TB 3.6.15

1 पञ्चाशत्

3.6.15 अनुवाकं 15 - सूक्तवाकप्रैषाः

3.6.15.1
अ॒ग्निम॒द्य होता॑रमवृणीता॒यं ॅयज॑मानः॒ पच॑न् प॒क्तीः पच॑न् पुरो॒डाशं॑ ब॒द्ध्नन्-नि॑न्द्रा॒ग्निभ्यां॒ छागꣳ॑ सूप॒स्था अ॒द्य दे॒वो वन॒स्पति॑-रभव-दिन्द्रा॒ग्निभ्यां॒ छागे॒नाघ॑स्तां॒ तं मे॑द॒स्तः प्रति॑ पच॒ताऽग्र॑भीष्टा॒मवी॑वृधेतां पुरो॒डाशे॑न॒ त्वाम॒द्यर्.ष॑ आर्.षेयर्.षीणां नपादवृणीता॒यं ॅयज॑मानो ब॒हुभ्य॒ आ संग॑तेभ्य ए॒ष मे॑ दे॒वेषु॒ वसु॒ वार्या य॑क्ष्यत॒ इति॒ ता या दे॒वा दे॑व॒-दाना॒न्यदु॒स्तान्य॑स्मा॒ आ च॒ शास्वा च॑ गुरस्वेषि॒तश्च॑ होत॒रसि॑ भद्र॒वाच्या॑य॒ प्रेषि॑तो॒ मानु॑षः सूक्तवा॒काय॑ सू॒क्ता ब्रू॑हि ।
कोर्वै (Index)
(अ॒ग्निम॒द्यैक᳚म्)