अ॒ग्निर्. होता॑ नो अद्ध्व॒रे । वा॒जी सन्-परि॑णीयते । दे॒वो दे॒वेषु॑ य॒ज्ञियः॑ ॥ परि॑ त्रिवि॒ष्ट्य॑द्ध्व॒रम् । यात्य॒ग्नी र॒थीरि॑व । आ दे॒वेषु॒ प्रयो॒ दध॑त् ॥ परि॒ वाज॑पतिः क॒विः । अ॒ग्निर्. ह॒व्या न्य॑क्रमीत् । दध॒द्-रत्ना॑नि दा॒शुषे᳚ ।
कोर्वै (Index)
(अ॒ग्निर् होता॑ नो॒ नव॑)