TB 3.6.8

2 पञ्चाशत्

3.6.8 अनुवाकं 8 - वपा पुरोडाशस्विष्टकृतां पुरोनुवाक्याः प्रैषाश्च

3.6.8.1
आ वृ॑त्रहणा वृत्र॒हभिः॒ शुष्मैः᳚ । इन्द्र॑ या॒तं नमो॑भिरग्ने अ॒र्वाक् । यु॒वꣳ राधो॑भि॒रक॑वेभिरिन्द्र । अग्ने॑ अ॒स्मे भ॑वतमुत्त॒मेभिः॑ ॥ होता॑ यक्षदिन्द्रा॒ग्नी । छाग॑स्य व॒पाया॒ मेद॑सः । जु॒षेताꣳ॑ ह॒विः । होत॒र्यज॑ ॥ वि ह्यख्य॒न्-मन॑सा॒ वस्य॑ इ॒च्छन्न् । इन्द्रा᳚ग्नी ज्ञा॒स उ॒त वा॑ सजा॒तान्
कोर्वै (Index)
(स॒जा॒ता - न॒ग्निं द्वे च॑)
3.6.8.2
नान्या यु॒वत्प्रम॑तिरस्ति॒ मह्य᳚म् । स वां॒ धियं॑ ॅवाज॒यन्ती॑मतक्षम् ॥ होता॑ यक्षदिन्द्रा॒ग्नी । पु॒रो॒डाश॑स्य जु॒षेताꣳ॑ ह॒विः । होत॒र्यज॑ ॥ त्वामी॑डते अजि॒रं दू॒त्या॑य । ह॒विष्म॑न्तः॒ सद॒मिन्-मानु॑षासः । यस्य॑ दे॒वैरास॑दो ब॒र्॒.हिर॑ग्ने । अहा᳚न्यस्मै सु॒दिना॑ भवन्तु ॥ होता॑ यक्षद॒ग्निम् ( ) । पु॒रो॒डाश॑स्य जु॒षताꣳ॑ ह॒विः । होत॒र्यज॑ ।
कोर्वै (Index)
(स॒जा॒ता - न॒ग्निं द्वे च॑)