TB 3.6.9

1 पञ्चाशत्

3.6.9 अनुवाकं 9 - तेषामेव याज्याः

3.6.9.1
गी॒र्भिर्विप्रः॒ प्रम॑तिमि॒च्छमा॑नः । ई॒॑ र॒यिं ॅय॒शसं॑ पूर्व॒भाज᳚म् । इन्द्रा᳚ग्नी वृत्रहणा सुवज्रा । प्रणो॒ नव्ये॑भिस्तिरतं दे॒ष्णैः ॥ माच्छे᳚द्म र॒श्मीꣳरिति॒ नाध॑मानाः । पि॒तृ॒णाꣳ शक्ती॑रनु॒ यच्छ॑मानाः । इ॒न्द्रा॒ग्निभ्यां॒ कं ॅवृष॑णो मदन्ति । ता ह्यद्री॑ धि॒षणा॑या उ॒पस्थे᳚ ॥ अ॒ग्निꣳ सु॑दी॒तिꣳ सु॒दृशं॑ गृ॒णन्तः॑ । न॒म॒स्याम॒स्त्वेड्यं॑ जातवेदः ( ) । त्वां दू॒तम॑र॒तिꣳ ह॑व्य॒वाह᳚म् । दे॒वा अ॑कृण्वन्-न॒मृत॑स्य॒ नाभि᳚म् ।
कोर्वै (Index)
(जा॒त॒वे॒दो॒ द्वे च॑)