अ॒ग्नेः कृत्ति॑काः । शु॒क्रं प॒रस्ता॒-ज्ज्योति॑-र॒वस्ता᳚त् ॥ प्र॒जाप॑ते रोहि॒णी । आपः॑ प॒रस्ता॒दोष॑धयो॒ ऽवस्ता᳚त् ॥ सोम॑स्येन्व॒का वित॑तानि । प॒रस्ता॒द्वय॑न्तो॒ ऽवस्ता᳚त् ॥ रु॒द्रस्य॑ बा॒हू । मृ॒ग॒यवः॑ प॒रस्ता᳚द्विक्षा॒रो॑ऽवस्ता᳚त् ॥ अदि॑त्यै॒ पुन॑र्वसू । वातः॑ प॒रस्ता॑दा॒र्द्र-म॒वस्ता᳚त् ।
कोर्वै (Index)
(आ॒र्द्रम॒वस्ता॒द् - वह॑माना अ॒वस्ता॑ - द॒भ्यारू॑ढम॒वस्ता॒त् - पन्था॑ अ॒वस्ता᳚द् - व॒थ्सा अ॒वस्ता॒त् पञ्च॑ च)