TB 3.6.1

4 पञ्चाशत्

3.6.1 अनुवाकं 1 - यूपसंस्काराः

3.6.1.1
अ॒ञ्जन्ति॒ त्वाम॑द्ध्व॒रे दे॑व॒यन्तः॑ । वन॑स्पते॒ मधु॑ना॒ दैव्ये॑न । यदू॒र्द्ध्वस्ति॑ष्ठा॒द्-द्रवि॑णे॒ह ध॑त्तात् । यद्वा॒ क्षयो॑ मा॒तुर॒स्या उ॒पस्थे᳚ ॥ उच्छ्र॑यस्व वनस्पते । वर्ष्म॑न् पृथि॒व्या अधि॑ । सुमि॑ती मी॒यमा॑नः । वर्चो॑धा य॒ज्ञ्वा॑हसे ॥ समि॑द्धस्य॒ श्रय॑माणः पु॒रस्ता᳚त् । ब्रह्म॑ वन्वा॒नो अ॒जरꣳ॑ सु॒वीर᳚म्
कोर्वै (Index)
(सु॒वीरं॒ - दुवः॒ - स्वा॑हुतो॒ - +ऽष्टौ च॑)
3.6.1.2
आ॒रे अ॒स्मदम॑तिं॒ बाध॑मानः । उच्छ्र॑यस्व मह॒ते सौभ॑गाय ॥ ऊ॒र्द्ध्व ऊ॒षुण॑ ऊ॒तये᳚ । तिष्ठा॑ दे॒वो न स॑वि॒ता । ऊ॒र्द्ध्वो वाज॑स्य॒ सनि॑ता॒ यद॒ञ्जिभिः॑ । वा॒घद्भि॑र्-वि॒ह्वया॑महे ॥ ऊ॒र्द्ध्वो नः॑ पा॒ह्यꣳह॑सो॒ नि के॒तुना᳚ । विश्वꣳ॒॒ सम॒त्रिणं॑ दह । कृ॒धी न॑ ऊ॒र्द्ध्वाञ्च॒ रथा॑य जी॒वसे᳚ । वि॒दा दे॒वेषु॑ नो॒ दुवः॑ ।
कोर्वै (Index)
(सु॒वीरं॒ - दुवः॒ - स्वा॑हुतो॒ - +ऽष्टौ च॑)
3.6.1.3
जा॒तो जा॑यते सुदिन॒त्वे अह्ना᳚म् । सम॒र्य आ वि॒दथे॒ वर्द्ध॑मानः । पु॒नन्ति॒ धीरा॑ अ॒पसो॑ मनी॒षा । दे॒व॒या विप्र॒ उदि॑यर्ति॒ वाच᳚म् ॥ युवा॑ सु॒वासाः॒ परि॑वीत॒ आगा᳚त् । स उ॒ श्रेया᳚न् भवति॒ जाय॑मानः । तं धीरा॑सः क॒वय॒ उन्न॑यन्ति । स्वा॒धियो॒ मन॑सा देव॒यन्तः॑ ॥ पृ॒थु॒पाजा॒ अम॑र्त्यः । घृ॒तनि॑र्णि॒ख्-स्वा॑हुतः ( )
कोर्वै (Index)
(सु॒वीरं॒ - दुवः॒ - स्वा॑हुतो॒ - +ऽष्टौ च॑)
3.6.1.4
अ॒ग्निर्-य॒ज्ञ्स्य॑ हव्य॒वाट् ॥ तꣳ स॒बाधो॑ य॒तस्रु॑चः । इ॒त्था धि॒या य॒ज्ञ्व॑न्तः । आच॑क्रुर॒ग्नि-मू॒तये᳚ ॥ त्वं ॅवरु॑ण उ॒त मि॒त्रो अ॑ग्ने । त्वां ॅव॑र्द्धन्ति म॒तिभि॒र्-वसि॑ष्ठाः । त्वे वसु॑ सुषण॒नानि॑ सन्तु । यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ।
कोर्वै (Index)
(सु॒वीरं॒ - दुवः॒ - स्वा॑हुतो॒ - +ऽष्टौ च॑)