TA 8.11

6 पञ्चाशत्

T.A.8.11.1
प्र॒जाप॑तिः सम्भ्रि॒यमा॑णः । स॒म्राट्थ् सम्भृ॑तः । घ॒र्मः प्रवृ॑क्तः । म॒हा॒वी॒र उद्वा॑सितः । अ॒सौ खलु॒ वावैष आ॑दि॒त्यः । यत् प्र॑व॒र्ग्यः॑ । स ए॒तानि॒ नामा᳚न्यकुरुत । य ए॒वं ॅवेद॑ । वि॒दुरे॑न॒न्नाम्ना᳚ । ब्र॒ह्म॒वा॒दिनो॑ वदन्ति
कोर्वै (Index)
(व॒द॒न्ति॒ - त॒नुवा॒ - सꣳस॑न्नो - हू॒यमा॑नो॒ वाग्घु॒तो - द॑धा - त्ये॒षः )
T.A.8.11.2
यो वै वसी॑याꣳ सम्ॅयथाना॒ममु॑प॒चर॑ति । पुण्या᳚र्तिं॒ ॅवै स तस्मै॑ कामयते । पुण्या᳚र्तिमस्मै कामयन्ते । य ए॒वं ॅवेद॑ । तस्मा॑दे॒वं ॅवि॒द्वान् । घ॒र्म इति॒ दिवाऽऽच॑क्षीत । स॒म्राडिति॒ नक्त᳚म् । ए॒ते वा ए॒तस्य॑ प्रि॒ये त॒नुवौ᳚ । ए॒ते अ॑स्य प्रि॒ये नाम॑नी । प्रि॒ययै॒वैन॑म् त॒नुवा᳚
कोर्वै (Index)
(व॒द॒न्ति॒ - त॒नुवा॒ - सꣳस॑न्नो - हू॒यमा॑नो॒ वाग्घु॒तो - द॑धा - त्ये॒षः )
T.A.8.11.3
प्रि॒येण॒ नाम्ना॒ सम॑र्द्धयति । की॒र्तिर॑स्य॒ पूर्वा ग॑च्छति ज॒नता॑माय॒तः । गा॒य॒त्री दे॒वेभ्योऽपा᳚क्रामत् । तान्दे॒वाः प्र॑व॒र्ग्ये॑णै॒वानु॒ व्य॑भवन्न् । प्र॒व॒र्ग्ये॑णाप्नुवन्न् । यच्च॑तुर्विꣳशतिः॒ कृत्वः॑ प्रव॒र्ग्य॑म् प्रवृ॒णक्ति॑ । गा॒य॒त्रीमे॒व तदनु॒ विभ॑वति । गा॒य॒त्रीमा᳚प्नोति । पूर्वा᳚ऽस्य॒ जनं॑ ॅय॒तः की॒र्तिर्ग॑च्छति । वै॒श्व॒दे॒वः सꣳस॑न्नः
कोर्वै (Index)
(व॒द॒न्ति॒ - त॒नुवा॒ - सꣳस॑न्नो - हू॒यमा॑नो॒ वाग्घु॒तो - द॑धा - त्ये॒षः )
T.A.8.11.4
वस॑वः॒ प्रवृ॑क्तः । सोमो॑ऽभिकी॒र्यमा॑णः । आ॒श्वि॒नः पय॑स्यानी॒यमा॑ने । मारु॒तः क्वथन्न्॑ । पौ॒ष्ण उद॑न्तः । सा॒र॒स्व॒तो वि॒ष्यन्द॑मानः । मै॒त्रः शरो॑ गृहीतः । तेज॒ उद्य॑तो वा॒युः । ह्रि॒यमा॑णः प्र॒जाप॑तिः । हू॒यमा॑नो॒ वाग्घु॒तः
कोर्वै (Index)
(व॒द॒न्ति॒ - त॒नुवा॒ - सꣳस॑न्नो - हू॒यमा॑नो॒ वाग्घु॒तो - द॑धा - त्ये॒षः )
T.A.8.11.5
अ॒सौ खलु॒ वावैष आ॑दि॒त्यः । यत् प्र॑व॒र्ग्यः॑ । स ए॒तानि॒ नामा᳚न्यकुरुत । य ए॒वं ॅवेद॑ । वि॒दुरे॑न॒न्नाम्ना᳚ । ब्र॒ह्म॒वा॒दिनो॑ वदन्ति । यन्मृ॒न्मय॒-माहु॑ति॒न्नाश्ञु॒तेऽथ॑ । कस्मा॑दे॒षो᳚ऽश्ञुत॒ इति॑ । वागे॒ष इति॑ ब्रूयात् । वा॒च्ये॑व वाच॑म् दधाति
कोर्वै (Index)
(व॒द॒न्ति॒ - त॒नुवा॒ - सꣳस॑न्नो - हू॒यमा॑नो॒ वाग्घु॒तो - द॑धा - त्ये॒षः )
T.A.8.11.6
तस्मा॑दश्ञुते । प्र॒जाप॑ति॒र्वा ए॒ष द्वा॑दश॒धा विहि॑तः । यत् प्र॑व॒र्ग्यः॑ । यत् प्राग॑वका॒शेभ्यः॑ । तेन॑ प्र॒जा अ॑सृजत । अ॒व॒का॒शैर्-दे॑वासु॒रान॑सृजत । यदू॒र्द्ध्वम॑वका॒शेभ्यः॑ । तेनान्न॑मसृजत । अन्न॑म् प्र॒जाप॑तिः । प्र॒जाप॑ति॒र्वावैषः ( ) ।
कोर्वै (Index)
(व॒द॒न्ति॒ - त॒नुवा॒ - सꣳस॑न्नो - हू॒यमा॑नो॒ वाग्घु॒तो - द॑धा - त्ये॒षः )