अनुवाकः 3 TS 1.2.3

(A3)

( आ त्वꣳ-हयो॑ऽसि॒ मम॒ भोगा॑य भव-स्य॒-पञ्च॑विꣳशतिश्च )

अनुवाकः 3 - Complete Audio

TS 1.2.3 - स्वरानुगामी

0:00 0:00
PS1.1 दैवीं॒ धियं॑ मनामहे सुमृडी॒का-म॒भिष्ट॑ये
PS1.2 वर्चो॒धां ॅय॒ज्ञ्वा॑हसꣳ सुपा॒रा नो॑
PS1.3 अस॒द् वशे᳚
PS1.4 ये दे॒वा मनो॑जाता मनो॒युजः॑
PS1.5 सु॒दक्षा॒ दक्ष॑पितार॒स्ते नः॑ पान्तु॒
PS1.6 ते नो॑ऽवन्तु॒ तेभ्यो॒ नम॒स्तेभ्यः॒
PS1.7 स्वाहाऽग्ने॒ त्वꣳ सु जा॑गृहि
PS1.8 व॒यꣳ सु म॑न्दिषीमहि गोपा॒य
PS1.9 नः॑ स्व॒स्तये᳚ प्र॒बुधे॑ नः॒
PS1.10 पुन॑र्ददः
PS1.11 त्वम॑ग्ने व्रत॒पा अ॑सि दे॒व
PS1.12 आ मर्त्ये॒ष्वा
PS1.13 त्वं - [ ]
PS2.1 ॅय॒ज्ञेष्वीड्यः॑
PS2.2 विश्वे॑ दे॒वा अ॒भि मामाऽव॑वृत्रन्
PS2.3 पू॒षा स॒न्या सोमो॒ राध॑सा
PS2.4 दे॒वः स॑वि॒ता वसो᳚र्वसु॒दावा॒ रास्वेय॑थ्
PS2.5 सो॒मा ऽऽ*भूयो॑ भर॒ मा
PS2.6 पृ॒णन् पू॒र्त्या वि रा॑धि॒
PS2.7 माऽहमायु॑षा च॒न्द्रम॑सि॒ मम॒ भोगा॑य
PS2.8 भव॒ वस्त्र॑मसि॒ मम॒ भोगा॑य
PS2.9 भवो॒स्राऽसि॒ मम॒ भोगा॑य भव॒
PS2.10 हयो॑ऽसि॒ मम॒ भोगा॑य भव॒
PS2.11 - [ ]
PS3.1 छागो॑ऽसि॒ मम॒ भोगा॑य भव
PS3.2 मे॒षो॑ऽसि॒ मम॒ भोगा॑य भव
PS3.3 वा॒यवे᳚ त्वा॒ वरु॑णाय त्वा॒
PS3.4 निर्.ऋ॑त्यै त्वा रु॒द्राय॑ त्वा॒
PS3.5 देवी॑रापो अपां नपा॒द्य ऊ॒र्मिर्.
PS3.6 ह॑वि॒ष्य॑ इन्द्रि॒यावा᳚न् म॒दिन्त॑म॒स्तं ॅवो॒
PS3.7 माऽव॑ क्रमिष॒मच्छि॑न्नं॒ तन्तुं॑ पृथि॒व्या
PS3.8 अनु॑ गेषं भ॒द्राद॒भि श्रेयः॒
PS3.9 प्रेहि॒ बृह॒स्पतिः॑ पुरए॒ता ते॑
PS3.10 अ॒स्त्वथे॒मव॑ स्य॒ ( )
PS3.11 वर॒ आ पृ॑थि॒व्या आ॒रे
PS3.12 शत्रू᳚न् कृणुहि॒ सर्व॑वीर॒ एदम॑गन्म
PS3.13 देव॒यज॑नं पृथि॒व्या विश्वे॑ दे॒वा
PS3.14 यदजु॑षन्त॒ पूर्व॑ ऋख्सा॒माभ्यां॒ ॅयजु॑षा
PS3.15 स॒न्तर॑न्तो रा॒यस्पोषे॑ण॒ समि॒षा म॑देम

