TB 1.5.9

8 पञ्चाशत्

1.5.9 अनुवाकं 9 - सोमशेषभूता इष्टयः. (आध्वरब्राह्मणम्)

1.5.9.1
दे॒वा॒सु॒राः सम्ॅय॑त्ता आसन्न् । स प्र॒जाप॑ति॒रिन्द्रं॑ ज्ये॒ष्ठं पु॒त्रमप॒ न्य॑धत्त । नेदे॑न॒मसु॑रा॒ बली॑याꣳ सोऽहन॒न्निति॑ । प्र॒ह्रादो॑ ह॒ वै का॑याध॒वः । वि॒रोच॑नꣳ॒॒ स्वं पु॒त्रमप॒ न्य॑धत्त । नेदे॑नं दे॒वा अ॑हन॒न्निति॑ । ते दे॒वाः प्र॒जाप॑ति-मुपस॒मेत्यो॑चुः । नारा॒जक॑स्य यु॒द्धम॑स्ति । इन्द्र॒मन्वि॑च्छा॒मेति॑ । तं ॅय॑ज्ञ्क्र॒तुभि॒-रन्वै᳚च्छन्न्
कोर्वै (Index)
(ऐ॒च्छ॒न् - न॒न॒यꣳ॒॒ - स्ति॒ष्ठ॒न्ते॒ - ऽनूच्या॒ - नूच्य॑ स्रु॒वेणा॑घा॒रमा॒घार्य॒ - रात्रि॑या ए॒व तद् दे॒वा अव॑र्तिं पा॒प्मानं॑ मृ॒त्युमप॑जघ्निरे - मि॒त्रावरु॑णौ॒ - +नव॑ च )
1.5.9.2
तं ॅय॑ज्ञ्क्र॒तुभि॒र्नान्व॑विन्दन्न् । तमिष्टि॑भि॒-रन्वै᳚च्छन्न् । तमिष्टि॑भि॒-रन्व॑विन्दन्न् । तदिष्टी॑ना-मिष्टि॒त्वम् । एष्ट॑यो ह॒ वै नाम॑ । ता इष्ट॑य॒ इत्याच॑क्षते प॒रोक्षे॑ण । प॒रोक्ष॑प्रिया इव॒ हि दे॒वाः ॥ तस्मा॑ ए॒तमा᳚ग्नावैष्ण॒व-मेका॑दशकपालं दीक्ष॒णीयं॒ निर॑वपन्न् । तद॑प॒द्रुत्या॑तन्वत । तान्प॑त्नी सम्ॅया॒जान्त॒ उपा॑नयन्न्
कोर्वै (Index)
(ऐ॒च्छ॒न् - न॒न॒यꣳ॒॒ - स्ति॒ष्ठ॒न्ते॒ - ऽनूच्या॒ - नूच्य॑ स्रु॒वेणा॑घा॒रमा॒घार्य॒ - रात्रि॑या ए॒व तद् दे॒वा अव॑र्तिं पा॒प्मानं॑ मृ॒त्युमप॑जघ्निरे - मि॒त्रावरु॑णौ॒ - +नव॑ च )
1.5.9.3
ते तदं॑ तमे॒व कृ॒त्वोद॑द्रवन्न् ॥ ते प्रा॑य॒णीय॑म॒भि स॒मारो॑हन्न् । तद॑प॒द्रुत्या॑तन्वत । ताञ्छ॒म्ॅय्व॑न्त॒ उपा॑नयन्न् । ते तद॑तंमे॒व कृ॒त्वोद॑द्रवन्न् ॥ त आ॑ति॒थ्यम॒भि स॒मारो॑हन्न् । तद॑प॒द्रुत्या॑तन्वत । तानिडा᳚न्त॒ उपा॑नयन्न् । ते तद॑तंमे॒व कृ॒त्वोद॑द्रवन्न् । तस्मा॑ दे॒ता ए॒तद॑न्ता॒ इष्ट॑यः॒ संति॑ष्ठन्ते ॥ 41(10)ट्.भ्.1.5.9.4ए॒वꣳ हि दे॒वा अकु॑र्वत । इति॑ दे॒वा अ॑कुर्वत । इत्यु॒ वै म॑नु॒ष्याः᳚ कुर्वते ॥ ते दे॒वा ऊ॑चुः । यद्वा इ॒दमु॒च्चैर्-य॒ज्ञेन॒ चरा॑म । तन्नोऽसु॑राः पा॒प्माऽनु॑विन्दन्ति । उ॒पाꣳ॒॒शू॑प॒सदा॑ चराम । तथा॒ नोऽसु॑राः पा॒प्मा नानु॑वेथ्स्य॒न्तीति॑ । त उ॑पाꣳ॒॒शू॑प॒सद॑-मतन्वत । ति॒स्र ए॒व सा॑मिधे॒नीर॒नूच्य॑
कोर्वै (Index)
(ऐ॒च्छ॒न् - न॒न॒यꣳ॒॒ - स्ति॒ष्ठ॒न्ते॒ - ऽनूच्या॒ - नूच्य॑ स्रु॒वेणा॑घा॒रमा॒घार्य॒ - रात्रि॑या ए॒व तद् दे॒वा अव॑र्तिं पा॒प्मानं॑ मृ॒त्युमप॑जघ्निरे - मि॒त्रावरु॑णौ॒ - +नव॑ च )
कोर्वै (Index)
(ऐ॒च्छ॒न् - न॒न॒यꣳ॒॒ - स्ति॒ष्ठ॒न्ते॒ - ऽनूच्या॒ - नूच्य॑ स्रु॒वेणा॑घा॒रमा॒घार्य॒ - रात्रि॑या ए॒व तद् दे॒वा अव॑र्तिं पा॒प्मानं॑ मृ॒त्युमप॑जघ्निरे - मि॒त्रावरु॑णौ॒ - +नव॑ च )
1.5.9.5
स्रु॒वेणा॑घा॒र-मा॒घार्य॑ । ति॒स्रः परा॑ची॒-राहु॑तीर्. हु॒त्वा । स्रु॒वेणो॑प॒सदं॑ जुह॒वाञ्च॑क्रुः । उ॒ग्रं ॅवचो॒ अपा॑वधीं त्वे॒षं ॅवचो॒ अपा॑वधीꣳ॒॒ स्वाहेति॑ । अ॒श॒न॒या॒पि॒पा॒से ह॒ वा उ॒ग्रं ॅवचः॑ । एन॑श्च॒ वैर॑हत्यं च त्वे॒षं ॅवचः॑ । ए॒तꣳ ह॒ वाव तच्च॑तुर्द्धाविहि॒तं पा॒प्मानं॑ दे॒वा अप॑जघ्निरे ॥ तथो॑ ए॒वैतदे॑वं॒ ॅविद्यज॑मानः । ति॒स्र ए॒व सा॑मिधे॒नीर॒नूच्य॑ । स्रु॒वेणा॑घा॒र-मा॒घार्य॑
कोर्वै (Index)
(ऐ॒च्छ॒न् - न॒न॒यꣳ॒॒ - स्ति॒ष्ठ॒न्ते॒ - ऽनूच्या॒ - नूच्य॑ स्रु॒वेणा॑घा॒रमा॒घार्य॒ - रात्रि॑या ए॒व तद् दे॒वा अव॑र्तिं पा॒प्मानं॑ मृ॒त्युमप॑जघ्निरे - मि॒त्रावरु॑णौ॒ - +नव॑ च )
1.5.9.6
ति॒स्रः परा॑ची॒राहु॑तीर्. हु॒त्वा । स्रु॒वेणो॑प॒सदं॑ जुहोति । उ॒ग्रं ॅवचो॒ अपा॑वधीं त्वे॒षं ॅवचो॒ अपा॑वधीꣳ॒॒ स्वाहेति॑ । अ॒श॒न॒या॒पि॒पा॒से ह॒ वा उ॒ग्रं ॅवचः॑ । एन॑श्च॒ वैर॑हत्यं च त्वे॒षं ॅवचः॑ । ए॒तमे॒व तच्च॑तुर्द्धा-विहि॒तं पा॒प्मानं॒ ॅयज॑मा॒नोऽप॑हते ॥ ते॑ऽभि॒नीयै॒वाहः॑ प॒शुमा-ऽल॑भन्त । अह्न॑ ए॒व तद्-दे॒वा अव॑र्तिं पा॒प्मानं॑ मृ॒त्युमप॑जघ्निरे । तेना॑भि॒नीये॑व॒ रात्रेः॒ प्राच॑रन्न् । रात्रि॑या ए॒व तद्-दे॒वा अव॑र्तिं पा॒प्मानं॑ मृ॒त्युमप॑जघ्निरे ।
