TB 1.5.2

9 पञ्चाशत्

1.5.2 अनुवाकं 2 - कर्मानुष्ठानार्हः नक्षत्ररूपः पुण्यकालः

1.5.2.1
यत् पुण्यं॒ नक्ष॑त्रम् । तद्-बट् कु॑र्वीतोपव्यु॒षम् । य॒दा वै सूर्य॑ उ॒देति॑ । अथ॒ नक्ष॑त्रं॒ नैति॑ । याव॑ति॒ तत्र॒ सूर्यो॒ गच्छे᳚त् । यत्र॑ जघ॒न्यं॑ पश्ये᳚त् । ताव॑ति कुर्वीत यत् का॒री स्यात् । पु॒ण्या॒ह ए॒व कु॑रुते । ए॒वꣳ ह॒ वै य॒ज्ञेषुं॑ च श॒तद्यु॑म्नं च मा॒थ्स्यो नि॑रवसाय॒यां च॑कार ।
कोर्वै (Index)
(च॒का॒ - रै॒वं ॅवेदो॒भयो॑ रेनं ॅलो॒कयो᳚र्विदु - रजयन् - रे॒वती॒मुपा॑तिष्ठन्त - नक्षत्र॒त्व - म॒न्यानि॒ - यानि॑ यमनक्ष॒त्रा - ण्यश्लो॑णद् - यमनक्ष॒त्राणि॒ त्रीणि॑ च)
1.5.2.2
यो वै न॑क्ष॒त्रियं॑ प्र॒जाप॑तिं॒ ॅवेद॑ । उ॒भयो॑रेनं ॅलो॒कयो᳚र्विदुः । हस्त॑ ए॒वास्य॒ हस्तः॑ । चि॒त्रा शिरः॑ । निष्ट्या॒ हृद॑यम् । ऊ॒रू विशा॑खे । प्र॒ति॒ष्ठा ऽनू॑रा॒धाः । ए॒ष वै न॑क्ष॒त्रियः॑ प्र॒जाप॑तिः । य ए॒वं ॅवेद॑ । उ॒भयो॑रेनं ॅलो॒कयो᳚र्विदुः
कोर्वै (Index)
(च॒का॒ - रै॒वं ॅवेदो॒भयो॑ रेनं ॅलो॒कयो᳚र्विदु - रजयन् - रे॒वती॒मुपा॑तिष्ठन्त - नक्षत्र॒त्व - म॒न्यानि॒ - यानि॑ यमनक्ष॒त्रा - ण्यश्लो॑णद् - यमनक्ष॒त्राणि॒ त्रीणि॑ च)
1.5.2.3
अ॒स्मिꣳश्चा॒-मुष्मिꣳ॑श्च ॥ यां का॒मये॑त दुहि॒तरं॑ प्रि॒या स्या॒दिति॑ । तां निष्ट्या॑यां दद्यात् । प्रि॒यैव भ॑वति । नेव॒ तु पुन॒राग॑च्छति ॥ अ॒भि॒जिन्नाम॒ नक्ष॑त्रम् । उ॒परि॑ष्टा-दषा॒ढाना᳚म् । अ॒वस्ता᳚च्छ्रो॒णायै᳚ । दे॒वा॒सु॒राः सम्ॅय॑त्ता आसन्न् । ते दे॒वास्तस्मि॒न्-नक्ष॑त्रे॒ऽभ्य॑जयन्न्
कोर्वै (Index)
(च॒का॒ - रै॒वं ॅवेदो॒भयो॑ रेनं ॅलो॒कयो᳚र्विदु - रजयन् - रे॒वती॒मुपा॑तिष्ठन्त - नक्षत्र॒त्व - म॒न्यानि॒ - यानि॑ यमनक्ष॒त्रा - ण्यश्लो॑णद् - यमनक्ष॒त्राणि॒ त्रीणि॑ च)
1.5.2.4
यद॒भ्यज॑यन्न् । तद॑भि॒जितो॑ऽभिजि॒त्त्वम् । यं का॒मये॑ता-नपज॒य्यं ज॑ये॒दिति॑ । तमे॒तस्मि॒न्-नक्ष॑त्रे यातयेत् । अ॒न॒प॒ज॒य्यमे॒व ज॑यति । पा॒पप॑राजितमिव॒ तु ॥ प्र॒जाप॑तिः प॒शून॑सृजत । ते नक्ष॑त्रं नक्षत्र॒-मुपा॑तिष्ठन्त । ते स॒माव॑न्त ए॒वाभ॑वन्न् । ते रे॒वती॒-मुपा॑तिष्ठन्त
कोर्वै (Index)
(च॒का॒ - रै॒वं ॅवेदो॒भयो॑ रेनं ॅलो॒कयो᳚र्विदु - रजयन् - रे॒वती॒मुपा॑तिष्ठन्त - नक्षत्र॒त्व - म॒न्यानि॒ - यानि॑ यमनक्ष॒त्रा - ण्यश्लो॑णद् - यमनक्ष॒त्राणि॒ त्रीणि॑ च)
1.5.2.5
