TA 8.4

13 पञ्चाशत्

T.A.8.4.1
ब्रह्म॒न् प्रच॑रिष्यामो॒ होत॑र्-घ॒र्मम॒भिष्टु॒हीत्या॑ह । ए॒ष वा ए॒तर्.हि॒ बृह॒स्पतिः॑ । यद्ब्र॒ह्मा । तस्मा॑ ए॒व प्र॑ति॒प्रोच्य॒ प्रच॑रति । आ॒त्मनोऽना᳚र्त्यै । य॒माय॑ त्वा म॒खाय॒ त्वेत्या॑ह । ए॒ता वा ए॒तस्य॑ दे॒वताः᳚ । ताभि॑रे॒वैनꣳ॒॒ सम॑र्द्धयति । मद॑न्तीभिः॒ प्रोक्ष॑ति । तेज॑ ए॒वास्मि॑न् दधाति
कोर्वै (Index)
(द॒धा॒- ती॒वान्वा॑ह - य॒ज्ञ् - स्या॑है॒ - ष - उ॒परि॑ष्टादाशीर॒न्यो - व्या᳚स्था॒पय॑न्ति - र॒श्मयो॑ - भवन्ति॒ - धन्वेत्या॑ह - य॒ज्ञ् - श्च॑क्राम॒ - सम॑ष्ट्यै॒ द्वे च॑)
T.A.8.4.2
अ॒भि॒पू॒र्वम् प्रोक्ष॑ति । अ॒भि॒पू॒र्व-मे॒वास्मि॒न्-तेजो॑ दधाति । त्रिः प्रोक्ष॑ति । त्र्या॑वृ॒द्धि य॒ज्ञ्ः । अथो॑ मेद्ध्य॒त्वाय॑ । होताऽन्वा॑ह । रक्ष॑सा॒मप॑हत्यै । अन॑वानम् । प्रा॒णानाꣳ॒॒ सन्त॑त्यै । त्रि॒ष्टुभः॑ स॒तीर्-गा॑य॒त्रीरि॒वान्वा॑ह
कोर्वै (Index)
(द॒धा॒- ती॒वान्वा॑ह - य॒ज्ञ् - स्या॑है॒ - ष - उ॒परि॑ष्टादाशीर॒न्यो - व्या᳚स्था॒पय॑न्ति - र॒श्मयो॑ - भवन्ति॒ - धन्वेत्या॑ह - य॒ज्ञ् - श्च॑क्राम॒ - सम॑ष्ट्यै॒ द्वे च॑)
T.A.8.4.3
गा॒य॒त्रो हि प्रा॒णः । प्रा॒णमे॒व यज॑माने दधाति । सन्त॑त॒मन्वा॑ह । प्रा॒णाना॑म॒न्नाद्य॑स्य॒ सन्त॑त्यै । अथो॒ रक्ष॑सा॒मप॑हत्यै । यत् परि॑मिता अनुब्रू॒यात् । परि॑मित॒मव॑रुन्धीत । अप॑रिमिता॒ अन्वा॑ह । अप॑रिमित॒स्याव॑रुद्ध्यै । शिरो॒ वा ए॒तद्-य॒ज्ञ्स्य॑
कोर्वै (Index)
(द॒धा॒- ती॒वान्वा॑ह - य॒ज्ञ् - स्या॑है॒ - ष - उ॒परि॑ष्टादाशीर॒न्यो - व्या᳚स्था॒पय॑न्ति - र॒श्मयो॑ - भवन्ति॒ - धन्वेत्या॑ह - य॒ज्ञ् - श्च॑क्राम॒ - सम॑ष्ट्यै॒ द्वे च॑)
T.A.8.4.4
यत् प्र॑व॒र्ग्यः॑ । ऊङ्र्मुञ्जाः᳚ । यन् मौ॒ञ्जो वे॒दो भव॑ति । ऊ॒र्जैव य॒ज्ञ्स्य॒ शिरः॒ सम॑र्द्धयति । प्रा॒णा॒हु॒तीर्-जु॑होति । प्रा॒णाने॒व यज॑माने दधाति । स॒प्त जु॑होति । स॒प्त वै शी॑र्.ष॒ण्याः᳚ प्रा॒णाः । प्रा॒णाने॒वास्मि॑न् दधाति । दे॒वस्त्वा॑ सवि॒ता मद्ध्वा॑ऽन॒क्त्वित्या॑ह