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 1.2.3.1 TS 1.2.3.1
दैवीं॒ धियं॑ मनामहे सुमृडी॒का-म॒भिष्ट॑ये वर्चो॒धां ॅय॒ज्ञ्वा॑हसꣳ सुपा॒रा नो॑ अस॒द् वशे᳚ । ये दे॒वा मनो॑जाता मनो॒युजः॑ सु॒दक्षा॒ दक्ष॑पितार॒स्ते नः॑ पान्तु॒ ते नो॑ऽवन्तु॒ तेभ्यो॒ नम॒स्तेभ्यः॒ स्वाहाऽग्ने॒ त्वꣳ सु जा॑गृहि व॒यꣳ सु म॑न्दिषीमहि गोपा॒य नः॑ स्व॒स्तये᳚ प्र॒बुधे॑ नः॒ पुन॑र्ददः । त्वम॑ग्ने व्रत॒पा अ॑सि दे॒व आ मर्त्ये॒ष्वा । त्वं - [ ]
पदपाठः (Word-by-word)
दैवी᳚म् । धिय᳚म् । म॒ना॒म॒हे॒ । सु॒मृ॒डी॒कामिति॑ सु - मृ॒डी॒काम् । अ॒भिष्ट॑ये । व॒र्चो॒धामिति॑ वर्चः - धाम् । य॒ज्ञ्वा॑हस॒मिति॑ य॒ज्ञ् - वा॒ह॒स॒म् । सु॒पा॒रेति॑ सु - पा॒रा । नः॒ । अ॒स॒त् । वशे᳚ ॥ ये । दे॒वाः । मनो॑जाता॒ इति॒ मनः॑ - जा॒ताः॒ । म॒नो॒युज॒ इति॑ मनः - युजः॑ । सु॒दक्षा॒ इति॑ सु - दक्षाः᳚ । दक्ष॑पितार॒ इति॒ दक्ष॑- पि॒ता॒रः॒ । ते । नः॒ । पा॒न्तु॒ । ते । नः॒ । अ॒व॒न्तु॒ । तेभ्यः॑ । नमः॑ । तेभ्यः॑ । स्वाहा᳚ । अग्ने᳚ । त्वम् । स्विति॑ । जा॒गृ॒हि॒ । व॒यम् । स्विति॑ । म॒न्दि॒षी॒म॒हि॒ । गो॒पा॒य । नः॒ । स्व॒स्तये᳚ । प्र॒बुध॒ इति॑ प्र - बुधे᳚ । नः॒ । पुनः॑ । द॒दः॒ ॥ त्वम् । अ॒ग्ने॒ । व्र॒त॒पा इति॑ व्रत - पाः । अ॒सि॒ । दे॒वः । एति॑ । मर्त्ये॑षु । आ ॥ त्वम् ।
पदसंख्या: 50
सायणभाष्यम् (Sayana Commentary)

[अथ प्रथमकाण्डे द्वितीयप्रपाठके तृतीयोऽनुवाकः]

द्वितीयेऽनुवाके दीक्षा वर्णिता। दीक्षितेन देवयजने स्वीकृते सति सोमक्रयणादिरूपः क्रतुव्यवहारस्तत्र कर्तुं शक्यत इति तृतीयेऽनुवाके देवयजनस्वीकारो वर्ण्यते। तत्स्वीकारादूर्ध्वं सोमार्थे देवयजने सोमक्रयस्यैव वक्तुमुचितत्वात्तत्स्वीकारात्पूर्वमनुवाकादौ व्रतपानद्रव्यसंपादनमभिधीयते।

दैवीमिति। बौधायनः – “अथाप आचामति दैवीं धियं मनामहे सुमृडीकामभिष्टये वर्चोधां यज्ञवाहस सुपारा नो असद्वश इति” इति।

आपस्तम्बः – “दैवीं धियं मनामह इति हस्ताववनिज्य” इति।

अभीष्टार्थसिद्धये वयं देवताविषयां कर्मानुष्ठानबुद्धिमनया बुद्ध्या संपादयामः। कीदृशीं बुद्धिम्। समृडीकां सुखहेतुं ब्रह्मचर्यसाधारणहेतुं यज्ञनिर्वाहिकाम्। सेयं बुद्धिः सुष्ठु पारं गताऽस्माकं वशे भवतु।

सुमृडीकामिति पदस्याभिप्रायमाह —

“दैवीं धियं मनामह इत्याह यज्ञमेव तन्म्रदयति” (सं. का. ६ प्र. १ अ. ४) इति।

मृदू करोतीत्यर्थः।

सुपारेति पदेन यत्सूचितं तदाह —

“सुपारा नो असद्वश इत्याह व्युष्टिमेवावरुन्धे” (सं. का. ६ प्र. १ अ. ४) इति।

व्युष्टिः सुप्रभातं कृत्स्नयज्ञप्रकाशनमित्यर्थः।

य इति। कल्पः — “अथास्मै कसे वा चमसे वा निषिच्य व्रतं प्रयच्छति तद्दक्षिणतः परिश्रित्य व्रतयति ये देवा मनोजाता मनोयुजः सुदक्षा दक्षपितारस्ते नः पान्तु ते नोऽवन्तु तेभ्यो नमस्तेभ्यः स्वाहेति” इति।

