अनुवाकः 10 TS 1.2.10

(A10)

( आ-मै-कं॑ च )

अनुवाकः 10 - Complete Audio

TS 1.2.10 - स्वरानुगामी

0:00 0:00
PS1.1 अ॒ग्ने-रा॑ति॒थ्यम॑सि॒ विष्ण॑वे त्वा॒ सोम॑स्याऽऽ*ति॒थ्यम॑सि॒
PS1.2 विष्ण॑वे॒ त्वा-ऽति॑थेराति॒थ्यम॑सि॒ विष्ण॑वे त्वा॒ऽग्नये᳚
PS1.3 त्वा रायस्पोष॒दाव्.न्ने॒ विष्ण॑वे त्वा
PS1.4 श्ये॒नाय॑ त्वा सोम॒भृते॒ विष्ण॑वे
PS1.5 त्वा॒ या ते॒ धामा॑नि
PS1.6 ह॒विषा॒ यज॑न्ति॒ ता ते॒
PS1.7 विश्वा॑ परि॒भूर॑स्तु य॒ज्ञ्ं ग॑य॒स्फानः॑
PS1.8 प्र॒तर॑णः सु॒वीरोऽवी॑रहा॒ प्रच॑रा सोम॒
PS1.9 दुर्या॒नदि॑त्याः॒ सदो॒ऽस्यदि॑त्याः॒ सद॒ आ-[
PS1.10 ]
PS2.1 सी॑द॒ वरु॑णोऽसि धृ॒तव्र॑तो वारु॒णम॑सि
PS2.2 शं॒ॅयोर् दे॒वानाꣳ॑ स॒ख्यान्मा दे॒वाना॑-म॒पस॑-श्छिथ्स्म॒ह्याप॑तये
PS2.3 त्वा गृह्णामि॒ परि॑पतये त्वा
PS2.4 गृह्णामि॒ तनू॒नप्त्रे᳚ त्वा गृह्णामि
PS2.5 शाक्व॒राय॑ त्वा गृह्णामि॒ शक्म॒न्नोजि॑ष्ठाय
PS2.6 त्वा गृह्णा॒म्य-ना॑धृष्टमस्य-नाधृ॒ष्यं दे॒वाना॒मोजो॑- ऽभिषस्ति॒पा
PS2.7 अ॑नभिशस्ते॒ऽन्यमनु॑ मे दी॒क्षां दी॒क्षाप॑तिर्
PS2.8 मन्यता॒मनु॒ तप॒स्तप॑स्पति॒रञ्ज॑सा स॒त्यमुप॑ गेषꣳ
PS2.9 सुवि॒ते मा॑ ( )
PS2.10 धाः

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 1.2.10.1 TS 1.2.10.1
अ॒ग्ने-रा॑ति॒थ्यम॑सि॒ विष्ण॑वे त्वा॒ सोम॑स्याऽऽ*ति॒थ्यम॑सि॒ विष्ण॑वे॒ त्वा-ऽति॑थेराति॒थ्यम॑सि॒ विष्ण॑वे त्वा॒ऽग्नये᳚ त्वा रायस्पोष॒दाव्.न्ने॒ विष्ण॑वे त्वा श्ये॒नाय॑ त्वा सोम॒भृते॒ विष्ण॑वे त्वा॒ या ते॒ धामा॑नि ह॒विषा॒ यज॑न्ति॒ ता ते॒ विश्वा॑ परि॒भूर॑स्तु य॒ज्ञ्ं ग॑य॒स्फानः॑ प्र॒तर॑णः सु॒वीरोऽवी॑रहा॒ प्रच॑रा सोम॒ दुर्या॒नदि॑त्याः॒ सदो॒ऽस्यदि॑त्याः॒ सद॒ आ-[ ]
पदपाठः (Word-by-word)
अ॒ग्नेः । आ॒ति॒थ्यम् । अ॒सि॒ । विष्ण॑वे । त्वा॒ । सोम॑स्य । आ॒ति॒थ्यम् । अ॒सि॒ । विष्ण॑वे । त्वा॒ । अति॑थेः । आ॒ति॒थ्यम् । अ॒सि॒ । विष्ण॑वे । त्वा॒ । अ॒ग्नये᳚ । त्वा॒ । रा॒य॒स्पो॒ष॒दाव्‌न्न॒ इति॑ रायस्पोष - दाव्‌न्ने᳚ । विष्ण॑वे । त्वा॒ । श्ये॒नाय॑ । त्वा॒ । सो॒म॒भृत॒ इति॑ सोम - भृते᳚ । विष्ण॑वे । त्वा॒ । या । ते॒ । धामा॑नि । ह॒विषा᳚ । यज॑न्ति । ता । ते॒ । विश्वा᳚ । प॒रि॒भूरिति॑ परि - भूः । अ॒स्तु॒ । य॒ज्ञ्म् । ग॒य॒स्फान॒ इति॑ गय - स्फानः॑ । प्र॒तर॑ण॒ इति॑ प्र - तर॑णः । सु॒वीर॒ इति॑ सु - वीरः॑ । अवी॑र॒हेत्यवी॑र - हा॒ । प्रेति॑ । च॒र ॒। सो॒म॒ । दुर्यान्॑ । अदि॑त्याः । सदः॑ । अ॒सि॒ । अदि॑त्याः । सदः॑ । एति॑ ।
पदसंख्या: 50
सायणभाष्यम् (Sayana Commentary)
अथ प्रथमकाणडे द्वितीयप्रपाठके दशमोऽनुवाकः ॥१०॥

नवमेऽनुवाके सोमस्य प्राचीनवंशं प्रति गमनमुक्तं, दशमे तु समीपमागतस्यातिथिरूपस्य सोमस्य सत्कारायाऽऽतिथ्येष्टिरुच्यते।

अग्नेरिति। कल्पः — “आतिथ्यं निर्वपत्यन्वारब्धायां पत्न्यामथ देवस्य त्वा सवितुः प्रसव इति प्रतिपदं कृत्वाऽग्नेरातिथ्यमसि विष्णवे त्वा जुष्टं निर्वपामीत्येतामेव प्रतिपदं कृत्वा सोमस्याऽऽतिथ्यमसि विष्णवे त्वा जुष्टं निर्वपामीत्येतामेव प्रतिपदं कृत्वाऽतिथेरातिथ्यमसि विष्णवे त्वा जुष्टं निर्वपामीत्येतामेव प्रतिपदं कृत्वाऽग्नये त्वा रायस्पोषदाव्ने विष्णवे त्वा जुष्टं निर्वपामीत्येतामेव प्रतिपदं कृत्वा श्येनाय त्वा सोमभृते विष्णवे त्वा जुष्टं निर्वपामीति पञ्चकृत्वो यजुषा” इति।

