TB 1.5.7

1 पञ्चाशत्

1.5.7 अनुवाकं 7 - अग्निचयनशेषा इष्टकोपधानमन्त्राः, तत्र संतत्याख्येष्टकामन्त्राः

1.5.7.1
आयु॑षः प्रा॒णꣳ सन्त॑नु । प्रा॒णाद॑पा॒नꣳ सन्त॑नु । अ॒पा॒नाद् व्या॒नꣳ सन्त॑नु । व्या॒नाच्चक्षुः॒ सन्त॑नु । चक्षु॑षः॒ श्रोत्रꣳ॒॒ सन्त॑नु । श्रोत्रा॒न् मनः॒ सन्त॑नु । मन॑सो॒ वाचꣳ॒॒ सन्त॑नु । वा॒च आ॒त्मानꣳ॒॒ सन्त॑नु । आ॒त्मनः॑ पृथि॒वीꣳ सन्त॑नु । पृ॒थि॒व्या अ॒न्तरि॑क्षꣳ॒॒ सन्त॑नु ( ) । अ॒न्तरि॑क्षा॒द्-दिवꣳ॒॒ सन्त॑नु ।दिवः॒ सुवः॒ सन्त॑नु ।
कोर्वै (Index)
(अ॒न्तरि॑क्षꣳ॒॒ सन्त॑नु॒ द्वे च॑)