उपो॑ह॒ यद्वि॒दथं॑ ॅवा॒जिनो॒ गूः । गी॒र्भिर्-विप्राः॒ प्रम॑ति-मि॒च्छमा॑नाः । अ॒र्वन्तो॒ न काष्ठां॒ नक्ष॑माणाः । इ॒न्द्रा॒ग्नी जोहु॑वतो॒ नर॒स्ते ॥ वन॑स्पते रश॒नया॑ऽभि॒धाय॑ । पि॒ष्टत॑मया व॒युना॑नि वि॒द्वान् । वह॑ देव॒त्रा दि॑धिषो ह॒वीꣳषि॑ । प्र च॑ दा॒तार॑म॒मृते॑षु वोचः ॥ अ॒ग्निꣳ स्वि॑ष्ट॒कृत᳚म् । अया॑ड॒ग्नि-रि॑न्द्राग्नि॒योः छाग॑स्य ह॒विषः॑ प्रि॒या धामा॑नि
कोर्वै (Index)
(धामा॑नि॒ - भुरेकं॑ च)