प्रकृतिगतेऽग्नये जुष्टं निर्वपामीत्येतस्मिन्मन्त्रेऽतिदेशात्प्राप्ते सति तत्रत्यदेवतापदस्यैवात्र पञ्चभिः पर्यायैरपोदितत्वात्पञ्चमेऽ(स्व)पि सावित्रं जुष्टं चानुषजति।

अत्र विष्णुरेक एव हविषो देवता। अग्न्यादयस्तु तदनुचराः। अतति सततं गच्छतीत्यातिथिः। तदर्थं क्रियमाणं सत्काररूपं कर्माऽऽतिथ्यम्। लोके स्वामिने दीयमानेन द्रव्येण तदनुचरा अपि परितुष्यन्ति। तस्मादत्राग्न्यादीनामिदं हविर्भवत्यातिथ्यम्। हे हविस्त्वमतिथिरूपस्याग्नेः सत्काररूपमसि। तादृशं त्वां विष्णुशब्दाभिधेयाय सोमाय निर्वपामि। सोमस्येत्यत्र प्रधानभूतः सोमो न त्वपरः कश्चित्तन्नामाऽनुचरः। अतिथिनामकोऽन्यः। रायस्पोषदावा धनसमृद्धेर्दाता कश्चित्तदग्निनामकोऽन्यः। सोमं बिभर्ति पोषयतीति सोमभृच्छ्येननामकोऽन्यः। एतावुभावपि सोमस्य राज्ञोऽतिप्रत्यासन्नावनुचरावित्यभिप्रेत्याग्नये श्येनायेति चतुर्थ्या त्वाशब्देन च प्रधानसमतया निर्दिश्यते।

मन्त्रान्व्याचिख्यासुरादौ कालविशेषसहितमातिथ्यं कर्म विधत्ते —

“यदुभौ विमुच्याऽऽतिथ्यं गृह्णीयाद्यज्ञं विच्छिन्द्याद्यदुभावविमुच्य यथाऽनागतायाऽऽतिथ्यं क्रियते तादृगेव तद्विमुक्तोऽन्योऽनड्वान्भवत्यविमुक्तोऽन्योऽथाऽऽतिथ्यं गृह्णाति यज्ञस्य संतत्यै” (सं. का. ६ प्र. २ अ. १) इति।

द्वयोर्बलीवर्दयोर्विमुक्तयोः सतोः सोमगमनरूपं कर्म सर्वथा परित्यक्तं भवति। आतिथ्यकर्म तूपक्रान्तं, ततो यज्ञमध्ये यज्ञो विच्छिद्येत। अविमुक्तयोस्तु द्वयोर्गमनस्यासंपूर्णत्वादनागताय सोमायाऽऽतिथ्यं कृतं भवेत्। एकस्मिन्विमुक्ते च विमुक्तत्वादेव गमनं संपूर्णं भवति। इतरस्य विमोकाभावत्पूर्वकर्मापि न त्यक्तम्। अतस्तस्मिन्काले निर्वापाद्यज्ञः संततो भवति।

निर्वापकालेऽध्वर्युमनु पत्न्याः शकटस्पर्शं विधत्ते —

“पत्न्यन्वारभते पत्नी हि पारीणह्यास्यशे पत्नियैवानुमतं निर्वपति यद्वै पत्नी यज्ञस्य करोति मिथुनं तदथो पत्निया एवैष यज्ञस्यान्वारम्भोऽनवच्छित्त्यै” (सं. का. ६ प्र. २ अ. १) इति।

परि(री)णद्गृहं त्र भवं व्रीह्यादिद्रव्यं पारीणह्यं तस्येशाना पत्नी। किंच यज्ञः पुमान्पत्नी स्त्रीत्येतन्मिथुनम्। किंच योऽयं पत्न्याः शकटस्य यज्ञाङ्गस्य स्पर्शः स यज्ञस्य विच्छेदराहित्याय भवति।

मन्त्रान्व्याचष्टे —

यावद्भिर्वै राजाऽनुचरैरागच्छति सर्वेभ्यो वै तेभ्य आतिथ्यं क्रियते छन्दासि खलु वै सोमस्य राज्ञोऽनुचराण्यग्नेरातिथ्यमसि विष्णवे त्वेत्याह गायत्रिया एवैतेन करोति सोमस्याऽऽतिथ्यमसि विष्णवे त्वेत्याह त्रिष्टुभ एवैतेन करोत्यतिथेरातिथ्यमसि विष्णवे त्वेत्याह जगत्या एवैतेन करोत्यग्नये त्वा रायस्पोषदाव्ने विष्णवे त्वेत्याहानुष्टुभ एवैतेन करोति श्येनाय त्वा सोमभृते विष्णवे त्वेत्याह गायत्रिया एवैतेन करोति” [सं. का. ६ प्र. २ अ. १] इति।

सौमस्य भृत्यैरग्न्यादिर्भृत्यान्तराणि गायत्र्यादीन्युपलक्ष्यन्ते। उपलक्षकविशेषाणामग्न्यादीनामुपलक्ष्यविशेषैर्गायत्र्यादिभिः प्रातिस्विकसंबन्धविशेषे प्रमाणमिदं ब्राह्मणमेव।

निर्वापावृत्तिसंख्यां विधत्ते —

“पञ्च कृत्वो गृह्णाति पञ्चक्षरा पङ्क्तिः पाङ्क्तो यज्ञो यज्ञमेवाव रुन्धे” [सं. का. ६ प्र. २ अ. १] इति।

आद्यन्तयोर्मन्त्रयोर्गायत्र्या द्विरुपलक्षितत्वं प्रश्नोत्तराभ्यामुपपादयति —

“ब्रह्मवादिनो वदन्ति कस्मात्सत्याद्गायत्रिया उभयत आतिथ्यस्य क्रियत इति यदेवादः सोममाहरत्तस्माद्गायत्रिया उभयत आतिथ्यस्व क्रियते पुरस्ताच्चोपरिष्टाच्च” [सं. का. ६ प्र. २ अ. १] इति।

आतिथ्यं क्रियत इत्यर्थः।

निरुप्तैस्तण्डुलैर्नवकपालः पुरोडाशः कार्य इति विधत्ते —

“शिरो वा एतद्यज्ञस्य यदातिथ्यं नवकपालः पुरोडाशो भवति तस्मान्नवधा शिरो विष्यूतम्” [सं. का. ६ प्र. २ अ. १] इति।

आतिथ्येष्टेः सत्काररूपत्वेन शिरोवदुत्तमाङ्गत्वम्। यस्मादत्र कपालेषु नवसंख्या तस्माद्दृष्टान्तभूतं शिरोऽपि नवभिः कपालैर्विशेषेण स्यूतम्। पौरोडाशिकब्राह्मणे ह्येवमाम्नातम् — “तस्मादष्टाकपालं पुरुषस्य शिरः” इति। ततोऽष्टानां कपालानां परस्परमष्टधा स्यूतिस्ततस्तत्समहरूपस्य शिरसोऽधस्तनेन कबन्धेन सहैकधा स्यूतिः।

