TA 8.6

12 पञ्चाशत्

T.A.8.6.1
शिरो॒ वा ए॒तद्-य॒ज्ञ्स्य॑ । यत् प्र॑व॒र्ग्यः॑ । ग्री॒वा उ॑प॒सदः॑ । पु॒रस्ता॑दुप॒सदा᳚म् प्रव॒र्ग्य॑म् प्रवृ॑णक्ति । ग्री॒वास्वे॒व य॒ज्ञ्स्य॒ शिरः॒ प्रति॑दधाति । त्रिः प्रवृ॑णक्ति । त्रय॑ इ॒मे लो॒काः । ए॒भ्य ए॒व लो॒केभ्यो॑ य॒ज्ञ्स्य॒ शिरोऽव॑रुन्धे । षट्थ् सम्प॑द्यन्ते । षड्वा ऋ॒तवः॑
कोर्वै (Index)
(ऋ॒तवो॒ - हि शिरः॒ - सर्व॑पृष्ठे॒ प्रवृ॑ण॒ - क्त्यनि॑पद्यमान॒मित्या॑ह - ग॒तेत्या॑ह - शार॒दावे॒वास्मा॑ ऋ॒तू क॑ल्पयति - रुन्धे - कवि॒नामित्या॑ह - प्रा॒णाः - प्रति॑दधाति - भवन्ति - वाचयति च॒त्वारि॑ च)
T.A.8.6.2
ऋ॒तुभ्य॑ ए॒व य॒ज्ञ्स्य॒ शिरोऽव॑रुन्धे । द्वाद॑श॒ कृत्वः॒ प्रवृ॑णक्ति । द्वाद॑श॒ मासाः᳚ सम्ॅवथ्स॒रः । स॒म्ॅव॒थ्स॒रादे॒व य॒ज्ञ्स्य॒ शिरोऽव॑रुन्धे । चतु॑र्विꣳशतिः॒ सम्प॑द्यन्ते । चतु॑र्विꣳशतिरर्द्धमा॒साः । अ॒र्द्ध॒मा॒सेभ्य॑ ए॒व य॒ज्ञ्स्य॒ शिरोऽव॑रुन्धे । अथो॒ खलु॑ । स॒कृदे॒व प्र॒वृज्यः॑ । एकꣳ॒॒ हि शिरः॑
कोर्वै (Index)
(ऋ॒तवो॒ - हि शिरः॒ - सर्व॑पृष्ठे॒ प्रवृ॑ण॒ - क्त्यनि॑पद्यमान॒मित्या॑ह - ग॒तेत्या॑ह - शार॒दावे॒वास्मा॑ ऋ॒तू क॑ल्पयति - रुन्धे - कवि॒नामित्या॑ह - प्रा॒णाः - प्रति॑दधाति - भवन्ति - वाचयति च॒त्वारि॑ च)
T.A.8.6.3
अ॒ग्नि॒ष्टो॒मे प्रवृ॑णक्ति । ए॒तावा॒न्॒. वै य॒ज्ञ्ः । यावा॑नग्निष्टो॒मः । यावा॑ने॒व य॒ज्ञ्ः । तस्य॒ शिरः॒ प्रति॑दधाति । नोक्थ्ये᳚ प्रवृ॑ञ्ज्यात् । प्र॒जा वै प॒शव॑ उ॒क्थानि॑ । यदु॒क्थ्ये᳚ प्रवृ॒ञ्ज्यात् । प्र॒जाम् प॒शून॑स्य॒ निर्द॑हेत् । वि॒श्व॒जिति॒ सर्व॑पृष्ठे॒ प्रवृ॑णक्ति
कोर्वै (Index)
(ऋ॒तवो॒ - हि शिरः॒ - सर्व॑पृष्ठे॒ प्रवृ॑ण॒ - क्त्यनि॑पद्यमान॒मित्या॑ह - ग॒तेत्या॑ह - शार॒दावे॒वास्मा॑ ऋ॒तू क॑ल्पयति - रुन्धे - कवि॒नामित्या॑ह - प्रा॒णाः - प्रति॑दधाति - भवन्ति - वाचयति च॒त्वारि॑ च)
