स॒वि॒ता भू॒त्वा प्र॑थ॒मेऽह॒न् प्रवृ॑ज्यते । तेन॒ कामाꣳ॑ एति । यद्-द्वि॒तीयेऽह॑न्-प्रवृ॒ज्यते᳚ । अ॒ग्निर्-भू॒त्वा दे॒वाने॑ति । यत्-तृ॒तीयेऽह॑न्-प्रवृ॒ज्यते᳚ । वा॒युर्-भू॒त्वा प्रा॒णाने॑ति । यच्च॑तु॒र्थेऽह॑न्-प्रवृ॒ज्यते᳚ । आ॒दि॒त्यो भू॒त्वा र॒श्मीने॑ति । यत् प॑ञ्च॒मेऽह॑न्-प्रवृ॒ज्यते᳚ । च॒न्द्रमा॑ भू॒त्वा नक्ष॑त्राण्येति
कोर्वै (Index)
(नक्ष॑त्राण्येति - वि॒राज॑मेति - तपति)