उक्तमेव विधिमनूद्य प्रशंसति —

“नवकपालः पुरोडोशो भवति ते त्रयस्त्रिकपालास्त्रिवृता स्तोमेन संमिता-

स्तेजस्त्रिवृत्तेज एव यज्ञस्य शीर्षन्दधाति” [सं. का. ६ प्र. २ अ. १] इति।

त्रिवृन्नामके स्तोमे त्रीणि सूक्तानि। तेष्वेकैकस्मिन्सूक्ते तिस्रस्तिस्र ऋचः। अतः संख्यासाम्यान्नवकपालस्य त्रिवृद्रूपत्वम्। त्रिवृच्च प्रजापतेर्मुखादग्निना सह जातत्वात्तेजोरूपम्। तथा सति यज्ञशिरोरूप आतिथ्ये तेजः स्थापितं भवति।

पुनरप्यनूद्य प्रशंसति —

“नवकपालः पुरोडाशो भवति ते त्रयस्त्रिकपालास्त्रिवृता प्राणेन संमितास्त्रिवृद्धै प्राणस्त्रिवृतमेव प्राणमभिपूर्वं यज्ञस्य शीर्षन्दधाति” [सं. का. ६ प्र. २ अ. १] इति।

त्रिभिः कपालैः संस्कृतः पुरोडाशस्त्रिकपालः। तादृशाश्च पुरोडाशास्त्रयः। नवसंख्यायां विभज्यमानायामेवं संपद्यते। तथा सति यत्कपालगतं त्रिवृत्त्वं यच्च पुरोडाशगतं तेन सदृशी प्राणसंख्या प्राणस्योर्ध्वाधोमध्यवृत्तिभिस्त्रिगुणत्वात्। अथवा नवसु च्छिद्रेषु वर्तमानो नवसंख्याकः प्राणः। तस्य त्रेधा विभागे सति प्रकृतनवकपालसादृश्यं भवति। तादृशं प्राणमभिपूर्वमनुक्रमेण यज्ञस्य शिरस्यातिथ्ये स्थापयति।

अस्यामातिथ्येष्टौ प्रकृतिवत्प्रस्तरस्य विधृत्योश्च कुशमयत्वे प्राप्ते तद्बाधितुं द्रव्यान्तरं विधत्ते —

“प्रजापतेर्वा एतानि पक्ष्माणि यदश्ववाला ऐक्षवी तिरश्ची यदाश्ववालः प्रस्तरो भवत्यैक्षवी तिरश्ची प्रजापतेरेव तच्चक्षुः सं भरति” [सं. का. ६ प्र. २ अ. १] इति।

पक्ष्माण्यक्षिरोमाणि। अश्ववालाः काशाख्या दर्भविशेषाः। ऐक्षवी इक्षुपत्रिके। तिरश्ची चक्षुषश्चर्मपुटिके। यथा सोमपर्णस्य पलाशवृक्षरूपेणोत्पत्तिर्यथा चाप्सु मेध्यांशो दर्भरूपेणोत्पन्नस्तथैव प्रजापतेः पक्ष्मणां चर्मपुटयोश्च काशरूपेणेक्षुपत्ररूपेण चाऽऽविर्भावोऽर्थवादान्तरे द्रष्टव्यः। एवं सति प्रशस्तत्वादत्र प्रस्तराख्यस्तृणमुष्टिराश्ववालः कर्तव्यः। तस्याधस्तात्तिर्यक्त्वेन स्थापनीये विधृती ऐक्षव्यौ कुर्यात्। तावता प्रजापतेस्तच्चक्षुः संपादितं भवति।

परिधिषु श्रीपर्णीवृक्षं विधत्ते —

“देवा वै या आहुतीरजुहवुस्ता असुरा निष्कावमादन्ते देवाः कार्ष्मर्यमपश्यन्कर्मण्यो वै कर्मैनेन कुर्वीतेति ते कार्ष्मर्यमयान्परिधीनकुर्वत तैर्वै ते रक्षास्यपाघ्नत यत्कार्ष्मर्यमयाः परिधयो भवन्ति रक्षसामपहत्यै” (सं. का. ६ प्र. २ अ. १) इति।

निष्कावं निःशब्दं चर्वणादिशब्देन देवा ज्ञास्यन्तीति मत्वा चौर्येणाभक्षयन्। कार्ष्मर्यवृक्षो रक्षोनिवारकत्वेन कर्मण्यः। तस्मात्तेनैव कर्म कुर्वीतेति मत्वा तन्मयान्परिधीनकुर्वत। तथैवान्येनापि कर्म कर्तव्यम्।

मध्यमपरिधेर्दक्षिणोत्तरपरिधिभ्यां सह संस्पर्शं विधत्ते —

“सस्पर्शयति रक्षसामन्ववचाराय” (सं. का. ६ प्र. २ अ. १) इति।

स्पर्शाभावे परिध्योः संधौ रक्षसामन्तरनुप्रवेशः स्यात्।

पूर्वस्यां दिशि रक्षःप्रवेशनिवारणाय प्रसक्तं चतुर्थपरिधिं निषेधति —

“न पुरस्तात्परि दधात्यादित्यो ह्येवोद्यन्पुरस्ताद्रक्षास्यपहन्ति” (सं. का. ६ प्र. २ अ. १) इति।

आघारसमिधोर्द्वयोराहवनीयपूर्वभागे स्थापनं विधत्ते —

“ऊर्ध्वे समिधावा दधात्युपरिष्टादेव रक्षास्यप हन्ति” (सं. का. ६ प्र. २ अ. १) इति।

यद्युप्यूर्ध्वायां दिशि रक्षसां निवारणायोपरिष्टादेव समिधौ स्थापनीये तथाऽपि व्योम्नि स्थापयितुमशक्यत्वादूर्ध्वदिशि(गग्रे) स्थापनीये।

तत्र कंचिद्विशेषं विधत्ते —

“यजुषाऽन्यां तूष्णीमन्यां मिथुनत्वाय” (सं. का. ६ प्र. २ अ. १) इति।

वीतिहोत्रं त्वा कव इति मन्त्रेण दक्षिणामादध्यात्तूष्णीमुत्तराम्। समन्त्रकामन्त्रकयोः स्त्रीपुरुषलक्षणत्वान्मिथुनत्वम्।

समित्संख्यां विधत्ते —

“द्वे आ दधाति द्विपाद्यजमानः प्रतिष्ठित्यै” (सं. का. ६ प्र. २ अ. १) इति।

द्वित्वं पादद्वयप्रतिष्ठायै भवति। ननु संस्पर्शादिविधयः प्रकृतौ दर्शपूर्णमासेष्टावपि सन्तीत्यतिदेशादेव तदनुष्ठानस्यात्र प्राप्तत्वान्न पृथग्विध्यपेक्षेति चेन्न। उपसदर्थं विधेयत्वात्। तर्हि तत्रैव विधीयतामिति चेन्न। आतिथ्योपसदोः परिध्यादिभेदं वारयितुं साधारणत्वेनात्रैव विधेयत्वात्।