चक्षुरादिप्राणाभिमानिनो ये देवाः सन्ति तेऽस्मान्पयःपानरूपव्रतानुष्ठायिनोऽन्तर्बहिश्च शुद्धिसंपादनेन पालयन्तु। कीदृशा देवाः। उत्पत्तिकाले मनसा सहोत्पन्नाः। व्यवहारकालेऽपि मनसा युज्यन्ते। अन्यमनस्कस्य चक्षुरादिभिः संनिहितविषयाणामप्यनवगमात्। सति तु मनःसाहाय्ये स्वस्वविषयेषु सुदक्षाः कुशलाः। दक्षः प्रजापतिरुत्पादको येषां ते दक्षपितारः।

विचारपुरःसरं व्रतं विधत्ते —

“ब्रह्मवादिनो वदन्ति होतव्यं दीक्षितस्य गृहा३इ न होतव्या३मिति हविर्वै दीक्षितो यज्जुहुयाद्यजमानस्यावदाय जुहुयाद्यन्न जुहुयाद्यज्ञपरुरनन्तरियाद्ये देवा मनोजाता मनोयुज इत्याह प्राणा वै देवा मनोजाता मनोयुजस्तेष्वेव परोक्षं जुहोति तन्नेव हुतं नेवाहुतम्” (सं. का. ६ प्र. १ अ. ४) इति।

दीक्षितस्य हविष्ट्वमर्थवादान्तरे श्रूयते —

“पुरा खलु वावैष मेधायाऽऽत्मानमारभ्य चरति यो दीक्षितो यदग्नीषोमीयं पशुमालभत आत्मनिष्क्रयण एवास्य स तस्मात्तस्य नाऽऽश्यं पुरुषनिष्क्रयण इव ह्यथो खल्वाहुरग्नीषोमाभ्यां वा इन्द्रो वृत्रमहन्निति यदग्नीषोमीयं पशुमालभते वार्त्रघ्न एवास्य स तस्माद्वाश्यं वारुण्यर्चा परिचरति स्वयैवैनं देवतया परिचरति” (सं. का. ६ प्र. १ अ. ११) इति।

शाखान्तरेऽपि — “सर्वाभ्यो वा एष देवताभ्य आत्मानमालभते यो दीक्षितः” इति। तथा सति दीक्षितस्य गृहे यद्यग्निहोत्रं जुहुयात्तर्हि यजमान एव हुतो भवेत्। अहोमे तु नित्याग्निहोत्रस्य परुः प्रतिदिनानुष्ठानरूपं पर्व विच्छिद्येत। तत्र पूर्वप्रसिद्धेन मन्त्रेणाऽऽहवनीयाग्नौ होमः स प्रत्यक्ष इत्युच्यते। अयं तु परोक्षोऽग्निहोत्रहोमः। अन्यमन्त्रेण प्राणाग्निषु हूयमानत्वात्। अतस्तृतीयकोटित्वेन मुख्ययोर्होमाहोमयोरभावान्नोक्तदोषद्वयम्। तस्मादनेन मन्त्रेण व्रतं कुर्यादित्यभिप्रायः।

अग्न इति। बौधायनः — “अथ संवेशनयुजुर्जपति अग्ने त्वसु जागृहि वयसु मन्दिषीमहि गोपाय नः स्वस्तये प्रबुधे नः पुनर्दद इति” इति।

आपस्तम्बः — “अग्ने त्व सु जागृहीति स्वप्स्यन्नाहवनीयमभिन्त्रयते” इति।

सुमन्दिषीमहि निर्भयाः सन्तः स्वप्स्यामः। नोऽस्माकं स्वस्तये विनाशाभावार्थं प्रबुधे जागरणाय ददः सामर्थ्यं देहि।

भयप्रसक्तिं दर्शयन्मन्त्रं व्याचष्टे —

“स्वपन्तं वै दीक्षित रक्षासि जिघासन्त्यग्निः खलु वै रक्षोहाऽग्ने त्वसु जागृहि वयसु मन्दिषीमहीत्याहाग्निमेवाधिपां कृत्वा स्वपिति रक्षसामपहत्यै” (सं. का. ६ प्र. १ अ. ४) इति।

त्वमिति। कल्पः – “अथाध्वर्युर्मध्यरात्र आद्रुत्य प्रबुद्धयजुर्वाचयति त्वमग्ने व्रतपा असि देव आ मर्त्येष्वा त्वं यज्ञेष्वीड्य इति” इति।