T.A.8.6.4
पृ॒ष्ठानि॒ वा अच्यु॑तञ्च्यावयन्ति । पृ॒ष्ठैरे॒वास्मा॒ अच्यु॑तञ्च्यावयि॒त्वाऽव॑रुन्धे । अप॑श्यम् गो॒पामित्या॑ह । प्रा॒णो वै गो॒पाः । प्रा॒णमे॒व प्र॒जासु॒ विया॑तयति । अप॑श्यम् गो॒पामित्या॑ह । अ॒सौ वा आ॑दि॒त्यो गो॒पाः । स हीमाः प्र॒जा गो॑पा॒यति॑ । तमे॒व प्र॒जाना᳚म् गो॒प्तार॑म् कुरुते । अनि॑पद्यमान॒मित्या॑ह
कोर्वै (Index)
(ऋ॒तवो॒ - हि शिरः॒ - सर्व॑पृष्ठे॒ प्रवृ॑ण॒ - क्त्यनि॑पद्यमान॒मित्या॑ह - ग॒तेत्या॑ह - शार॒दावे॒वास्मा॑ ऋ॒तू क॑ल्पयति - रुन्धे - कवि॒नामित्या॑ह - प्रा॒णाः - प्रति॑दधाति - भवन्ति - वाचयति च॒त्वारि॑ च)
T.A.8.6.5
न ह्ये॑ष नि॒पद्य॑ते । आ च॒ परा॑ च प॒थिभि॒श्चर॑न्त॒मित्या॑ह । आ च॒ ह्ये॑ष परा॑ च प॒थिभि॒श्चर॑ति । स स॒द्ध्रीचीः॒ स विषू॑ची॒र्वसा॑न॒ इत्या॑ह । स॒द्ध्रीची᳚श्च॒ ह्ये॑ष विषू॑चीश्च॒ वसा॑नः प्र॒जा अ॒भि वि॒पश्य॑ति । आ व॑रीवर्ति॒ भुव॑नेष्व॒न्तरित्या॑ह । आ ह्ये॑ष व॑री॒वर्ति॒ भुव॑नेष्व॒न्तः । अत्र॑ प्रा॒वीर्मधु॒ माद्ध्वी᳚भ्या॒म् मधु॒ माधू॑चीभ्या॒मित्या॑ह । वास॑न्तिकावे॒वास्मा॑ ऋ॒तू क॑ल्पयति । सम॒ग्निर॒ग्निना॑ ग॒तेत्या॑ह
कोर्वै (Index)
(ऋ॒तवो॒ - हि शिरः॒ - सर्व॑पृष्ठे॒ प्रवृ॑ण॒ - क्त्यनि॑पद्यमान॒मित्या॑ह - ग॒तेत्या॑ह - शार॒दावे॒वास्मा॑ ऋ॒तू क॑ल्पयति - रुन्धे - कवि॒नामित्या॑ह - प्रा॒णाः - प्रति॑दधाति - भवन्ति - वाचयति च॒त्वारि॑ च)
T.A.8.6.6
ग्रैष्मा॑वे॒वास्मा॑ ऋ॒तू क॑ल्पयति । सम॒ग्निर॒ग्निना॑ ग॒तेत्या॑ह । अ॒ग्निर्ह्ये॑वैषो᳚ऽग्निना॑ स॒ङ्गच्छ॑ते । स्वाहा॒ सम॒ग्निस्तप॑सा ग॒तेत्या॑ह । पूर्व॑मे॒वोदि॒तम् । उत्त॑रेणा॒भिगृ॑णाति । ध॒र्ता दि॒वो विभा॑सि॒ रज॑सः पृथि॒व्या इत्या॑ह । वार्.षि॑कावे॒वास्मा॑ ऋ॒तू क॑ल्पयति । हृ॒दे त्वा॒ मन॑से॒ त्वेत्या॑ह । शा॒र॒दावे॒वास्मा॑ ऋ॒तू क॑ल्पयति
कोर्वै (Index)