या त इति। बौधायनः “अथ यजमानो नीडाद्राजानमपादत्ते या ते धामानि हविषा यजन्ति ता ते विश्वा परिभूरस्तु यज्ञमिति पूर्वया द्वारा शालां प्रपादयति गयस्फानः प्रतरणः सुवीरोऽवीरहा प्र चरा सोम दुर्यानिति” इति।

आपस्तम्बो मन्त्रैक्यं मन्यते – “या ते धामानीति पूर्वया द्वारा प्राग्वंशं प्रविश्य” इति।

हे सोम या ते धामानि त्वदीयेषु स्थानेषु प्रातःसवनादिषु हविषा यजन्ति यज्ञमुद्दिश्य ता ते विश्व त्वदीयानि तानि सर्वाणि परिभूरस्तु परितः प्राप्तवान्भव। हे सोम त्वं दुर्यान्गृहान्प्राचीनवंशरूपान्प्रचर प्राप्नुहि। कीदृशस्त्वं गयस्फानो गृहाभिवर्धकः। प्रतरणः प्रकर्षेण यज्ञपारं प्रति अस्मांस्तारयिता। सुवीरः शोभनास्त्वत्प्रसादलब्धा वीरा अस्मत्पुत्रपौत्रा यस्य तव स त्वं सुवीरः। अवीरहा यथोक्तानां वीरणामहन्ता परिपालक इत्यर्थः।

आदित्या इति। कल्पः — “अथैनामासन्दीमग्रेणाऽऽहवनीयं पर्याहृत्य दक्षिणतो निदधाति तस्यां कृष्णाजिनमास्तृणात्यदित्याः सदोऽसीत्यदित्याः सद आ सीदेति कृष्णाजिने राजानम्” इति।

वरुण इति। बौधायनः — “अथैनमुपतिष्ठते वरुणोऽसि धृतव्रतो वारुणमसीति समुच्चित्य कृष्णाजिनं तस्यान्तान्स्पन्द्यया (नासन्द्या) विग्रथ्य वंशे प्रग्रथ्नाति शंयोर्देवाना सख्यादित्यथ परावासन्दीपादावन्तरेण ब्राह्मणोऽभिषिञ्चति शूद्रः प्रक्षालयति मा देवानामपसश्छित्स्महीति” इति।

आपस्तम्बोऽत्र प्रथममन्त्रोत्तरार्धस्य द्वितीयतृतीयमन्त्रयोश्चैकतां मन्यते “वरुणोऽसि धृतव्रत इति राजानमभिमन्त्रयते, वारुणमसीति वाससा पर्यानह्यति” इति।

हे सोम त्वं वरुणपाशस्य निवारकोऽसि। धृतं यज्ञरूपं व्रतं येन त्वया स त्वं धृतव्रतः। हे सोम त्वमुपनद्धस्वरूपत्वाद्वरुणसंबन्ध्यसि। तथा सति त्वदी-

याच्छंयोः सुखमिश्राद्वरुणादिदेवानां सख्याद्वयमपसो मा च्छित्स्महि। सकारान्तोऽपःशब्दः कर्मवाची। अस्माकं कर्मविच्छेदो मा भूदित्यर्थः। या ते धामानीत्यादयो मन्त्रा ब्राह्मणेनोपेक्षिताः।

आतिथ्येष्टिमध्ये वह्निमन्थनपूर्वकमाहवनीये मथिताग्निप्रक्षेपं विधत्ते —

“ब्राह्मवादिनो वदन्त्यग्निश्च वा एतौ सोमश्च कथा सोमायाऽऽतिथ्यं क्रियते नाग्नय इति यदग्नावग्निं मथित्वा प्रहरति तेनैवाग्नय आतिथ्यं क्रियते” (सं. का. ६ प्र. २ अ. १) इति।

अग्निश्च सोमश्चेत्येतावुभावपि यागनिर्वाहकौ देवौ, तयोः साम्ये सति कथमग्नय आतिथ्यं नेति प्रश्नः। अग्निं मथित्वाऽऽहवनीये प्रहरेत्तदिदमाहवनीयाग्नेरातिथ्यम्।

मथनस्य कालं विधत्ते —

“अथो स्वल्वाहुरग्निः सर्वा देवता इति यद्धविरासाद्याग्निं मन्थति हव्यायै वाऽऽसन्नाय सर्वा देवता जनयति” (सं. का. ६ प्र. २ अ. १) इति।

अपि चैते ब्रह्मवादिनः कालविवक्षावन्तस्तदुपोद्घातत्वेन वह्नेः सर्वात्मकत्वमाहुः। तच्च सर्वदेवतात्मकत्वमेकद्वित्रितानामुत्पत्तौ विस्पष्टमाम्नातम्। यदातिथ्पपुरोडाशं वेद्यामासाद्य तस्मिन्कालेऽग्निं मथ्नीयात्तथा मथ्यमानाग्नावन्तर्भूताः सर्वा अपि देवता आसन्नहविर्मोक्तुमुत्पादिता भवन्ति तत्स एव काल इत्यर्थः। मथनमन्त्रास्त्वाध्वर्यवा अग्नीषोमीयपशुप्रस्तावे समाम्नास्यन्ते। हौत्रास्तु बह्वृचब्राह्मण आतिथ्येष्टिसमीपे एवोदाहृताः।

आपतय इति। कल्पः — “अथैतद्ध्रौवमाज्यमाप्याय्य कसं वा चमसं वा याचति तमन्तर्वेदि निधाय तस्मिन्नेतत्तानूनप्त्रं समवद्य विगृह्णाति आपतये त्वा गृह्णामि परिपतये त्वा गृह्णामि तनूनप्त्रे त्वा गृह्णामि शाक्वराय त्वा गृह्णामि शक्मन्नोजिष्ठाय त्वा गृह्णामीति” इति।

आपतिर्निश्वासरूपेण बहिर्गतः पुनराभिमुख्येनान्तः पततीत्यापतिः प्राणः। हे आज्य प्राणार्थं त्वामस्मिन्पात्रे गृह्णामि। परितो नानाविषयेषु पततीति परिपतिर्मनः। तनूं शरीरं न पातयति न विनाशयतीति तनूनप्ता जाठरोऽग्निः। शकनशीलः शक्वरः शक्तिमान्पुरुषस्तस्य संबन्धि शाक्वरं शक्तिस्वरूपम्। शक्मञशक्तिमत्सु यदोजिष्ठं तस्मै ओजो नामाष्टमो धातुस्तस्य सारमोजिष्ठम्। तदवष्टम्भेनैव शक्तिरवतिष्ठते। एतैर्मन्त्रैस्तानूनप्त्रं ग्राह्यम्।

