स स॑मु॒द्र उ॑त्तर॒तः प्राज्व॑लद्-भूम्य॒न्तेन॑ । ए॒ष वाव स स॑मु॒द्रः । यच्चात्वा॑लः । ए॒ष उ॑ वे॒व स भू᳚म्य॒न्तः । यद्वे᳚द्य॒न्तः । तदे॒तत्-त्रि॑श॒लं त्रि॑पूरु॒षम् । तस्मा॒त्-तं त्रि॑वित॒स्तं ख॑नन्ति ॥ स सु॑वर्णरज॒ताभ्यां᳚ कु॒शीभ्यां॒ परि॑गृहीत आसीत् । तं ॅयद॒स्या अद्ध्य॒जन॑यन्न् । तस्मा॑दादि॒त्यः
कोर्वै (Index)
(आ॒दि॒त्यः - प॑ञ्चद॒शस्य॒ मात्रा᳚ - स्तु॒वते॑ - पञ्चद॒शेनै॒व तद् यज॑मान॒माद॑दते - सप्तद॒शेनै॒व ह॑रन् - त्यादि॒त्यस्यै॒वैन॒न्तद् ॒ वि॑शति च॒त्वारि॑ च)