(ऋ॒तवो॒ - हि शिरः॒ - सर्व॑पृष्ठे॒ प्रवृ॑ण॒ - क्त्यनि॑पद्यमान॒मित्या॑ह - ग॒तेत्या॑ह - शार॒दावे॒वास्मा॑ ऋ॒तू क॑ल्पयति - रुन्धे - कवि॒नामित्या॑ह - प्रा॒णाः - प्रति॑दधाति - भवन्ति - वाचयति च॒त्वारि॑ च)
T.A.8.6.7
दि॒वि दे॒वेषु॒ होत्रा॑ य॒च्छेत्या॑ह । होत्रा॑भिरे॒वेमान् ॅलो॒कान्थ् सम् द॑धाति । विश्वा॑साम् भुवाम् पत॒ इत्या॑ह । हैम॑न्तिकावे॒वास्मा॑ ऋ॒तू क॑ल्पयति । दे॒व॒श्रूस्त्वम् दे॑व घर्म दे॒वान् पा॒हीत्या॑ह । शै॒शि॒रावे॒वास्मा॑ ऋ॒तू क॑ल्पयति । त॒पो॒जां ॅवाच॑म॒स्मे निय॑च्छ देवा॒युव॒मित्या॑ह । या वै मेद्ध्या॒ वाक् । सा त॑पो॒जाः । तामे॒वाव॑रुन्धे
कोर्वै (Index)
(ऋ॒तवो॒ - हि शिरः॒ - सर्व॑पृष्ठे॒ प्रवृ॑ण॒ - क्त्यनि॑पद्यमान॒मित्या॑ह - ग॒तेत्या॑ह - शार॒दावे॒वास्मा॑ ऋ॒तू क॑ल्पयति - रुन्धे - कवि॒नामित्या॑ह - प्रा॒णाः - प्रति॑दधाति - भवन्ति - वाचयति च॒त्वारि॑ च)
T.A.8.6.8
गर्भो॑ दे॒वाना॒मित्या॑ह । गर्भो॒ ह्ये॑ष दे॒वाना᳚म् । पि॒ता म॑ती॒नामित्या॑ह । प्र॒जा वै म॒तयः॑ । तासा॑मे॒ष ए॒व पि॒ता । यत् प्र॑व॒र्ग्यः॑ । तस्मा॑दे॒वमा॑ह । पतिः॑ प्र॒जाना॒मित्या॑ह । पति॒र्ह्ये॑ष प्र॒जाना᳚म् । मतिः॑ कवी॒नामित्या॑ह
कोर्वै (Index)
(ऋ॒तवो॒ - हि शिरः॒ - सर्व॑पृष्ठे॒ प्रवृ॑ण॒ - क्त्यनि॑पद्यमान॒मित्या॑ह - ग॒तेत्या॑ह - शार॒दावे॒वास्मा॑ ऋ॒तू क॑ल्पयति - रुन्धे - कवि॒नामित्या॑ह - प्रा॒णाः - प्रति॑दधाति - भवन्ति - वाचयति च॒त्वारि॑ च)
T.A.8.6.9
मति॒र्ह्ये॑ष क॑वी॒नाम् । सम् दे॒वो दे॒वेन॑ सवि॒त्रा ऽय॑तिष्ट॒ सꣳ सूर्ये॑णारु॒क्तेत्या॑ह । अ॒मुञ्चै॒वादि॒त्यम् प्र॑व॒र्ग्य॑ञ्च॒ सꣳशा᳚स्ति । आ॒यु॒र्दास्त्वम॒स्मभ्य॑म् घर्म वर्चो॒दा अ॒सीत्या॑ह । आ॒शिष॑मे॒वैतामाशा᳚स्ते । पि॒ता नो॑ऽसि पि॒ता नो॑ बो॒धेत्या॑ह । बो॒धय॑त्ये॒वैन᳚म् । न वै॒ ते॑ऽवका॒शा भ॑वन्ति । पत्नि॑यै दश॒मः । नव॒ वै पुरु॑षे प्रा॒णाः