याज्यासु व्याख्यातम्।

व्रतभ्रंशप्रसक्तिं दर्शयन्प्रथमं पादं व्याचष्टे —

‘अव्रत्यमिव वा एष करोति यो दीक्षितः स्वपिति त्वमग्ने व्रतपा असीत्याहाग्निर्वै देवानां व्रतपतिः स एवैनं व्रतमालम्भयति’ (सं. का. ६ प्र. १ अ. ४) इति।

अविकलं करोतीत्यर्थः।

मनुष्येषु च्छिन्नं व्रतं मनुष्यावतारेण पालयतीति शङ्का वारयन्द्वितीयपादं व्याचष्टे —

‘देव आ मर्त्येष्वेत्याह देवो ह्येष सन्मर्त्येषु’ (सं. का. ६ प्र. १ अ. ४) इति।

अतो व्रतं समाधातुं शक्नोति।

अग्निर्मूर्धा दिवः ककुदित्यादियाज्यापुरोनुवाक्यादिमन्त्रेष्वाग्नेः स्तूयत इत्यभिप्रायं तृतीयपादे स्वयं दर्शयति —

‘त्वं यज्ञेष्वीड्य इत्याहैत हि यज्ञेष्वीडते’ (सं. का. ६ प्र. १ अ. ४) इति।

विश्व इति। बौधायनः – ‘अथ सनिहारान्प्राहिणोति स यं मन्यते न मां प्रत्याख्यास्यतीति तं प्रथममभिप्रहिणोति विश्वे देवा अभि मामाऽववृत्रन्पूषा सन्या सोमो राधसा देवः सविता वसोर्वसुदावेति, आहरन्तं दृष्ट्या जपति नानाहरन्तं रास्वेयत्सोमाऽऽभूयो भर मा पृणन्पूर्त्या वि राधि माऽहमायुषेति’ इति।

सनिशब्देन हिरण्यवस्त्रादि देयद्रव्यमुच्यते। सनिहारा द्रव्याणामानेतारः। आपस्तम्बस्तु प्रकारान्तरेण मन्त्रविनियोगविच्छेदावाह —

‘विश्वे देवा अभि मामाऽववृत्रन्निति प्रबुध्य जपति, पूषा सन्येति सनिहारान्त्स शास्ति, चन्द्रमसीत्येतैः प्रतिमन्त्रं यथालिङ्गं प्रतिगृह्णाति, देवः सविता वसोर्वसुदावेत्यन्यानि’ इति।

सर्वे देवा अभितः पालयितुं मामावृत्य तिष्ठन्तु। पूषा सन्या पोषको देवो देयेन हिरण्यद्रव्येण सहाऽऽयातु। सोमो राधसा साधकेन वस्त्रेण सहाऽऽयातु। वसोर्वस्वन्तरस्य गवादेः प्रेरको देवो वसुप्रदः सन्नायातु। हे सोमास्मिन्कर्मण्यपेक्षितमियद्देहि, संपूर्त्या मां पूरयन्भूय आभर, अहमायुषा मा विराधि वियुक्तो मा भूवम्।

प्रबुद्धो जपेदित्येतद्व्याचष्टे —

“अप वै दीक्षितात्सुषुपुष इन्द्रियं देवताः क्रामन्ति विश्वे देवा अभि मामाऽववृत्रन्नित्याहेन्द्रियेणैवैनं देवताभिः संनयति” (सं. का. ६ प्र. १ अ. ४) इति।

सुषुपुषः सुप्तात्। अतीन्द्रियसामर्थ्येन तदभिमानिदेवताभिश्चायं मन्त्रः संयोजयति।

विपक्षबाधपुरःसरमाऽऽभूयो भरेत्यमुं मन्त्रभागं व्याचष्टे —

‘यदेतद्यजुर्न ब्रूयाद्यावत एव पशूनभिदीक्षेत तावन्तोऽस्य पशवः स्यू रास्वेयत्सोमाऽऽभूयो भरेत्याहापरिमितानेव पशूनवरुन्धे’ (सं. का. ६ प्र. १ अ. ४) इति।

‘दीक्षाकाले विद्यमानान्यावतः पशूनभिप्राप्य दीक्षेत मन्त्रानुक्तौ तावन्त एव स्युः। मन्त्रोक्तौ तु तत्सामर्थ्यादपरिमिताः परलोके भवन्ति। पशुभिर्द्रव्यान्तराण्युपलक्ष्यन्ते। चन्द्रमसि मम भोगाय भव वस्त्रमसि मम भोगाय भवोस्राऽसि मम भोगाय भव हयोऽसि मम भोगाय भव च्छागोऽसि मम भोगाय भव मेषोऽसि मम भोगाय भवेत्येभिर्मन्त्रैर्यथालिङ्गं वसु स्वीकर्तव्यम्। चन्द्रं हिरण्यम्। उस्रा गौः।

