सा॒वि॒त्रम् जु॑होति॒ प्रसू᳚त्यै । च॒तु॒र्गृ॒ही॒तेन॑ जुहोति । चतु॑ष्पादः प॒शवः॑ । प॒शूने॒वाव॑रुन्धे । चत॑स्रो॒ दिशः॑ । दि॒क्ष्वे॑व प्रति॑तिष्ठति । छन्दाꣳ॑सि दे॒वेभ्योऽपा᳚क्रामन्न् । न वो॑ऽभा॒गानि॑ ह॒व्यं ॅव॑क्ष्याम॒ इति॑ । तेभ्य॑ ए॒त-च्च॑तुर्गृही॒त-म॑धारयन्न् । पु॒रो॒नु॒वा॒क्या॑यै या॒ज्या॑यै
कोर्वै (Index)
(या॒जा॑यै॒ - न जु॑हु॒या - दवि॑श॒द् - वेणः॒ - शान्त्यै॑ - प॒ङ्क्तिरा॑धस॒मित्या॑ह - हरति - दिहन्ति - प॒राक्र॑म॒ - तावि॑शत् - प्र॒जाय॑मानानाꣳ - सृजति - श॒न्त्वाया॒ ष्टौ च॑)