TB 3.6.2

2 पञ्चाशत्

3.6.2 अनुवाकं 2 - प्रयाजविषया मैत्रावरुणप्रैषाः

3.6.2.1
होता॑ यक्षद॒ग्निꣳ स॒मिधा॑ सुष॒मिधा॒ समि॑द्धं॒ नाभा॑ पृथि॒व्याः स॑गं॒थे वा॒मस्य॑ । वर्ष्म॑न्दि॒व इ॒डस्प॒दे वेत्वाज्य॑स्य॒ होत॒र्यज॑ ॥ होता॑ यक्ष॒त्-तनू॒नपा॑त॒-मदि॑ते॒र्-गर्भं॒ भुव॑नस्य गो॒पाम् । मद्ध्वा॒ऽद्य दे॒वो दे॒वेभ्यो॑ देव॒याना᳚न्प॒थो अ॑नक्तु॒ वेत्वाज्य॑स्य॒ होत॒र्यज॑ ॥ होता॑ यक्ष॒न्-नरा॒शꣳसं॑ नृश॒स्त्रं नॄꣳः प्र॑णेत्रम् । गोभि॑र्-व॒पावा॒न्थ्-स्याद्-वी॒रैः शक्ती॑वा॒न्-रथैः᳚ प्रथम॒यावा॒ हिर॑ण्यैश्च॒न्द्री वेत्वाज्य॑स्य॒ होत॒र्यज॑ ॥ होता॑ यक्षद॒ग्निमि॒ड ई॑डि॒तो दे॒वो दे॒वाꣳ आव॑क्षद्-दू॒तो ह॑व्य॒वाडमू॑रः । उपे॒मं ॅय॒ज्ञ्मुपे॒मां दे॒वो दे॒वहू॑तिमवतु॒ वेत्वाज्य॑स्य॒ होत॒र्यज॑ ॥ होता॑ यक्षद्-ब॒र्॒.हिः सु॒ष्टरी॒मोर्ण॑म्रदा अ॒स्मिन्. य॒ज्ञे वि च॒ प्र च॑ प्रथताꣳ स्वास॒स्थं दे॒वेभ्यः॑ । एमे॑नद॒द्य वस॑वो रु॒द्रा आ॑दित्याः स॑दन्तु प्रि॒यमिन्द्र॑स्यास्तु॒ वेत्वाज्य॑स्य॒ होत॒र्यज॑ ।
कोर्वै (Index)
(प्रि॒यमिन्द्र॑स्यास्तु॒ वेत्वाज्य्॑स्य॒ होत॒र्यज॑ - सु॒वीरो॑ वी॒रैर् वेत्वाज्य॑स्य॒ होत॒र्यज॑ च॒त्वारि॑ च)
3.6.2.2
होता॑ यक्ष॒द्-दुर॑ ऋ॒ष्वाः क॑व॒ष्योऽको॑षधावनी॒-रुदाता॑भि॒र्-जिह॑तां॒ ॅवि पक्षो॑भिः श्रयन्ताम् । सु॒प्रा॒य॒णा अ॒स्मिन्. य॒ज्ञे विश्र॑यन्ता-मृता॒वृधो॑ वि॒यन्त्वाज्य॑स्य॒ होत॒र्यज॑ ॥ होता॑ यक्षदु॒षासा॒नक्ता॑ बृह॒ती सु॒पेश॑सा॒ नॄꣳः पति॑भ्यो॒ योनिं॑ कृण्वा॒ने । सꣳ॒॒स्मय॑माने॒ इन्द्रे॑ण दे॒वैरेदं ब॒र्॒.हिः सी॑दतां ॅवी॒तामाज्य॑स्य॒ होत॒र्यज॑ ॥ होता॑ यक्ष॒द्-दैव्या॒ होता॑रा म॒न्द्रा पोता॑रा क॒वी प्रचे॑तसा । स्वि॑ष्टम॒द्यान्यः क॑रदि॒षा स्व॑भिगूर्तम॒न्य ऊ॒र्जा सत॑वसे॒मं ॅय॒ज्ञ्ं दि॒वि दे॒वेषु॑ धत्तां ॅवी॒तामाज्य॑स्य॒ होत॒र्यज॑ ॥ होता॑ यक्षत्-ति॒स्रो दे॒वीर॒पसा॑म॒पस्त॑मा॒ अच्छि॑द्र-म॒द्येदमप॑-स्तन्वताम् । दे॒वेभ्यो॑ दे॒वीर्-दे॒वमपो॑ वि॒यन्त्वाज्य॑स्य॒ होत॒र्यज॑ ॥ होता॑ यक्ष॒त्-त्वष्टा॑र॒-मचि॑ष्टु॒मपा॑कꣳ रेतो॒धां ॅविश्र॑वसं ॅयशो॒धाम् । पु॒रु॒रूप॒मका॑मकर्.शनꣳ सु॒पोषः॒ पोषैः॒ स्याथ् सु॒वीरो॑ वी॒रैर्-वेत्वाज्य॑स्य॒ होत॒र्यज॑ ( ) ॥ होता॑ यक्ष॒द्-वन॒स्पति॑-मु॒पाव॑स्रक्षद्धि॒यो जो॒ष्टारꣳ॑ श॒शम॒न्नरः॑ । स्वदा॒थ् स्वधि॑तिर्. ऋतु॒थाऽद्य दे॒वो दे॒वेभ्यो॑ ह॒व्याऽवा॒ड्-वेत्वाज्य॑स्य॒ होत॒र्यज॑ ॥ होता॑ यक्षद॒ग्निꣳ स्वाहाऽऽज्य॑स्य॒ स्वाहा॒ मेद॑सः॒ स्वाहा᳚ स्तो॒कानाꣳ॒॒ स्वाहा॒ स्वाहा॑ कृतीनाꣳ॒॒ स्वाहा॑ ह॒व्यसू᳚क्तीनाम् । स्वाहा॑ दे॒वाꣳ आ᳚ज्य॒पान्थ् स्वाहा॒ऽग्निꣳ हो॒त्राज्जु॑षा॒णा अग्न॒ आज्य॑स्य वियन्तु॒ होत॒र्यज॑ ।
कोर्वै (Index)
(प्रि॒यमिन्द्र॑स्यास्तु॒ वेत्वाज्य्॑स्य॒ होत॒र्यज॑ - सु॒वीरो॑ वी॒रैर् वेत्वाज्य॑स्य॒ होत॒र्यज॑ च॒त्वारि॑ च)