तेन तेन मन्त्रेण तत्तद्द्रव्याभिमानिदेवतास्तुष्यन्तीत्याह —

‘चन्द्रमसि मम भोगाय भवेत्याह यथादेवतमेवैनाः प्रतिगृह्णाति’ (सं. का. ६ प्र. १ अ. ४) इति।

एना हिरण्यादिरूपा दित्सिता दक्षिणाः।

वायव इति। कल्पः — ‘ताः समुदायुत्व रक्षति तासां या नश्यति म्रियते वा वायवे त्वेति तामनुदिशति, याऽप्सु वा पाशे वा वरुणाय त्वेति तां या सं वा शीर्यते गर्ते वा पतति नित्यै त्वेति तां यामहिर्व्याघ्रो वा हन्ति रुद्राय त्वेति ताम्’ इति।

अनुदिशामीति शेषः।

विपक्षस्वपक्षयोर्दूषणभूषणे दर्शयति —

“वायवे त्वा वरुणाय त्वेति यदेवमेता नानुदिशेदयथादेवतं दक्षिणा गमयेदा देवताभ्यो वृश्च्येत यदेवमेता अनुदिशति यथादेवतमेव दक्षिणा गमयति न देवेताभ्य आ वृश्च्यते” (सं. का. ६ प्र. १ अ. ४) इति।

देवीरिति। बौधायनः – “ अथ यद्यपरियाणा आप उपाधिगच्छन्ति तज्जपति देवीरापो अपां नपाद्य ऊर्मिर्हविष्य इन्द्रियावान्मदिन्तमस्तं वो माऽवक्रमिषमच्छिन्नं तन्तुं पृथिव्या अनुगेषमिति सं वा गाहते सं वा तरति “ इति।

अपरियाणा गमनविरोधिन्यो मार्गप्रतिरोधिकाः।

आपस्तम्बः – “प्रयाणे देवीराप इत्यपोऽवगाहतेऽच्छिन्नं तन्तुं पृथिव्या अनुगेषमिति हस्तेन लोष्टं विमृद्नात्यापारात्” इति।

यदा केनापि निमित्तेन देवयजनादन्यत्र दीक्षेत तदानीं पृथगरणीष्वग्नीन्समारोप्य देवयजनं गच्छन्मध्ये प्राप्तायां नद्यामवगाह्योत्तरेत्। अपां नपादित्यग्निसंबोधनम्। हे देव्य आपो युष्माकं य ऊर्मिस्तं पादेन माऽवक्रमिषम्। कीदृश उर्मिः। व्रीह्याद्युत्पादनेन हविर्योग्यः स्वकीयजलपानेनेन्द्रियशक्तिकारी तृषां निवर्तयन्नतिहर्षप्रदः। मृदि लोष्टरूपं पृथिव्या अच्छिन्नं तन्तुं सेतुं प्राप्य तस्योपरि गच्छामि।

हविष्यशब्दाभिप्रायमाह —

“देवीरापो अपां नपादित्याह यद्वो मेध्यं यज्ञिय सदेवं तद्वो माऽव क्रमिषमिति वावैतदाह” (सं. का. ६ प्र. १ अ. ४) इति।

इति वाव, इत्येव।

तन्तुशब्दाभिप्रायमाह —

“अच्छिन्नं तन्तुं पृथिव्या अनुगेषमित्याह सेतुमेव कृत्वाऽत्येति” (सं. का. ६ प्र. १ अ. ४) इति।

भद्रादिति। बौधायनः — “बृहस्पतिवत्यर्चा प्रयाति भद्रादभि श्रेयः प्रेहि बृहस्पतिः पुरएता ते अस्त्वित्यथ यत्र वत्स्यन्भवति तदवस्यत्यथेमव स्य वर आ पृथिव्या इत्यथाऽऽदित्यमुद्यन्तमुपतिष्ठत आरे शास्रून्कृणुहि सर्ववीर इति” इति।

आपस्तम्बस्तु त्रीन्मन्त्रानेकीकृत्य विनियुङ्क्ते — “पृथगरणीष्वग्नीन्समारोप्य रथेन प्रयाति एतदभावे रथाङ्गमादाय भद्रादभि श्रेय इति” इति।

अत्रार्थक्रमेण देवीराप इत्यस्मात्पूर्वमेवायं मन्त्रोऽवगन्तव्यः। हे रथ भद्रात्प्रशस्तादस्मान्नित्याग्निहोत्रस्नानादतिप्रशस्तं सौमिकं देवयजनमभिप्रयाहि। बृहस्पतिस्तव पुरतो गन्ता भवतु। अथ प्रयाणादूर्ध्वं पृथिव्याः संबन्धिन्या समन्ताद्वरे श्रेष्ठे स्थान ईमिमां गतिमवस्य समापय। हे रथाभिमानिन्नादित्य शत्रून्राक्षसादीनारे देवयजनाद्दूरे कुरु।