कोर्वै (Index)
(द॒धा॒- ती॒वान्वा॑ह - य॒ज्ञ् - स्या॑है॒ - ष - उ॒परि॑ष्टादाशीर॒न्यो - व्या᳚स्था॒पय॑न्ति - र॒श्मयो॑ - भवन्ति॒ - धन्वेत्या॑ह - य॒ज्ञ् - श्च॑क्राम॒ - सम॑ष्ट्यै॒ द्वे च॑)
T.A.8.4.5
तेज॑सै॒वैन॑मनक्ति । पृ॒थि॒वीम् तप॑सस्त्राय॒स्वेति॒ हिर॑ण्य॒मुपा᳚स्यति । अ॒स्या अन॑तिदाहाय । शिरो॒ वा ए॒तद्-य॒ज्ञ्स्य॑ । यत् प्र॑व॒र्ग्यः॑ । अ॒ग्निः सर्वा॑ दे॒वताः᳚ । प्र॒ल॒वाना॒दीप्योपा᳚स्यति । दे॒वता᳚स्वे॒व य॒ज्ञ्स्य॒ शिरः॒ प्रति॑दधाति । अप्र॑तिशीर्णाग्रम् भवति । ए॒तद्-ब॑र्हि॒र्ह्ये॑षः
कोर्वै (Index)
(द॒धा॒- ती॒वान्वा॑ह - य॒ज्ञ् - स्या॑है॒ - ष - उ॒परि॑ष्टादाशीर॒न्यो - व्या᳚स्था॒पय॑न्ति - र॒श्मयो॑ - भवन्ति॒ - धन्वेत्या॑ह - य॒ज्ञ् - श्च॑क्राम॒ - सम॑ष्ट्यै॒ द्वे च॑)
T.A.8.4.6
अ॒र्चिर॑सि शो॒चिर॒सीत्या॑ह । तेज॑ ए॒वास्मि॑न् ब्रह्मवर्च॒सम् द॑धाति । सꣳसी॑दस्व म॒हाꣳ अ॒सीत्या॑ह । म॒हान्. ह्ये॑षः । ब्र॒ह्म॒वा॒दिनो॑ वदन्ति । ए॒ते वाव त ऋ॒त्विजः॑ । ये द॑र्.शपूर्णमा॒सयोः᳚ । अथ॑ क॒था होता॒ यज॑मानाया॒शिषो॒ नाशा᳚स्त॒ इति॑ । पु॒रस्ता॑दाशीः॒ खलु॒ वा अ॒न्यो य॒ज्ञ्ः । उ॒परि॑ष्टादाशीर॒न्यः
कोर्वै (Index)
(द॒धा॒- ती॒वान्वा॑ह - य॒ज्ञ् - स्या॑है॒ - ष - उ॒परि॑ष्टादाशीर॒न्यो - व्या᳚स्था॒पय॑न्ति - र॒श्मयो॑ - भवन्ति॒ - धन्वेत्या॑ह - य॒ज्ञ् - श्च॑क्राम॒ - सम॑ष्ट्यै॒ द्वे च॑)
T.A.8.4.7
अ॒ना॒धृ॒ष्या पु॒रस्ता॒दिति॒ यदे॒तानि॒ यजूꣳ॒॒ष्याह॑ । शी॒र्॒.ष॒त ए॒व य॒ज्ञ्स्य॒ यज॑मान आ॒शिषोऽव॑रुन्धे । आयुः॑ पु॒रस्ता॑दाह । प्र॒जाम् द॑क्षिण॒तः । प्रा॒णम् प॒श्चात् । श्रोत्र॑मुत्तर॒तः । विधृ॑तिमु॒परि॑ष्टात् । प्रा॒णाने॒वास्मै॑ स॒मीचो॑ दधाति । ई॒श्व॒रो वा ए॒ष दिशोऽनून्म॑दितोः । यन्दिशोऽनु॑ व्यास्था॒पय॑न्ति
कोर्वै (Index)
