तस्यावा॑चोऽवपा॒दाद॑बिभयुः । तमे॒तेषु॑ स॒प्तसु॒ छन्दः॑ स्वश्रयन्न् । यदश्र॑यन्न् । तच्छ्रा॑य॒न्तीय॑स्य श्रायन्तीय॒त्वम् । यदवा॑रयन्न् । तद् वा॑रव॒न्तीय॑स्य वारवन्तीय॒त्वम् ॥ तस्यावा॑च ए॒वाव॑पा॒दाद॑बिभयुः । तस्मा॑ ए॒तानि॑ स॒प्त च॑तुरुत्त॒राणि॒ छन्दाꣳ॒॒स्युपा॑दधुः । तेषा॒मति॒ त्रीण्य॑रिच्यन्त । न त्रीण्युद॑भवन्न्
कोर्वै (Index)
(अ॒भ॒व॒न् - वाव सा दे॒वाक्ष॑रा बृह॒ - त्य॑दधा॒द् - द्वाद॑शा॒क्षरा᳚ण्यप॒च्छिद्या॑दधा - दा॒स्थाय॒ षट्च॑)