TB 1.5.8

3 पञ्चाशत्

1.5.8 अनुवाकं 8 - अग्निचयनशेषा थर्वशिरोऽभिधानानामिष्टकानां मन्त्राः

1.5.8.1
इन्द्रो॑ दधी॒चो अ॒स्थभिः॑ । वृ॒त्राण्य प्र॑तिष्कुतः । ज॒घान॑ नव॒ तीर्नव॑ ॥ इ॒च्छन्नश्व॑स्य॒ यच्छिरः॑ । पर्व॑ते॒ष्वप॑ श्रितम् । तद्-वि॑दच्छर्य॒णाव॑ति ॥ अत्रा ह ॒गोरम॑न्वत । नाम॒ त्वष्टु॑रपी॒च्य᳚म् । इ॒त्था च॒न्द्रम॑सो गृ॒हे ॥ इन्द्र॒मिद्गा॒थिनो॑ बृ॒हत्
कोर्वै (Index)
(बृ॒ह- च्चा - स्तृ॑तः)
1.5.8.2
इन्द्र॑म॒र्केभि॑र॒र्किणः॑ । इन्द्रं॒ ॅवाणी॑रनूषत ॥ इन्द्र॒ इद्धर्योः॒ सचा᳚ । संमि॑श्ल॒ आव॑चो॒ युजा᳚ । इन्द्रो॑ व॒ज्री हि॑र॒ण्ययः॑ ॥ इन्द्रो॑ दी॒र्घाय॒ चक्ष॑से । आ सूर्यꣳ॑ रोहयद्-दि॒वि । वि गोभि॒रद्रि॑मैरयत् ॥ इन्द्र॒ वाजे॑षु नो अव । स॒हस्र॑ प्रधनेषु च
कोर्वै (Index)
(बृ॒ह- च्चा - स्तृ॑तः)
1.5.8.3
उ॒ग्र उ॒ग्राभि॑रू॒तिभिः॑ ॥ तमिन्द्रं॑ ॅवाजयामसि । म॒हे वृ॒त्राय॒ हन्त॑वे । स वृषा॑ वृष॒भो भु॑वत् ॥ इन्द्रः॒ सदाम॑ने कृ॒तः । ओजि॑ष्ठः॒ स बले॑ हि॒तः । द्यु॒म्नी श्लो॒की स सौ॒म्यः॑ ॥ गि॒रा वज्रो॒ न संभृ॑तः । सब॑लो॒ अन॑पच्युतः । व॒व॒क्षु-रु॒ग्रो अस्तृ॑तः ( ) ।
कोर्वै (Index)
(बृ॒ह- च्चा - स्तृ॑तः)