परि॑श्रिते करोति । ब्र॒ह्म॒व॒र्च॒सस्य॒ परि॑गृहीत्यै । न कु॒र्वन्न॒भि प्रा᳚ण्यात् । यत् कु॒र्वन्न॑भि प्रा॒ण्यात् । प्रा॒णाञ्छु॒चाऽर्प॑येत् । अ॒प॒हाय॒ प्राणि॑ति । प्रा॒णाना᳚म् गोपी॒थाय॑ । न प्र॑व॒र्ग्य॑म्-चादि॒त्यम्-चा॒न्तरे॑यात् । यद॑न्तरे॒यात् । दु॒श्चर्मा᳚ स्यात्
कोर्वै (Index)
(स्या॒द्- यत् प्र॑व॒र्ग्यः॑ - छन्दो॑भिः करोति - वी॒र्य॑ सम्मित॒म् - छन्दाꣳ॑सि नि॒ष्पत् - पृ॒णेत्या॑ह - सुक्षि॒ति - रना᳚च्छृण्ण॒म् - छन्दाꣳ॒॒स्याच्छृ॑ण त्त्य॒ष्टौ च॑)