त्वꣳ ह्य॑ग्ने प्रथ॒मो म॒नोता᳚ । अ॒स्या धि॒यो अभ॑वो दस्म॒ होता᳚ । त्वꣳ सीं᳚ ॅवृषन्-नकृणोर्-दु॒ष्टरी॑तु । सहो॒ विश्व॑स्मै॒ सह॑से॒ सह॑द्ध्यै ॥ अधा॒ होता॒ न्य॑सीदो॒ यजी॑यान् । इ॒डस्प॒द इ॒षय॒न्नीड्यः॒ सन्न् । तं त्वा॒ नरः॑ प्रथ॒मं दे॑व॒यन्तः॑ । म॒हो रा॒ये चि॒तय॑न्तो॒ अनु॑ ग्मन्न् ॥ वृ॒तेव॒ यन्तं॑ ब॒हुभि॑र्-वस॒व्यैः᳚ । त्वे र॒यिं जा॑गृ॒वाꣳसो॒ अनु॑ ग्मन्न्
कोर्वै (Index)
(जा॒गृ॒वाꣳसो॒ अनु॑ ग्म॒न् - मानु॑षाणां - चर्.षणी॒नां - ॅय॑ते - माश्यां॒ द्वे च॑)