कोर्वै (Index)
(ऋ॒तवो॒ - हि शिरः॒ - सर्व॑पृष्ठे॒ प्रवृ॑ण॒ - क्त्यनि॑पद्यमान॒मित्या॑ह - ग॒तेत्या॑ह - शार॒दावे॒वास्मा॑ ऋ॒तू क॑ल्पयति - रुन्धे - कवि॒नामित्या॑ह - प्रा॒णाः - प्रति॑दधाति - भवन्ति - वाचयति च॒त्वारि॑ च)
T.A.8.6.10
नाभि॑र्दश॒मी । प्रा॒णाने॒व यज॑माने दधाति । अथो॒ दशा᳚क्षरा वि॒राट् । अन्नं॑ ॅवि॒राट् । वि॒राजै॒वान्नाद्य॒मव॑रुन्धे । य॒ज्ञ्स्य॒ शिरो᳚ऽच्छिद्यत । तद्-दे॒वा होत्रा॑भिः॒ प्रत्य॑दधुः । ऋ॒त्विजोऽवे᳚क्षन्ते । ए॒ता वै होत्राः᳚ । होत्रा॑भिरे॒व य॒ज्ञ्स्य॒ शिरः॒ प्रति॑दधाति
कोर्वै (Index)
(ऋ॒तवो॒ - हि शिरः॒ - सर्व॑पृष्ठे॒ प्रवृ॑ण॒ - क्त्यनि॑पद्यमान॒मित्या॑ह - ग॒तेत्या॑ह - शार॒दावे॒वास्मा॑ ऋ॒तू क॑ल्पयति - रुन्धे - कवि॒नामित्या॑ह - प्रा॒णाः - प्रति॑दधाति - भवन्ति - वाचयति च॒त्वारि॑ च)
T.A.8.6.11
रु॒चि॒तमवे᳚क्षन्ते । रु॒चि॒ताद्वै प्र॒जाप॑तिः प्र॒जा अ॑सृजत । प्र॒जानाꣳ॒॒ सृष्ट्यै᳚ । रु॒चि॒तमवे᳚क्षन्ते । रु॒चि॒ताद्वै प॒र्जन्यो॑ वर्.षति । वर्.षु॑कः प॒र्जन्यो॑ भवति । सम् प्र॒जा ए॑धन्ते । रु॒चि॒तमवे᳚क्षन्ते । रु॒चि॒तम् ॅवै ब्र॑ह्मवर्च॒सम् । ब्र॒ह्म॒व॒र्च॒सिनो॑ भवन्ति
कोर्वै (Index)
(ऋ॒तवो॒ - हि शिरः॒ - सर्व॑पृष्ठे॒ प्रवृ॑ण॒ - क्त्यनि॑पद्यमान॒मित्या॑ह - ग॒तेत्या॑ह - शार॒दावे॒वास्मा॑ ऋ॒तू क॑ल्पयति - रुन्धे - कवि॒नामित्या॑ह - प्रा॒णाः - प्रति॑दधाति - भवन्ति - वाचयति च॒त्वारि॑ च)
T.A.8.6.12
अ॒धी॒यन्तोऽवे᳚क्षन्ते । सर्व॒मायु॑र्यन्ति । न पत्न्यवे᳚क्षेत । यत् पन्त्य॒वेक्षे॑त । प्रजा॑येत । प्र॒जान्त्व॑स्यै॒ निर्द॑हेत् । यन्नावेक्षे॑त । न प्रजा॑येत । नास्यै᳚ प्र॒जान्निर्द॑हेत् । ति॒र॒स्कृत्य॒ यजु॑र् वाचयति ( ) । प्रजा॑यते । नास्यै᳚ प्र॒जान्निर्द॑हति । त्वष्टी॑मती ते सपे॒येत्या॑ह । सपा॒द्धि प्र॒जाः प्र॒जाय॑न्ते ।