दे॒वा वै यद्-य॒ज्ञे ऽकु॑र्वत । तदसु॑रा अकुर्वत । तेऽसु॑रा ऊ॒र्द्ध्वं पृ॒ष्ठेभ्यो॒ नाप॑श्यन्न् । ते केशा॒नग्रे॑ऽवपन्त । अथ॒ श्मश्रू॑णि । अथो॑पप॒क्षौ । तत॒स्तेऽवा᳚ञ्च आयन्न् । परा॑ऽभवन्न् । यस्यै॒वं ॅवप॑न्ति । अवा॑ङेति
कोर्वै (Index)
(ए॒त्ये॒- त्य॒ - यु॒ञ्ज॒ता - सु॑रा - एति - लो॒का - म॑न्यते)