कल्पः — “अथ यत्र यक्ष्यमाणो भवति तदवस्यत्येदमगन्म देवयजनं पृथिव्या इत्पन्तादनुवाकस्य” इति।

स च मन्त्र एवमाम्नायते —

एदमिति। पृथिव्याः संबन्धि यद्देवयजनं तदिदमागन्म वयं प्राप्ताः। यद्देवयजने(नं) पूर्वे सर्वे देवा अजुषन्तासेवन्त तद्वयमागत्य वेदत्रयगतैर्मन्त्रैः सोमयागं संतरन्तः सम्यक्पारं नयन्तो रायस्पोषेण धनसमृद्ध्या समिषा समीचीनेनान्नेन च मदेम हृष्यास्म।

भद्रादभीत्यादिमन्त्रार्थः स्पष्ट इत्यभिप्रेत्य ब्राह्मणेनात्र व्याख्यानमुपेक्षितम्। औपानुवाक्यकाण्डे तु दीक्षितनियमप्रसङ्गाद्व्याख्यानं कृतम्। तत्र बृहस्पतेरुपयोगमाह —

“अग्निर्वै दीक्षितस्य देवता सोऽस्मादेतर्हि तिर इव यर्हि याति तमीश्वर रक्षासि हन्तोर्भद्रादभि श्रेयः प्रेहि बृहस्पतिः पुरएता ते अस्त्वित्याह ब्रह्म वै देवानां वृहस्पतिस्तमेवान्वारभते स एन संपारयति” (सं. का. ३ प्र. १ अ. १) इति।

यदा दीक्षितोऽग्निहोत्रस्थानात्प्रयाति तदाऽग्निस्तिरोहित इव नैनं पालयति। ततो रक्षांस्येनं मार्गे हन्तुमीश्वराणि भवन्ति। तत्र बृहस्पतौ पुरतो गच्छति सत्यनुगच्छन्तमेनं रक्षोबाधपरिहारेण स बृहस्पतिः सम्यक्पारं नयति।

उत्तरमन्त्रस्य चतुर्षु प्रतिपाद्योऽर्थः प्रसिद्ध इत्याह —

“एदमगन्म देवयजनं पृथिव्या इत्याह देवयजन ह्येष पृथिव्या आगच्छति यो यजते विश्वे देवा यदजुषन्त पूर्व इत्याह विश्वे ह्येतद्देवा जोषयन्ते यद्ब्राह्मणा

ऋक्सामाभ्यां यजुषा संतरन्त इत्याहर्क्सामाभ्या ह्येव यजुषा संतरति यो यजते रायस्पोषेण समिषा मदेमेत्याहाऽऽशिषमेवैतामाशास्ते। (सं. का. ३ प्र. १ अ. १) इति।

अध्वर्युप्रभृतयो ब्राह्मणा यद्देवयजनमिदानीमधितिष्ठन्ति तद्देवाः स्वयं सेवमाना एतान्सेवन्ते। यो यजते स एष संतरतीत्यन्वयः।