ते रे॒वत्यां॒ प्राभ॑वन्न् । तस्मा᳚द्-रे॒वत्यां᳚ पशू॒नां कु॑र्वीत । यत् किंचा᳚र्वा॒चीनꣳ॒॒ सोमा᳚त् । प्रैव भ॑वन्ति ॥ स॒लि॒लं ॅवा इ॒दम॑न्त॒रासी᳚त् । यदत॑रन्न् । तत् तार॑काणां तारक॒त्वम् । यो वा इ॒ह यज॑ते । अ॒मुꣳ सलो॒कं न॑क्षते । तन्नक्ष॑त्राणां नक्षत्र॒त्वम्
कोर्वै (Index)
(च॒का॒ - रै॒वं ॅवेदो॒भयो॑ रेनं ॅलो॒कयो᳚र्विदु - रजयन् - रे॒वती॒मुपा॑तिष्ठन्त - नक्षत्र॒त्व - म॒न्यानि॒ - यानि॑ यमनक्ष॒त्रा - ण्यश्लो॑णद् - यमनक्ष॒त्राणि॒ त्रीणि॑ च)
1.5.2.6
दे॒व॒गृ॒हा वै नक्ष॑त्राणि । य ए॒वं ॅवेद॑ । गृ॒ह्ये॑व भ॑वति ॥ यानि॒ वा इ॒मानि॑ पृथि॒व्याश्चि॒त्राणि॑ । तानि॒ नक्ष॑त्राणि । तस्मा॑-दश्ली॒लना॑मꣳ-श्चि॒त्रे । नाव॑स्ये॒न्न य॑जेत । यथा॑ पापा॒हे कु॑रु॒ते । ता॒दृगे॒व तत् ॥ दे॒व॒न॒क्ष॒त्राणि॒ वा अ॒न्यानि॑
कोर्वै (Index)
(च॒का॒ - रै॒वं ॅवेदो॒भयो॑ रेनं ॅलो॒कयो᳚र्विदु - रजयन् - रे॒वती॒मुपा॑तिष्ठन्त - नक्षत्र॒त्व - म॒न्यानि॒ - यानि॑ यमनक्ष॒त्रा - ण्यश्लो॑णद् - यमनक्ष॒त्राणि॒ त्रीणि॑ च)
1.5.2.7
य॒म॒न॒क्ष॒त्राण्य॒न्यानि॑ । कृत्ति॑काः प्रथ॒मम् । विशा॑खे उत्त॒मम् । तानि॑ देवनक्ष॒त्राणि॑ । अ॒नू॒रा॒धाः प्र॑थ॒मम् । अ॒प॒भर॑णी-रुत्त॒मम् । तानि॑ यमनक्ष॒त्राणि॑ । यानि॑ देवनक्ष॒त्राणि॑ । तानि॒ दक्षि॑णेन॒ परि॑यन्ति । यानि॑ यमनक्ष॒त्राणि॑
कोर्वै (Index)
(च॒का॒ - रै॒वं ॅवेदो॒भयो॑ रेनं ॅलो॒कयो᳚र्विदु - रजयन् - रे॒वती॒मुपा॑तिष्ठन्त - नक्षत्र॒त्व - म॒न्यानि॒ - यानि॑ यमनक्ष॒त्रा - ण्यश्लो॑णद् - यमनक्ष॒त्राणि॒ त्रीणि॑ च)
1.5.2.8
तान्युत्त॑रेण ॥ अन्वे॑षामरा॒थ्स्मेति॑ । तद॑नूरा॒धाः । ज्ये॒ष्ठमे॑षा-मवधि॒ष्मेति॑ । तज्ज्ये᳚ष्ठ॒घ्नी । मूल॑मेषामवृक्षा॒मेति॑ । तन्-मू॑ल॒वर्.ह॑णी । यन्नास॑हन्त । तद॑षा॒ढाः । यदश्लो॑णत्
कोर्वै (Index)
(च॒का॒ - रै॒वं ॅवेदो॒भयो॑ रेनं ॅलो॒कयो᳚र्विदु - रजयन् - रे॒वती॒मुपा॑तिष्ठन्त - नक्षत्र॒त्व - म॒न्यानि॒ - यानि॑ यमनक्ष॒त्रा - ण्यश्लो॑णद् - यमनक्ष॒त्राणि॒ त्रीणि॑ च)
1.5.2.9
तच्छ्रो॒णा । यदशृ॑णोत् । तच्छ्रवि॑ष्ठाः । यच्छ॒त-मभि॑षज्यन्न् । तच्छ॒तभि॑षक् । प्रो॒ष्ठ॒प॒देषूद॑यच्छन्त । रे॒वत्या॑मरवन्त । अ॒श्व॒युजो॑रयुञ्जत । अ॒प॒भर॑णी॒ष्व पा॑वहन्न् । तानि॒ वा ए॒तानि॑ यमनक्ष॒त्राणि॑ ( ) ॥ यान्ये॒व दे॑वनक्ष॒त्राणि॑ । तेषु॑ कुर्वीत यत्का॒री स्यात् । पु॒ण्या॒ह ए॒व कु॑रुते ।