TB 3.6.14

3 पञ्चाशत्

3.6.14 अनुवाकं 14 - अनूयाजयाज्याः

3.6.14.1
दे॒वं ब॒र्॒.हिः । व॒सु॒वने॑ वसु॒धेय॑स्य वेतु । दे॒वीर्द्वारः॑ । व॒सु॒वने॑ वसु॒धेय॑स्य वियन्तु । दे॒वी उ॒षासा॒ नक्ता᳚ । व॒सु॒वने॑ वसु॒धेय॑स्य वीताम् । दे॒वी जोष्ट्री᳚ । व॒सु॒वने॑ वसु॒धेय॑स्य वीताम् । दे॒वी ऊ॒र्जाहु॑ती । व॒सु॒वने॑ वसु॒धेय॑स्य वीताम्
कोर्वै (Index)
(वी॒तां॒ - ॅवे॒त्व - भू॒रेकं॑ च)
3.6.14.2
दे॒वा दैव्या॒ होता॑रा । व॒सु॒वने॑ वसु॒धेय॑स्य वीताम् । दे॒वीस्ति॒स्र-स्ति॒स्रो दे॒वीः । व॒सु॒वने॑ वसु॒धेय॑स्य वियन्तु । दे॒वो नरा॒शꣳसः॑ । व॒सु॒वने॑ वसु॒धेय॑स्य वेतु । दे॒वो वन॒स्पतिः॑ । व॒सु॒वने॑ वसु॒धेय॑स्य वेतु । दे॒वं ब॒र्॒.हिर्वारि॑तीनाम् । व॒सु॒वने॑ वसु॒धेय॑स्य वेतु
कोर्वै (Index)
(वी॒तां॒ - ॅवे॒त्व - भू॒रेकं॑ च)
3.6.14.3
दे॒वो अ॒ग्निः स्वि॑ष्ट॒कृत् । सु॒द्रवि॑णा म॒न्द्रः क॒विः । स॒त्यम॑न्माऽऽय॒जी होता᳚ । होतु॑र्. होतु॒राय॑जीयान् । अग्ने॒ यान्दे॒वानया᳚ट् । याꣳ अपि॑प्रेः । ये ते॑ हो॒त्रे अम॑थ्सत । ताꣳ स॑स॒नुषीꣳ॒॒ होत्रां᳚ देवं ग॒माम् । दि॒वि दे॒वेषु॑ य॒ज्ञ्मेर॑ये॒मम् । स्वि॒ष्ट॒कृच्चाग्ने॒ होताऽभूः᳚ ( ) । व॒सु॒वने॑ वसु॒धेय॑स्य नमोवा॒के वीहि॑ ।
कोर्वै (Index)
(वी॒तां॒ - ॅवे॒त्व - भू॒रेकं॑ च)