अत्र विनियोगसंग्रहः —

“दैवीं हस्तौ शोधयित्वा ये दे व्रतपयः पिबेत्।

अग्ने स्वप्स्यन्नग्निमाह त्वं प्रबुद्धो जपेत्तथा॥१॥

विश्व इत्यपि पूषेति सनिहारानुशासनम्।

देवो वसुग्रहश्चन्द्रं षड्भिस्तत्र प्रतिग्रहः॥२॥

वाय नष्टामप्सु मृतां सन्नामृग्भ्यां च गां स्पृशेत्।

देवीरापो विगाह्याच्छि लोष्टमप्सु विमर्दयेत्॥३॥

भद्राद्रथेन यात्येदं यागभूमिव्यवस्थितिः।

अनुवाके तृतीयेऽस्मिन्नुदिता एकविंशतिः॥४॥ इति।

अथ मीमांसा।

एकादशाध्यायस्य चतुर्थपादे चिन्तितम् —

‘स्वप्नादिमन्त्रा आवर्त्या नो वाऽऽद्योऽस्त्वन्तरायतः।

कृत्स्नोद्देशप्रवृत्तत्वान्निमित्ताभेदतः सकृत्” इति॥

दीक्षितस्य स्वप्ननद्युत्तरणवृष्टिक्लेदनामेध्यदर्शननिमित्तकास्तत्तन्नन्त्रजपाः पठिताः। त्वमग्ने व्रतपा असीत्यादिकः स्वप्नमन्त्रः। देवीरापो अपां नपादित्यादिर्नदीतरणमन्त्रः। उन्दतीर्बलं धत्त इत्यादिर्वृष्टिक्लेदनमन्त्रः। अबद्धं मन इत्यादिरमेध्यदर्शनमन्त्रः। यदा निद्रा मध्ये प्रबोधैरल्पैर्व्यवधीयते, नदी च बहुशःस्रोतोयुक्ता द्वीपैः, वृष्टिश्च विच्छेदैः, अमेध्यानि च देशैस्तदा तैरन्तरायैर्निमित्तेषु भिद्यामानेषु नैमित्तिका मन्त्रा आवर्तनीया इति प्राप्ते ब्रूमः — रात्रिगतां कृत्स्नां निद्रामुद्दिश्य मन्त्राभिधानान्निमित्तमेकम्। एवमन्यत्रापि योज्यम्। तस्मान्नास्त्यावृत्तिः।

तत्रैवान्यच्चिन्तितम् —

“प्रयाणे प्रत्यहं मन्त्रो भिन्नो नो वाऽत्र विश्रमैः।

प्रयाणभेदाभिन्नो नो गत्यैक्यादानिवृत्तितः’ इति।

भद्रादभि श्रेय इत्यादिः प्रयाणमन्त्रः। तत्र दीक्षितस्य निर्गमनमारभ्य पुनःप्रवेशपर्यन्तं विश्रमव्यवधानेऽपि प्रयोजनैक्यादेकमेव प्रयाणम्। ततो न मन्त्रावृत्तिः।

अथ च्छन्दः —

दैवीं धियमित्यग्ने त्वमिति चैते अनुष्टुभौ। त्वमग्न इति गायत्री। विश्वे देवा इत्येकपदा। एदमगन्मेति त्रिष्टुप्॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वे-

