दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒व इति॑ रश॒नामाद॑त्ते॒ प्रसू᳚त्यै । अ॒श्विनो᳚र्-बा॒हुभ्या॒मित्या॑ह । अ॒श्विनौ॒ हि दे॒वाना॑मद्ध्व॒र्यू आस्ता᳚म् । पू॒ष्णो हस्ता᳚भ्या॒मित्या॑ह॒ यत्यै᳚ । आद॒देऽदि॑त्यै॒ रास्ना॒ऽसीत्या॑ह॒ यजु॑ष्कृत्यै । इड॒ एह्यदि॑त॒ एहि॒ सर॑स्व॒त्येहीत्या॑ह । ए॒तानि॒ वा अ॑स्यै देवना॒मानि॑ । दे॒व॒ना॒मैरे॒वैना॒-माह्व॑यति । असा॒वेह्य-सा॒वेह्य-सा॒वेहीत्या॑ह । ए॒तानि॒ वा अ॑स्यै मनुष्यना॒मानि॑
कोर्वै (Index)
(म॒नु॒ष्य॒ना॒मानि॑ - प॒शवः॑ - सीद॒त्वित्या॒ - हेन्द्रा॒येत्या॑हा - र्द्धयति - घ्नन्ति - गृह्णा॒ - त्यहिꣳ॑सायै॒ - पञ्चा॑हा - दि॒त्यव॑ते॒ स्वाहेत्या॑ह - पितृ॒मा - ने॑ति च॒त्वारि॑ च)