दे॒वस्य॑ सवि॒तुः प्रा॒तः प्र॑स॒वः प्रा॒णः । वरु॑णस्य सा॒यमा॑स॒वो॑ऽपा॒नः ॥ यत् प्र॑ती॒चीनं॑ प्रात॒स्तना᳚त् । प्रा॒चीनꣳ॑ संग॒वात् । ततो॑ दे॒वा अ॑ग्निष्टो॒मं निर॑मिमत । तत्-तदात्त॑वीर्यं निर्मा॒र्गः ॥ मि॒त्रस्य॑ संग॒वः । तत्-पुण्यं॑ तेज॒स्व्यहः॑ । तस्मा॒त्तर्.हि॑ प॒शवः॑ स॒माय॑न्ति ॥ यत् प्र॑ती॒चीनꣳ॑ संग॒वात्
कोर्वै (Index)
(सं॒ग॒वाथ् - षो॑ड॒शिनं॒ निर॑मिमत॒ तत्तदात्त॑वीर्यं निर्मा॒गो - व॑देद् - भवति समा॒नस्याह्नः॒ पञ्च॒ पुण्या॑नि॒ नक्ष॑त्राण्य॒ष्टौ च॑)