तनूनप्तृसंज्ञकजाठरवह्निविषयस्य शपथकर्मणो हेतुभूतमाज्यं तानूनप्त्रं तस्य ग्रहणं विधातुं प्रस्तौति —

“देवासुराः संयत्ता आसन्ते देवा मिथो विप्रिया आसन्तेऽन्योऽन्यस्मै ज्यैष्ठ्यायातिष्ठमानाः पञ्चधा व्यक्रामन्नग्निर्वसुभिः सोमो रुद्रैरिन्द्रो मरुद्भिर्वरुण आदित्यैर्बृहस्पतिर्विश्वैर्देवैस्तेऽमन्यन्तासुरेभ्यो वा इदं भ्रातृव्येभ्यो रध्यामो यन्मिथो विप्रियाः स्मो या न इमाः प्रियास्तनुवस्ताः समवद्यामहै ताभ्यः स निच्छाद्यो नः प्रथमोऽन्योऽन्यस्मै द्रुह्यादिति तस्माद्यः सतानूनाप्त्रिणां प्रथमो द्रुह्यति स आर्तिमार्च्छति” (सं. का. ६ प्र. २ अ. १) इति।

संयत्ताः संग्रामं प्राप्ताः। मिथः परस्परं ते च देवाः सर्वेऽपि स्वातिरिक्तस्य ज्यैष्ठ्यमनङ्गीकुर्वाणाः पञ्चव्यूहा अभवन्। तेषु व्यूहेष्वग्न्यादयः पञ्च देवाः सेनान्यो वस्वादयः पञ्च गणाः। ततस्ते कंचित्कालं परस्परविरोधिनो भूत्वा पश्चादेवं विचारितवन्तो यदि वयमन्योन्यविरोधिनस्तदा वैरिणामसुराणामिदं जयरूपं कार्यं वयमेव साधयामः। ततस्तद्विरोधपरिहारहेतुं शपथं कर्तुमस्मदीयाः प्रियाः पुत्रभार्यादिरूपा इमास्तनूरेकत्र संघी कुर्म इति विचार्य संघीकृत्य शपथमेवं परिभाषितवन्तः। अस्माकं मध्ये यः प्रथमं द्रुह्यति स ताभ्यस्तनूभ्यो निर्गच्छेन्निर्भ्रष्टो भवत्विति। यस्माद्देवानामेवं वृत्तं तस्मान्मनुष्याणामपि शपथं कृतवतां मध्ये यः प्रथमं द्रुह्यति स विनाशं प्राप्नोति। समान एकस्मिन्विषये तानूनप्त्रिणः शपथवन्तः सतानूनप्त्रिणः।

इदानीं विधत्ते —

“यत्तानूनप्त्र समवद्यति भ्रातृव्याभिभूत्यै भवत्यात्मना पराऽस्य भ्रातृव्यो भवति” (सं. का. ६ प्र. २ अ. २) इति।

समवद्यति संभूयावदानं कुर्यात्। स्वयं भूतिमान्भवति वैरी तु पराभवति। इयमेव भ्रतृव्याभिभूतिः।

अवदानसंख्यां विधत्ते —

“पञ्च कृत्वोऽव द्यति पञ्चधा हि ते तत्समवाद्यन्ताथो पञ्चाक्षरा पङ्क्तिः पाङ्क्तो यज्ञो यज्ञमेवाव रुन्धे” (सं. का. ६ प्र. २ अ. २) इति।

ते देवास्तत्तदानीं पञ्चधा विभक्ताः पश्चात्संभूयैकवत्प्रियतनूनवाद्य[न्त] स्थापितवन्तः।

मन्त्रान्व्याचष्टे —

“आपतये त्वा गृह्णामीत्याह प्राणो वा आपतिः प्राणमेव प्रीणाति परिपतय इत्याह मनो वै परिपतिर्मन एव प्रीणाति तनूनप्त्र इत्याह तनुवो हि ते ताः समवाद्यन्त शाक्वरायेत्याह शक्त्यै हि ते ताः समवाद्यन्त शक्मन्नोजिष्ठायेत्याहौजिष्ठ हि ते तदात्मनः समवाद्यन्त” (सं. का. ६ प्र. २ अ. २) इति।

[आपतिपरिपतितनूनप्तृशाक्वरशक्मन्नोजिष्ठशब्दैर्देववृत्तान्तः सूच्यते]।

तनूशाक्वरौजिष्ठशब्दैर्देव[वा]वृत्तान्तः सूच्यते। ते देवास्तदानीं स्वात्मसंबन्धं पुत्रादितनुरूपमोजः सारं समवाद्यन्त।

अनाधृष्टमिति। कल्पः – “यावन्त ऋत्विजस्त एतत्समवमृशन्ति अनाधृष्टमस्यनाधृष्यं देवानामोजोऽभिशस्तिपा अनमिशस्तेन्यमिति” इति।

हे तानूनप्त्राऽऽज्य त्वमितः पूर्वं केनाप्यतिरस्कृतमसि। इतः परमप्यतिरस्कार्यं देवानामोजः सारमसि। अभिशस्तेर्हिंसारूपादन्योन्यविरोधादस्मान्पालयसि। त्वं पुनरिभशस्तेरविषयभूतमसि।

मन्त्रस्य यथोक्तार्थः प्रसिद्ध इत्याह —

“अनाधृष्टमस्यधृष्यमित्याहाधृष्ट ह्येतदनाधृष्यं देवानामोज इत्याह देवाना ह्येतदोजोऽभिशस्तिपा अनभिशस्तेन्यमित्याहाभिशस्तिपा ह्येतदनभिशस्तेन्यम्” (सं. का. ६ प्र. २ अ. २) इति।

अन्विति। कल्पः — “यजमानमतिवाचयति अनु मे दीक्षां दीक्षापतिर्मन्यतामनु तपस्तपस्पतिरञ्जसा सत्यमुप गेष सुविते मा धा इति” इति।

दीक्षणीयेष्टौ यो देवः स दीक्षापतिर्ममेमां दीक्षामनुजानातु। तप उपसत्तत्रत्यो देवो मदीयं तपोऽनुजानातु। अहं चाञ्जसा सत्यमुपगेषमार्जवेन तानूनप्त्रस्पर्शनरूपं शपथं प्राप्तोऽस्मि। हे तानूनप्त्र मां सुविते शोभनमार्गे यज्ञकर्मणि स्थापय।

मन्त्रस्य स्पष्टार्थतामाह —

‘अनु मे दीक्षां दीक्षापतिर्मन्यतामित्याह यथायजुरेवैतत्’ (सं. का. ६ प्र. २ अ. २) इति।

