जु॒षस्व॑ स॒प्रथ॑स्तमम् । वचो॑ दे॒वफ्स॑रस्तमम् । ह॒व्या जुह्वा॑न आ॒सनि॑ ॥ इ॒मं नो॑ य॒ज्ञ्म॒मृते॑षु धेहि । इ॒मा ह॒व्या जा॑तवेदो जुषस्व । स्तो॒काना॑मग्ने॒ मेद॑सो घृ॒तस्य॑ । होतः॒ प्राशा॑न प्रथ॒मो नि॒षद्य॑ ॥ घृ॒तव॑न्तः पावक ते । स्तो॒काःश्चो॑तन्ति॒ मेद॑सः । स्वध॑र्मं दे॒ववी॑तये
कोर्वै (Index)
(दे॒ववी॑तय॒-उद्भृ॑तं॒ त्रीणि॑ च)