.8.9.8
अन॑शनायुको भवति । य ए॒वं ॅवेद॑ । रन्ति॒र्नामा॑सि दि॒व्यो ग॑न्ध॒र्व इत्या॑ह । रू॒पमे॒वास्यै॒-तन्-म॑हि॒मानꣳ॒॒ रन्ति॑म् ब॒न्धुतां॒ ॅव्याच॑ष्टे । सम॒हमायु॑षा॒ सम् प्रा॒णेनेत्या॑ह । आ॒शिष॑मे॒वैतामाशा᳚स्ते । व्य॑सौ यो᳚ऽस्मान् द्वेष्टि॒ यञ्च॑ व॒यम् द्वि॒ष्म इत्या॑ह । अ॒भि॒चा॒र ए॒वास्यै॒षः । अचि॑क्रद॒द्-वृषा॒ हरि॒रित्या॑ह । वृषा॒ ह्ये॑षः
कोर्वै (Index)
(ब्रह्म॑णस्त्वा पर॒स्पाया॒ इत्या॑ह - दधा - त्य॒न्वित्य॑ - रक्ष॒स्वी रक्ष॑सा॒मप॑हत्यै॒ - वै हिर॑ण्य - माहा - र्द्धयति॒ - ह्ये॑ष - गृ॑णा॒त्वित्या॑ह - मनु॒ष्या॑नित्या॑हा - स्यै॒षो᳚ ऽष्टौ च॑)
T.A.8.9.9
वृषा॒ हरिः॑ । म॒हान्-मि॒त्रो न द॑र्.श॒त इत्या॑ह । स्तौत्ये॒वैन॑मे॒तत् । चिद॑सि समु॒द्रयो॑नि॒रित्या॑ह । स्वामे॒वैनं॒ ॅयोनि॑ङ्गमयति । नम॑स्ते अस्तु॒ मा मा॑ हिꣳसी॒रित्या॒हाहिꣳ॑सायै । वि॒श्वाव॑सुꣳ सोमगन्ध॒र्वमित्या॑ह । यदे॒वास्य॑ क्रि॒यमा॑णस्यान्त॒र्यन्ति॑ । तदे॒वास्यै॒तेना प्या॑ययति । वि॒श्वाव॑सुर॒भि तन्नो॑ गृणा॒त्वित्या॑ह
कोर्वै (Index)
(ब्रह्म॑णस्त्वा पर॒स्पाया॒ इत्या॑ह - दधा - त्य॒न्वित्य॑ - रक्ष॒स्वी रक्ष॑सा॒मप॑हत्यै॒ - वै हिर॑ण्य - माहा - र्द्धयति॒ - ह्ये॑ष - गृ॑णा॒त्वित्या॑ह - मनु॒ष्या॑नित्या॑हा - स्यै॒षो᳚ ऽष्टौ च॑)
T.A.8.9.10
पूर्व॑मे॒वोदि॒तम् । उत्त॑रेणा॒भिगृ॑णाति । धियो॑ हिन्वा॒नो धिय॒ इन्नो॑ अव्या॒दित्या॑ह । ऋ॒तूने॒वास्मै॑ कल्पयति । प्रासा᳚म् गन्ध॒र्वो अ॒मृता॑नि वोच॒दित्या॑ह । प्रा॒णा वा अ॒मृताः᳚ । प्रा॒णाने॒वास्मै॑ कल्पयति । ए॒तत्त्वन्दे॑व घर्म दे॒वो दे॒वानुपा॑गा॒ इत्या॑ह । दे॒वो ह्ये॑ष सन्दे॒वानु॒पैति॑ । इ॒दम॒हम् म॑नु॒ष्यो॑ मनु॒ष्या॑नित्या॑ह
कोर्वै (Index)
(ब्रह्म॑णस्त्वा पर॒स्पाया॒ इत्या॑ह - दधा - त्य॒न्वित्य॑ - रक्ष॒स्वी रक्ष॑सा॒मप॑हत्यै॒ - वै हिर॑ण्य - माहा - र्द्धयति॒ - ह्ये॑ष - गृ॑णा॒त्वित्या॑ह - मनु॒ष्या॑नित्या॑हा - स्यै॒षो᳚ ऽष्टौ च॑)
T.A.8.9.11
म॒नु॒ष्यो॑ हि । ए॒ष सन्-म॑नु॒ष्या॑नु॒पैति॑ । ई॒श्व॒रो वै प्र॑व॒र्ग्य॑मुद्वा॒सयन्न्॑ । प्र॒जाम् प॒शून्थ् सो॑मपी॒थम॑नू॒द्वासः॒ सोम॑पी॒थानु॒मेहि॑ । स॒ह प्र॒जया॑ स॒ह रा॒यस्पोषे॒णेत्या॑ह । प्र॒जामे॒व प॒शून्थ् सो॑मपी॒थमा॒त्मन् ध॑त्ते । सु॒मि॒त्रा न॒ आप॒ ओष॑धयः स॒न्त्वित्या॑ह । आ॒शिष॑मे॒वैतामाशा᳚स्ते । दु॒र्मि॒त्रास्तस्मै॑ भूयासु॒र्-यो᳚ऽस्मान्-द्वेष्टि॒ यञ्च॑ व॒यम् द्वि॒ष्म इत्या॑ह । अ॒भि॒चा॒र ए॒वास्यै॒षः ( ) । प्र वा ए॒षो᳚ऽस्माल् लो॒काच्च्य॑वते । यः प्र॑व॒र्ग्य॑मुद्वा॒सय॑ति । उदु॒ त्यम् चि॒त्रमिति॑ सौ॒रीभ्या॑मृ॒ग्भ्याम् पुन॒रेत्य॒ गार्.ह॑पत्ये जुहोति । अ॒यम् ॅवै लो॒को गार्.ह॑पत्यः । अ॒स्मिन्ने॒व लो॒के प्रति॑तिष्ठति । अ॒सौ खलु॒ वा आ॑दि॒त्यः सु॑व॒र्गो लो॒कः । यथ् सौ॒री भव॑तः । तेनै॒व सु॑व॒र्गाल् लो॒कान्नैति॑ ।