अत्र विनियोगसंग्रहः —

“अग्नेः पञ्चकनिर्वापो या ते प्राग्वंशवेशनम्।

अद्यासन्द्यां क्षिपेच्चर्म ह्यदि सोमं तु सादयेत्॥१॥

वरु तं मन्त्रयेद्वारु वाससा परिणह्यति।

आप तानूनप्त्रमाज्यं समवद्यति पञ्चभिः॥२॥

अना सर्व ऋत्विजस्तु तानूनप्त्रं स्पृशन्ति हि।

अनु स्वामी स्पृशेदेतदिति सप्तदशेरिताः॥३॥” इति।

अथ मीमांसा।

सप्तमाध्यायस्य तृतीयपादे चिन्तितम् —

“वैष्णवे त्रिकपाले वैष्णवान्नवकपालतः।

धर्मातिदेशः स्यान्नो वा विद्यतेऽत्राग्निहोत्रवत्॥

श्रुत्या वैष्णवशब्दोऽयं देवताया विधायकः।

न गौणवृत्तिमाश्रित्य धर्मानतिदिशत्यतः” इति।

आतिथ्येष्टौ वैष्णवो नवकपालो विहितः। तत्र श्रुत्या वैष्णवशब्दो राजसूयगते वैष्णवे त्रिकपाले प्रयुज्यमानोऽग्निहोत्रवन्नवकपालधर्मानतिदिशतीति पूर्वः पक्षः। विष्णुर्देवताऽस्येति विग्रहे सति विहितस्तद्धितप्रत्ययो देवतामभिधत्ते न तु धर्मान्। तस्मान्नातिदिशति।

चतुर्थाध्यायस्य द्वितीयपादे चिन्तितम् —

“यदातिथ्याबर्हिरेतदुपसत्स्वतिदेशनम्।

साधारण्यविधिर्वाऽऽद्यस्तदीयस्योपसंहृतेः॥

बर्हिःश्रुत्यैकताभानान्नातिदेशस्य लक्षणा।

आतिथ्ययोपसद्भिश्च बर्हिरेतत्प्रयुज्यते” इति।

ज्योतिष्टोमे श्रूयते – “यदातिथ्यं बर्हिस्तदुपसदां तदग्नीषोमीयस्य च” इति। क्रीतं सोमं शकटेऽवस्थाप्य प्राचीनवंशं प्रत्यानीयमानेऽभिमुखे यामिष्टिं निर्वपति सेयमातिथ्या। तत ऊर्ध्वं त्रिषु दिनेष्वनुष्ठीयमाना उपसदः। औपवसथ्ये दिनेऽनुष्ठेयोऽग्नीषोमीयः। तत्राऽऽतिथ्येष्टौ विहितं यद्बर्हिस्तद्यदि तस्या इष्टेराच्छिद्योपसत्सु विधीयेत तदानीमातिथ्यायां विधानमनर्थकं स्यात्। यदि च तत्रोपयुक्तमितरत्र विधीयेत विनियुक्तविनियोगरूपो विरोधः स्यात्। तस्मादातिथ्यबर्हिषो ये धर्मा आश्ववालत्वादयस्ते धर्मा उपसत्सूपसंह्रियन्त इत्यतिदेशपरं वाक्यमिति प्राप्ते ब्रूमः। बर्हिःशब्दस्य धर्मातिदेशपरत्वे लक्षणा प्रसज्येत। श्रुत्या तु बर्हिषु आतिथ्योपसदग्नीषोमीयेषु एकत्वं प्रतिभाति। अतः साधारण्यमत्र विधेयम्। आतिथ्यर्थं यद्बर्हिरुपादीयते तन्न केवलमातिथ्यार्थं किंतूपसदर्थमग्नीषोमीयार्थं चोपादेयमिति विधिवाक्यार्थः। तस्मादातिथ्योपसदग्नीषोमीयास्त्रयोऽप्यस्य बर्हिषः प्रयोजकाः। एवं परिधिसंस्पर्शादिविधीनां साधारण्यं द्रष्टव्यम्।

अथ च्छन्दः —

या ते धामानीति त्रिष्टुप्॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये प्रथमकाण्डे द्वितीयप्रपाठके दशमोऽनुवाकः॥१०॥
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 आतिथ्यं निर्वपति - अग्नेरातिथ्यमसीत्यादिभिः ॥ 'अतिथिरभ्यतितो गृहाद्भवति' इति यास्कः । अतेरिथिन् । अतिथये इदमातिथ्यम् ॥ 'अतिथेर्ञ्यः' । अत्र सर्वदेवतात्मनो विष्णोरंशभूता एते अग्न्यादयो राज्ञि गृहमागते आगता भवन्ति । ते च केवलं निर्वपणविशेषणतयोपादीयन्ते । यथा - 'यदग्नावग्निं मथित्वा प्रहरति तेनैवाग्नय आतिथ्यं क्रियते' इति । अत्र नाग्नेर्हविषा सम्बन्धः । एवमेते अग्न्यादयो न हविर्भजन्ते, विष्णोरेव केवलस्य सर्वदेवतासमष्टिरूपस्य हविषा सम्बन्धः । ननु निर्वपणमन्त्रेष्वग्न्यादयोपि प्रतीयन्ते, तत्कथं केवलं विष्णुस्स्यात् हविषस्सम्बन्धी? उच्यते - अग्न्यादिग्रहणस्योपलक्षणार्थत्वादन्येषामपि राज्ञा सहागतानामतिथीनाम्, अत्रागतानां मध्ये कौश्चिन्निर्वापः क्रियत इति । अत्र हि ब्राह्मणम् 'यावद्भिर्वै राजानुचरैरागच्छति सर्वेभ्यो वै तेभ्य आतिथ्यं क्रियते' इत्युक्त्वा 'अग्नेरातिथ्यमसि विष्णवे त्वेत्याह गायत्रिया एवैतेन करोति' इत्यदिना अग्न्यादीनामुपलक्षणभूतानां हविषा सम्बन्धो नास्तीति प्रतिपादयति । तत्राग्न्यादयस्तिस्रो देवताः विष्णुना व्यधिकरणभूता निर्दिष्टाः; अन्ये तु सामानाधिकरण्येन, आतिथ्यपदं च तयोर्मन्त्रयोर्नास्ति । तत्र वैचित्र्यकारणं मृग्यम् । मन्त्रार्थस्तु - निरुप्यमाणं द्रव्यमुच्यते । अग्नेरग्न्यात्मनो विष्ण्वंशस्यातिथ्यमतिथिप्रयुक्तं निर्वाप्यं त्वमसि, तत्त्वां विष्णवे हविष्मते निर्वपामि ॥
2 सोमस्य सोमलतात्मनो विष्ण्वंशस्य । शेषं समानम् ॥