कोर्वै (Index)
(ऐ॒च्छ॒न् - न॒न॒यꣳ॒॒ - स्ति॒ष्ठ॒न्ते॒ - ऽनूच्या॒ - नूच्य॑ स्रु॒वेणा॑घा॒रमा॒घार्य॒ - रात्रि॑या ए॒व तद् दे॒वा अव॑र्तिं पा॒प्मानं॑ मृ॒त्युमप॑जघ्निरे - मि॒त्रावरु॑णौ॒ - +नव॑ च )
1.5.9.7
तस्मा॑दभि॒नीयै॒वाहः॑ प॒शुमाल॑भेत । अह्न॑ ए॒व तद्-यज॑मा॒नो ऽव॑र्तिं पा॒प्मानं॒ भ्रातृ॑व्या॒नप॑नुदते । तेना॑भि॒नीये॑व॒ रात्रेः॒ प्रच॑रेत् । रात्रि॑या ए॒व तद्-यज॑मा॒नो ऽव॑र्तिं पा॒प्मानं॒ भ्रातृ॑व्या॒नप॑नुदते ॥ स ए॒ष उ॑पवस॒थीये ऽह॑न्-द्विदेव॒त्यः॑ प॒शुराल॑भ्यते । द्व॒यं ॅवा अ॒स्मिन् ॅलो॒के यज॑मानः । अस्थि॑ च माꣳ॒॒सं च॑ । अस्थि॑ चै॒व तेन॑ माꣳ॒॒सं च॒ यज॑मानः॒ सꣳ स्कु॑रुते ॥ ता वा ए॒ताः पञ्च॑ दे॒वताः᳚ । अ॒ग्नीषोमा॑-व॒ग्निर्-मि॒त्रावरु॑णौ ( )
कोर्वै (Index)
(ऐ॒च्छ॒न् - न॒न॒यꣳ॒॒ - स्ति॒ष्ठ॒न्ते॒ - ऽनूच्या॒ - नूच्य॑ स्रु॒वेणा॑घा॒रमा॒घार्य॒ - रात्रि॑या ए॒व तद् दे॒वा अव॑र्तिं पा॒प्मानं॑ मृ॒त्युमप॑जघ्निरे - मि॒त्रावरु॑णौ॒ - +नव॑ च )
1.5.9.8
प॒ञ्च॒प॒ञ्ची वै यज॑मानः । त्वङ्माꣳ॒॒ सꣳ स्नावास्थि॑ म॒ज्जा । ए॒तमे॒व तत्प॑ञ्चधा विहि॒तमा॒त्मानं॑ ॅवरुणपा॒शान्-मु॑ञ्चति । भे॒ष॒जता॑यै निर्वरुण॒त्वाय॑ ॥ तꣳ स॒प्तभिः॒ छन्दो॑भिः प्रा॒तर॑ह्वयन्न् । तस्मा᳚थ्स॒प्त च॑तुरुत्त॒राणि॒ छन्दाꣳ॑सि प्रातरनुवा॒केऽनू᳚च्यन्ते ॥ तमे॒तयो॑-पस॒मेत्यो-पा॑सीदन्न् । उपा᳚स्मै गायता नर॒ इति॑ । तस्मा॑ दे॒तया॑ बहिष्पवमा॒न उ॑प॒सद्यः॑ ।
कोर्वै (Index)
(ऐ॒च्छ॒न् - न॒न॒यꣳ॒॒ - स्ति॒ष्ठ॒न्ते॒ - ऽनूच्या॒ - नूच्य॑ स्रु॒वेणा॑घा॒रमा॒घार्य॒ - रात्रि॑या ए॒व तद् दे॒वा अव॑र्तिं पा॒प्मानं॑ मृ॒त्युमप॑जघ्निरे - मि॒त्रावरु॑णौ॒ - +नव॑ च )