TB 1.5.11

4 पञ्चाशत्

1.5.11 अनुवाकं 11 - सवनीयपशुपुरोडाशाः (आध्वरब्राह्मणम्)

1.5.11.1
ये वै च॒त्वारः॒ स्तोमाः᳚ । कृ॒तं तत् । अथ॒ ये पञ्च॑ । कलिः॒ सः । तस्मा॒च्चतु॑ष्टोमः । तच्चतु॑ष्टोमस्य चतुष्टोम॒त्वम् ॥ तदा॑हुः । क॒त॒मानि॒ तानि॒ ज्योतीꣳ॑षि । य ए॒तस्य॒ स्तोमा॒ इति॑ । त्रि॒वृत्-प॑ञ्चद॒शः स॑प्तद॒श ए॑कविꣳ॒॒शः
कोर्वै (Index)
(ए॒क॒विꣳ॒॒श-आ॑हु-स्तृतीयसव॒ने-प्रा॑तस्सव॒नं पञ्च॑ च)
1.5.11.2
ए॒तानि॒ वाव तानि॒ ज्योतीꣳ॑षि । य ए॒तस्य॒ स्तोमाः᳚ ॥ सो᳚ऽब्रवीत् । स॒प्त॒द॒शेन॑ ह्रि॒यमा॑णो॒ व्य॑लेशिषि । भि॒षज्य॑त॒ मेति॑ । तम॒श्विनौ॑ धा॒नाभि॑-रभिषज्यताम् । पू॒षा क॑र॒म्भेण॑ । भार॑ती परिवा॒पेण॑ । मि॒त्रावरु॑णौ पय॒स्य॑या ॥ तदा॑हुः
कोर्वै (Index)
(ए॒क॒विꣳ॒॒श-आ॑हु-स्तृतीयसव॒ने-प्रा॑तस्सव॒नं पञ्च॑ च)
1.5.11.3
यद॒श्विभ्यां᳚ धा॒नाः । पू॒ष्णः क॑र॒म्भः । भार॑त्यै परिवा॒पः । मि॒त्रावरु॑णयोः पय॒स्याऽथ॑ । कस्मा॑दे॒तेषाꣳ॑ ह॒विषा॒मिन्द्र॑मे॒व य॑ज॒न्तीति॑ । ए॒ता ह्ये॑नं दे॒वता॒ इति॑ ब्रूयात् । ए॒तैर्. ह॒विर्भि॒-रभि॑षज्यꣳ॒॒-स्तस्मा॒दिति॑ ॥ तं ॅवस॑वो॒ऽष्टाक॑पालेन प्रातस्सव॒ने॑ऽभिषज्यन्न् । रु॒द्रा एका॑दशकपालेन॒ माद्ध्य॑न्दिने॒ सव॑ने । विश्वे॑ दे॒वा द्वाद॑शकपालेन तृतीयसव॒ने ।
कोर्वै (Index)
(ए॒क॒विꣳ॒॒श-आ॑हु-स्तृतीयसव॒ने-प्रा॑तस्सव॒नं पञ्च॑ च)
1.5.11.4
स यद॒ष्टाक॑पालान् प्रातस्सव॒ने कु॒र्यात् । एका॑दशकपाला॒न् माद्ध्य॑न्दिने॒ सव॑ने । द्वाद॑शकपालाꣳ स्तृतीय सव॒ने । विलो॑म॒ तद्-य॒ज्ञ्स्य॑ क्रियेत । एका॑दशकपालाने॒व प्रा॑तस्सव॒ने कु॑र्यात् । एका॑दशकपाला॒न् माद्ध्य॑न्दिने॒ सव॑ने । एका॑दशकपालाꣳ स्तृतीय सव॒ने । य॒ज्ञ्स्य॑ सलोम॒त्वाय॑ ॥ तदा॑हुः । यद् वसू॑नां प्रातस्सव॒नम् ( ) । रु॒द्राणां॒ माद्ध्य॑न्दिनꣳ॒॒ सव॑नम् । विश्वे॑षां दे॒वानां᳚ तृतीयसव॒नम् । अथ॒ कस्मा॑दे॒तेषाꣳ॑ ह॒विषा॒मिन्द्र॑मे॒व य॑ज॒न्तीति॑ । ए॒ता ह्ये॑नं दे॒वता॒ इति॑ ब्रूयात् । ए॒तैर्. ह॒विर्भि॒रभि॑षज्यꣳ॒॒ स्तस्मा॒दिति॑ ।
कोर्वै (Index)
(ए॒क॒विꣳ॒॒श-आ॑हु-स्तृतीयसव॒ने-प्रा॑तस्सव॒नं पञ्च॑ च)