अतिथिरतनशीलः यतस्सर्वदा गच्छति आदित्य उच्यते; वायुर्वा । समानमन्यत् ॥

4 रायस्पोषदावा नामाग्निविशेषः, तदात्मने विष्णवे त्वां निर्वपामि । रायो धनस्य पोषो रायस्पोषः । छान्दसष्षष्ठ्या अलुक्, 'षष्ठ्याः पतिपुत्र' इति सत्वम् । तं ददातीति । 'आतो मनिन्' इति वनिप्, कृदुत्तरपदप्रकृतिस्वरत्वम् ॥
5 श्येनस्सोमभृद्देवताविशेषः । गायत्रीत्येके ॥ श्येनश्शंसनीय इत्याहुः । श्येनात्मा वा सोमं बिभर्तीति सोमभृत् । गायत्रीपक्षे सोमं हरतीति सोमभृत् । 'हृग्रहोर्भश्छन्दसि' इति भत्वम् ॥
6 यजमानस्सोममादत्ते - या त इति त्रिष्टुभार्धर्चेन ॥ हे सोम या यानि तव धामानि स्थानानि नामानि जन्मानि वा हविषा यजन्ति ता तानि विश्वान्यपि धामानि परिभूः परितो भावयिता रक्षिता अस्तु । कः? भवान् । यद्वा - पुरुषव्यत्ययः एधीत्यर्थः । यज्ञं चं परिभूरस्तु । 'ततोन्यत्रापि दृश्यते' इति द्वितीया । तसिप्रत्ययान्तो वा । तत्र 'अभितः परितस्समयानिकषाहाप्रतियोगेष्वपि दृश्यते' इति द्वितीया । यद्वा - लक्षणे परेः कर्मप्रवचनीयसंज्ञा । 'कर्मप्रवचनीयानां प्रतिषेधः' इत्येतद्बाधित्वा व्यत्ययेन समासः ॥
7 शालां प्रवेशयति - गयस्फान इति द्वितीयेनार्धर्चेन ॥ गय इति गृहनाम । गयानां गृहाणां स्फायिता वर्धयिता गयस्फानः । ओ स्फयी वृद्धौ 'कृत्यल्युटो बहुळम्' इति कर्तरि ल्युट्, धातोरन्त्यलोपश्छान्दसः । आकारान्तं धात्वन्तरं वा द्रष्टव्यम् । प्रतरणः प्रकर्षेण दुर्गेभ्यस्तारयिता । सुवीरश्शोभनैः पुत्रपौत्रादिभिरस्मदीयैस्तद्वान् । 'वीरवीर्यौ च' इत्युत्तरपदाद्युदात्तत्वम् । अवीरहा कस्यचिदप्यस्मदीयस्य पुत्रपौत्रादेरहन्ता सर्वदा प्रसन्न एव सन्, हे सोम दुर्यान् प्राग्वंशदीन् गृहान् प्रचर प्रकर्षेण प्रविश्य चर ॥
8 -9कृष्णाजिनस्तरणसोमस्थापनमन्त्रौ व्याख्यातौ अदित्यास्सद इति ॥
10 सोममुपतिष्ठते - वरुणोसीति गायत्र्यैकपदया यजुरन्तया ॥ हे सोम वरुणस्त्वमसि वरणीयत्वात् । वृतत्वाद्वा; वाससा आच्छादितत्वात् । 'वरुणो वा एष यजमानमभ्यैति यत्क्रीतस्सोम उपनद्धः' इति ब्राह्मणम् । धृतव्रतः धृतकर्मा धारणत्वात्कर्मणाम् । वारुणं वरुणस्य तव यत्स्वभूतां द्रव्यमिति सर्वं त्वमेव त्वदधीनत्वात् ॥
11 वंशे बध्नाति - शंयोरिति ॥ शं च योश्च देवानां भव । समाहारद्वन्द्वः, छान्दसं पुल्लिङ्गत्वम् । विद्यमानानां रोगादीनां शामनं शम् । आगामिनां यावनं पृथक्करणं उत्पत्तिनिरोधः योः । उभयत्रापि शाम्यतेर्यौतेश्च विच् ॥
12 सोमस्य पादौ प्रक्षाळयति - सख्यान्मा देवानामिति ॥ देवानां सम्बन्धि यत् अपः कर्म ततः सख्याच्च तत एव हेतोः मा छिथ्स्महि विच्छिन्ना मा भूम । 'सख्युर्यः' ॥
13 तानूनप्त्रं गृह्णाति - आपतय इति ॥ आवृत्त्या आभिमुख्येन वा पतति पातीति वा आपतिः प्राणः । 'प्राणो वा आपतिः' इति च ब्राह्मणम् । अव्ययपूर्वपदप्रकृतिस्वरत्वम् । तस्मै तदविनाशाय त्वां गह्णामि ध्रुवातः स्रुवेण गृह्णामि ॥
14 हे आज्य परितः सवर्तः पाति पततीति वा परिपतिः मनः । पातेर्डतिः । पतेः 'इन् सर्वधातुभ्यः' इति इन् । 'मनो वै परिपतिः' इति च ब्राह्मणम् । तस्मै त्वां गृह्णामि ॥
15 तनूनामपां नप्ता चतुर्थः तनूनप्ता अग्निः शरीरस्थः । तस्मै गृह्णामि । वनस्पत्यादित्वात्पूर्वोत्तरपदयोः युगापत्प्रकृतिस्वरत्वम् ॥
16 शाक्वराय शक्त्यै । शकनशीलः शक्वरः तस्य भावश्शाक्वरं शक्तिरेव । 'शक्त्यै हि ते तास्समवाद्यन्त' इति च ब्राह्मणम् । तस्मै गृह्णामि ॥
17 शक्मन्न् शक्मेषु जातावेकवचनम् । शकेर्मनिन्, 'सुपां सुलुक्' इति ङेर्लुक्, 'न ङिसम्बुद्ध्योः' इति नलोपप्रतिषेधः । शक्तानां मध्ये ओजिष्ठाय अतिशयेन बलवते प्राणाय त्वां गृह्णामि । ओजस्विशब्दादिष्ठनि 'विन्मतोर्लुक्', 'टेः' इति टिलोपः । अयमेककार्यानुवृत्त्यर्थं समयः क्रियते । यद्येवं समयो न क्रियेत तदा परस्पराभिप्रायेणा द्रोहेण विप्रतिपद्यमाना यागं न कुर्युः । अतस्तन्मा भूदिति तानूनप्त्रं गृह्यते ॥