(द॒धा॒- ती॒वान्वा॑ह - य॒ज्ञ् - स्या॑है॒ - ष - उ॒परि॑ष्टादाशीर॒न्यो - व्या᳚स्था॒पय॑न्ति - र॒श्मयो॑ - भवन्ति॒ - धन्वेत्या॑ह - य॒ज्ञ् - श्च॑क्राम॒ - सम॑ष्ट्यै॒ द्वे च॑)
T.A.8.4.8
मनो॒रश्वा॑ऽसि॒ भूरि॑पु॒त्रेती॒मा-म॒भिमृ॑शति । इ॒यं ॅवै मनो॒रश्वा॒ भूरि॑पुत्रा । अ॒स्यामे॒व प्रति॑तिष्ठ॒त्यनु॑न्मादाय । सू॒प॒सदा॑ मे भूया॒ मा मा॑ हिꣳसी॒रित्या॒हाहिꣳ॑सायै । चितः॑ स्थ परि॒चित॒ इत्या॑ह । अप॑चितिमे॒वास्मि॑न् दधाति । शिरो॒ वा ए॒तद्-य॒ज्ञ्स्य॑ । यत् प्र॑व॒र्ग्यः॑ । अ॒सौ खलु॒ वा आ॑दि॒त्यः प्र॑व॒र्ग्यः॑ । तस्य॑ म॒रुतो॑ र॒श्मयः॑
कोर्वै (Index)
(द॒धा॒- ती॒वान्वा॑ह - य॒ज्ञ् - स्या॑है॒ - ष - उ॒परि॑ष्टादाशीर॒न्यो - व्या᳚स्था॒पय॑न्ति - र॒श्मयो॑ - भवन्ति॒ - धन्वेत्या॑ह - य॒ज्ञ् - श्च॑क्राम॒ - सम॑ष्ट्यै॒ द्वे च॑)
T.A.8.4.9
स्वाहा॑ म॒रुद्भिः॒ परि॑श्रय॒स्वेत्या॑ह । अ॒मुमे॒वादि॒त्यꣳ र॒श्मिभिः॒ पर्यू॑हति । तस्मा॑-द॒सावा॑दि॒त्यो॑ऽमुष्मि॑न् ॅलो॒के र॒श्मिभिः॒ पर्यू॑ढः । तस्मा॒द्-राजा॑ वि॒शा पर्यू॑ढः । तस्मा᳚द्-ग्राम॒णीः स॑जा॒तैः पर्यू॑ढः । अ॒ग्नेः सृ॒ष्टस्य॑ य॒तः । विक॑ङ्कत॒म् भा आ᳚र्च्छत् । यद् वैक॑ङ्कताः परि॒धयो॒ भव॑न्ति । भा ए॒वाव॑रुन्धे । द्वाद॑श भवन्ति
कोर्वै (Index)
(द॒धा॒- ती॒वान्वा॑ह - य॒ज्ञ् - स्या॑है॒ - ष - उ॒परि॑ष्टादाशीर॒न्यो - व्या᳚स्था॒पय॑न्ति - र॒श्मयो॑ - भवन्ति॒ - धन्वेत्या॑ह - य॒ज्ञ् - श्च॑क्राम॒ - सम॑ष्ट्यै॒ द्वे च॑)
T.A.8.4.10
द्वाद॑श॒ मासाः᳚ सम्ॅवथ्स॒रः । स॒म्ॅव॒थ्स॒रमे॒वाव॑रुन्धे । अस्ति॑ त्रयोद॒शो मास॒ इत्या॑हुः । यत् त्र॑योद॒शः प॑रि॒धिर्भव॑ति । तेनै॒व त्र॑योद॒शम् मास॒मव॑रुन्धे । अ॒न्तरि॑क्षस्यान्त॒र्-द्धिर॒सीत्या॑ह॒ व्यावृ॑त्त्यै । दिव॒म् तप॑सस्त्राय॒स्वे-त्यु॒परि॑ष्टा॒-द्धिर॑ण्य॒मधि॒ निद॑धाति । अ॒मुष्या॒ अन॑तिदाहाय । अथो॑ आ॒भ्यामे॒वैन॑मुभ॒यतः॒ परि॑गृह्णाति । अर्.ह॑न् बिभर्.षि॒ साय॑कानि॒ धन्वेत्या॑ह
