TB 1.5.4

2 पञ्चाशत्

1.5.4 अनुवाकं 4 - सोमशेषभूता पात्रस्तुतिः.(आध्वरब्राह्मणशेषः)

1.5.4.1
ब्र॒ह्म॒वा॒दिनो॑ वदन्ति । कति॒ पात्रा॑णि य॒ज्ञ्ं ॅव॑ह॒न्तीति॑ । त्रयो॑द॒शेति॑ ब्रूयात् । स यद्ब्रू॒यात् । कस्तानि॒ निर॑मिमी॒तेति॑ । प्र॒जाप॑ति॒रिति॑ ब्रूयात् । स यद्ब्रू॒यात् । कुत॒स्तानि॒ निर॑मिमी॒तेति॑ । आ॒त्मन॒ इति॑ । प्रा॒णा॒पा॒नाभ्या॑-मे॒वोपाꣳ॑-श्वन्तर्या॒मौ निर॑मिमीत
कोर्वै (Index)
(उ॒पाꣳ॒॒श्व॒न्त॒र्या॒मौ निर॑मिमीता- मिमीत॒ षट् च॑)
1.5.4.2
व्या॒नादु॑पाꣳशु॒ सव॑नम् । वा॒च ऐ᳚न्द्रवाय॒वम् । द॒क्ष॒क्र॒तुभ्यां᳚ मैत्रावरु॒णम् । श्रोत्रा॑दाश्वि॒नम् । चक्षु॑षः शु॒क्रा म॒न्थिनौ᳚ । आ॒त्मन॑ आग्रय॒णम् । अङ्गे᳚भ्य उ॒क्थ्य᳚म् । आयु॑षो ध्रु॒वम् । प्र॒ति॒ष्ठाया॑ ऋतुपा॒त्रे ॥ य॒ज्ञ्ं ॅवाव तं प्र॒जाप॑ति॒र् निर॑मिमीत ( ) । स निर्मि॑तो॒ नाद्ध्रि॑यत॒ सम॑व्लीयत । स ए॒तान् प्र॒जाप॑ति-रपिवा॒पान॑-पश्यत् । तान्निर॑वपत् । तैर्वै स य॒ज्ञ्मप्य॑वपत् । यद॑पिवा॒पा भव॑न्ति । य॒ज्ञ्स्य॒ धृत्या॒ अस॑म्ॅव्लयाय ।
कोर्वै (Index)
(उ॒पाꣳ॒॒श्व॒न्त॒र्या॒मौ निर॑मिमीता- मिमीत॒ षट् च॑)