18 अवमृशाति - अनाधृष्टमसीति ॥ आज्यमुच्यते । अनाधृष्टं केनचिदप्यनभिमूतमसि । अनाधृष्यं केनचिदप्यभिभवितुमशक्यं चासि । 'ऋदुपधाच्चाकॢपिचृतेः' इति क्यप्, 'ययतोश्चातदर्थे' इत्युत्तरपदान्तोदात्तत्वम् । देवानामोजो बलं चासि । त्वया हि देवा ऋत्विजो बलवन्तो यजन्ते । यद्वा - त्व्या हि देवा इन्द्रादयो बलवन्तो भवन्ति । अभिशस्तिपाः अभिशस्तिरभिशंसनमभिशापः अतस्त्वं पासि । विचि लिङ्गव्यत्ययः । अनभिशस्तेन्यं अनभिशंसनीयं केनचिदपि नाभिशंस्यते न दूष्यत इत्यर्थः । एन्यप्रत्ययस्तुडागमश्च उत्तरपदान्तोदात्तत्वं च छन्दसि । [यद्वा?] अभिशस्तेन योगं नार्हति इत्यनभिशस्तेन्यम् । 'छन्दसि च' इति यः, विभक्तेर्लुगभावश्छान्दसः, योगं नार्हतीत्यर्थे तद्धतिः, 'ययतोश्चातदर्थे' इत्युत्तरपदान्तोदात्तत्वम् । यद्वा - अभिशंसनं अभिशस्तं तन्नार्हतीति एन्यप्रत्ययश्छान्दसः 'नञो गुणप्रतिषेधे' इत्युत्तरपदान्तोदात्तत्वम् । ईदृशं त्वमसीत्याज्यस्तुतिः ॥
19 यजमानं वाचयति - अन्विति ॥ दीक्षापतिर्विष्णुस्स मम दीक्षामनुमन्यतां अनुजानातु । 'पत्यावैश्वर्ये' इति पूर्वपदप्रकृतिस्वरत्वम् । तपः उपसत् तस्य पतिस्तपस्पतिरग्निः । सोपि मम तपोनुमन्यताम् । अञ्जसा ऋजुना आशास्येन सत्यं समयं तानूनप्त्राभिमर्शनेन उपगेषं उपसम्प्राप्तोस्मि । अत एतद्विज्ञाय मां सुविते धाः धेहि स्थापय हे आज्य सुविते सूतौ अपत्ये मां धेहि अपत्यवन्तं मां कुरु । छान्दस इडागमः । यद्वा - सुविते । स्विते सुष्ठुप्राप्ते अस्मत्प्राप्ते अस्मत्पूर्वचरिते यज्ञे वा मां धेहि । स्थाने वा सुखवति अस्मर्त्पूवेरिते मां स्थापय । 'तन्वादीनां । बहुळं छन्दसि' इत्युवङादेशः, 'सूपमानात्क्तः' इत्युत्तरपदान्तोदात्तत्वम् । अन्य आहुः - अञ्जसा ऋजुना यथाशस्त्रीयेण सत्यं सति साधु परानिन्दात्मकं वस्तु उपगेषं उपगतो भूयासम् । तदर्थमामन्त्रिते श्रेयोर्थिभिस्सुष्ठु सेविते सुष्ठु ज्ञाते वा पथि मां ज्ञा[स्था]पयतेति । अस्मिन्पक्षे इणो गादेशश्छान्दसः, आशिषि लिङ्, 'लिङ्याशिष्यङ्', 'आतो लोपः', यासुट्, 'अतो येयः', आर्धधातुकत्वात्सलोपाभावः, बहुळवचनाद्यलोपः । पूर्वस्मिन् पक्षे लुङि 'इणो गा लुङि' इति गादेशः, छान्दसः इत्वं विकारः, व्यत्ययेन 'गातिस्था' इति न प्रवर्तते, 'बहुळं छन्दस्यमाङ्योगेपि' इत्यडभावः ॥
इति द्वितीये प्रपाठके दशमोनुवाकः ॥
पञ्चशत् 2 #
TS 1.2.10.2 TS 1.2.10.2
सी॑द॒ वरु॑णोऽसि धृ॒तव्र॑तो वारु॒णम॑सि शं॒ॅयोर् दे॒वानाꣳ॑ स॒ख्यान्मा दे॒वाना॑-म॒पस॑-श्छिथ्स्म॒ह्याप॑तये त्वा गृह्णामि॒ परि॑पतये त्वा गृह्णामि॒ तनू॒नप्त्रे᳚ त्वा गृह्णामि शाक्व॒राय॑ त्वा गृह्णामि॒ शक्म॒न्नोजि॑ष्ठाय त्वा गृह्णा॒म्य-ना॑धृष्टमस्य-नाधृ॒ष्यं दे॒वाना॒मोजो॑- ऽभिषस्ति॒पा अ॑नभिशस्ते॒ऽन्यमनु॑ मे दी॒क्षां दी॒क्षाप॑तिर् मन्यता॒मनु॒ तप॒स्तप॑स्पति॒रञ्ज॑सा स॒त्यमुप॑ गेषꣳ सुवि॒ते मा॑ ( ) धाः ॥
पदपाठः (Word-by-word)
सी॒द॒ । वरु॑णः । अ॒सि॒ । धृ॒तव्र॑त॒ इति॑ धृ॒त - व्र॒तः॒ । वा॒रु॒णम् । अ॒सि॒ । शं॒योरिति॑ शं - योः । दे॒वाना᳚म् । स॒ख्यात् । मा । दे॒वाना᳚म् । अ॒पसः॑ । छि॒थ्स्म॒हि॒ । आप॑तय॒ इत्या - प॒त॒ये॒ । त्वा॒ । गृ॒ह्णा॒मि॒ । परि॑पतय॒ इति॒ परि॑ - प॒त॒ये॒ । त्वा॒ । गृ॒ह्णा॒मि॒ । तनू॒नप्त्र॒ इति॒ तनू᳚ - नप्त्रे᳚ । त्वा॒ । गृ॒ह्णा॒मि॒ । शा॒क्व॒राय॑ । त्वा॒  । गृ॒ह्णा॒मि॒  । शक्मन्न्॑ । ओजि॑ष्ठाय । त्वा॒ । गृ॒ह्णा॒मि॒ । अना॑धृष्ट॒मित्यना᳚ - धृ॒ष्ट॒म् । अ॒सि॒ । अ॒ना॒धृ॒ष्यमित्य॑ना - धृ॒ष्यम् । दे॒वाना᳚म् । ओजः॑ । अ॒भि॒श॒स्ति॒पा इत्य॑भिशस्ति - पाः । अ॒न॒भि॒श॒स्ते॒न्यमित्य॑नभि - श॒स्ते॒न्यम् । अन्विति॑ । मे॒ । दी॒क्षाम् । दी॒क्षाप॑ति॒रिति॑ दी॒क्षा - प॒तिः॒ । म॒न्य॒ता॒म् । अन्विति॑ । तपः॑ । तप॑स्पति॒रिति॒ तपः॑ - प॒तिः॒ । अञ्ज॑सा । स॒त्यम् । उपेति॑ । गे॒ष॒म् । सु॒वि॒ते । मा॒ ( ) । धाः॒ ॥
पदसंख्या: 51