कोर्वै (Index)
(द॒धा॒- ती॒वान्वा॑ह - य॒ज्ञ् - स्या॑है॒ - ष - उ॒परि॑ष्टादाशीर॒न्यो - व्या᳚स्था॒पय॑न्ति - र॒श्मयो॑ - भवन्ति॒ - धन्वेत्या॑ह - य॒ज्ञ् - श्च॑क्राम॒ - सम॑ष्ट्यै॒ द्वे च॑)
T.A.8.4.11
स्तौत्ये॒वैन॑मे॒तत् । गा॒य॒त्रम॑सि॒ त्रैष्टु॑भमसि॒ जाग॑तम॒सीति॑ ध॒वित्रा॒ण्याद॑त्ते । छन्दो॑भिरे॒वैना॒न्याद॑त्ते । मधु॒ मद्ध्विति॑ धूनोति । प्रा॒णो वै मधु॑ । प्रा॒णमे॒व यज॑माने दधाति । त्रिः परि॑यन्ति । त्रि॒वृद्धि प्रा॒णः । त्रिः परि॑यन्ति । त्र्या॑वृ॒द्धि य॒ज्ञ्ः
कोर्वै (Index)
(द॒धा॒- ती॒वान्वा॑ह - य॒ज्ञ् - स्या॑है॒ - ष - उ॒परि॑ष्टादाशीर॒न्यो - व्या᳚स्था॒पय॑न्ति - र॒श्मयो॑ - भवन्ति॒ - धन्वेत्या॑ह - य॒ज्ञ् - श्च॑क्राम॒ - सम॑ष्ट्यै॒ द्वे च॑)
T.A.8.4.12
अथो॒ रक्ष॑सा॒मप॑हत्यै । त्रिः पुनः॒ परि॑यन्ति । षट्थ् सम्प॑द्यन्ते । षड्वा ऋ॒तवः॑ । ऋ॒तुष्वे॒व प्रति॑तिष्ठन्ति । यो वै घ॒र्मस्य॑ प्रि॒यान्-त॒नुव॑मा॒क्राम॑ति । दु॒श्चर्मा॒ वै स भ॑वति । ए॒ष ह॒ वा अ॑स्य प्रि॒यान् त॒नुव॒माक्रा॑मति । य स्त्रिः प॒रीत्य॑ चतु॒र्थम् पर्ये॑ति । ए॒ताꣳ ह॒ वा अ॑स्यो॒ग्रदे॑वो॒ राज॑नि॒राच॑क्राम
कोर्वै (Index)
(द॒धा॒- ती॒वान्वा॑ह - य॒ज्ञ् - स्या॑है॒ - ष - उ॒परि॑ष्टादाशीर॒न्यो - व्या᳚स्था॒पय॑न्ति - र॒श्मयो॑ - भवन्ति॒ - धन्वेत्या॑ह - य॒ज्ञ् - श्च॑क्राम॒ - सम॑ष्ट्यै॒ द्वे च॑)
T.A.8.4.13
ततो॒ वै स दु॒श्चर्मा॑ऽभवत् । तस्मा॒त् त्रिः प॒रीत्य॒ न च॑तु॒र्थम् परी॑यात् । आ॒त्मनो॑ गोपी॒थाय॑ । प्रा॒णा वै ध॒वित्रा॑णि । अव्य॑तिषङ्गम् धून्वन्ति । प्रा॒णाना॒-मव्य॑तिषङ्गाय॒ क्लृप्त्यै᳚ । वि॒नि॒षद्य॑ धून्वन्ति । दि॒क्ष्वे॑व प्रति॑तिष्ठन्ति । ऊ॒र्द्ध्वन्धू᳚न्वन्ति । सु॒व॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै ( ) । स॒र्वतो॑ धून्वन्ति । तस्मा॑द॒यꣳ स॒र्वतः॑ पवते ।