दीयतौत्तिरीयसंहिताभाष्ये प्रथमकाण्डे द्वितीयप्रपाठके

तृतीयोऽनुवाकः॥३॥

भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 मध्यरात्रे प्रबुद्धो यजमान आचामति - दैवीं धियमित्यनुष्टुभा चतुष्पदया ॥ देवानामियं दैवी यया देवान् यष्टुं शक्नोति । 'देवाद्यञञौ' इत्यञ्, ञित्त्वादाद्युदात्तत्वम् । तां धियं मनामहे अभ्यस्यामः, भूयोभूयोपि सम्पादयामः । 'पाघ्राध्मास्थाम्नादाण्दृश्यर्तिसर्तिशदसदां पिबजिघ्रधमतिष्ठमनयच्छपश्यर्च्छधौशीयसीदाः' इति मनादेशः, व्यत्ययेनात्मनेपदम् । सा पुनर्धीः कीदृशीत्याह - सुमृडीकाम् । शोभना मृडीका यस्यामिति बहुव्रीहौ 'नञ्सुभ्याम्' इत्युत्तरपदान्तोदात्तत्वम् । मृड सुखने, तस्मात् मृडेरीकन्कननौ इति कन्प्रत्ययः । सुखयितारस्सुखहेतवः उच्यन्ते । वर्चोधां वर्चसो दीप्तेर्धात्रीम् । 'आतोनुपसर्गे कः', कृदुत्तरपदप्रकृतिस्वरत्वम् । यज्ञवाहसं यज्ञं वहतीति यज्ञवाहाः यज्ञर्निवहणक्षमाम् । 'गतिकारकयोरपि पूर्वपदप्रकृतिस्वरत्वं च' इति वचनात् 'वहिहाधाञ्भ्यश्चन्दसि' इत्यसुन्प्रत्ययः कारकपूर्वादपि भवति, 'वसेर्णित्' इति तत्रानुवर्तते, ततो वृद्धिः, यज्ञशब्दो नङ्प्रत्ययान्तोऽन्तोदात्तः । किमर्थं मनामहे? अभिष्टये आभिमुख्येन या इष्टिः देवानां तदर्थम् । 'एमन्नादिषु पररूपं वक्तव्यम्' इति पररूपत्वम्, वर्णव्यत्ययेन वा ह्रस्वः, 'तादौ च निति कृत्यतौ' इति पूर्वपदप्रकृतिस्वरत्वम्, 'उपसर्गाश्चाभिवर्जम्' इत्यभिशब्दोन्तोदात्तः, व्युत्पत्त्यनवधारणान्नावगृह्यते । 'आभिमुख्येन देवान् यष्टुं दैवीं धियं मनामहे । सा च धीः सुपारा शोभनावसाना सुष्ठु कर्मणां समाप्तिसाधनभूता । 'नञ्सुभ्याम्' इत्युत्तरपदान्तोदात्तत्वम् । यद्वा - पार तीर कर्मसमाप्तौ, सुष्ठु पारयित्री कर्मणः । पचाद्यच्, कृदुत्तरपदप्रकृतिस्वरत्वम्, थाथादिस्वरो वा । ईदृशी भूत्वा नोऽस्माकं वशे असत् अस्तु अस्मद्वशे वर्तताम् । अस्तेर्लेटि । 'लेटोडाटौ' इत्यडागमः, 'इतश्च लोपः परस्मैपदेषु' ॥
2 व्रतयति - ये देवा इति ॥ 'प्राणा वै देवा मनोजाता मनोयुजः' इति ब्राह्मणदर्शनात् चक्षुरादयः प्राणाः देवाः, ते हि देवनवन्तः । मनोजाताः जातमनसः, मनोव्यापारमन्तरेण स्वकार्यकरणासम्भवात् । 'निष्ठायाः पूर्वनिपाते जातिकालसुखादिभ्यः परवचनम्' इति जातशब्दस्य परवचनम् । 'वा जाते' इत्युत्तरपदान्तोदात्तत्वाभावे 'बहुव्रीहौ प्रकृत्या' इति पूर्वपदप्रकृतिस्वरत्वम्, मनश्शब्दोऽसुन्प्रत्ययान्त आद्युदात्तः । मनोयुजः मनसा मननेन विषयावधारणलक्षणेन युज्यन्त इति । 'सत्सूद्विष' इति क्विप्, कृदुत्तरपदप्रकृतिस्वरत्वम् । सुदक्षाः - दक्षन्त इति दक्षाः निपुणाः प्रतिपत्तारः । दक्ष वृद्धौ, पचाद्यच्, वृषादित्वादाद्युदात्तः । शोभना दक्षा येषु मनोयुक्तेषु प्रवर्तमानेषु ते सुदक्षाः । 'आद्युदात्तं द्व्यच्छन्दसि' इत्युदात्तत्वम् । यद्वा - दाक्षिण्यं दक्षः । घञन्तः आद्युदात्तः, सुष्ठु दाक्षिण्यं येषामिति बहुव्रीहौ पूर्ववदुत्तरपदाद्युदात्तता । यद्वा - सुष्ठु दक्षाः सुदक्षाः । 'परादिश्छन्दसि बहुळम्' इत्युत्तरपदाद्युदातत्वम् । दक्षपितारः दक्षं पिता पितृस्थानीयं मनो येषां ते दक्षपितारः । 'ऋतश्छन्दसि' इति कपः प्रतिषेधः, वर्णव्यत्ययेनोपधादीर्घत्वम् । ते तादृशा देवा नोऽस्मान् पान्तु रक्षन्तु । पा रक्षणे । किञ्च, ते नः अस्मान् अवन्तु रक्षन्तु अनुप्रविशन्तु सदा अस्मासु तिष्ठन्तु । अव रक्षणगतिकान्तिप्रीतितृप्त्यवगमप्रवेशस्वाम्यर्थश्रवणयाचनक्रियेच्छावाप्त्यालिङ्गनहिम्सादानभाववृद्धिषु। तेभ्यो नमः नमस्कुर्मः । किञ्च, तेभ्यस्स्वाहा स्वाहुतं इदं पीतं पयोस्तु । एतौ चाचमनमन्त्रौ पातुस्सामर्थ्यादिति संवेशनप्रबुद्धयजुर्भ्यां उत्तरौ द्रष्टव्यौ । सुप्त्वा प्रबुद्ध्वा चाचम्य व्रतयितव्यमिति क्रमः । 'ब्रह्मवादिनो वदन्ति होतव्यं दीक्षितस्य गृहाः' इत्यादि ब्राह्मणम् ॥
3 संविशति - अग्ने त्वमित्यनुष्टुभा चतुष्पदया ॥ हे अग्ने त्वं सुजागृहि अनिद्र आस्स्व । त्वयि तथाकारिणि सति वयं सुमन्दिषीमहि सुष्ठु निर्भयास्स्वप्यास्म । मदि स्तुतिमोदमदस्वप्नकान्तिगतिषु । 'स्वपन्तं वै दीक्षितम्' इत्यादि ब्राह्मणम् । त्वं चास्मान्स्वपतो गोपाय रक्ष । 'सनाद्यन्ता धातवः' इति धातुत्वात्, धातोरित्यन्तोदात्तत्वम्, पादादित्वान्न निहन्यते । स्वस्तये अविनाशार्थम् । विभक्त्यन्तप्रतिरूपको निपातः । यद्वा - अस गतावित्यस्मात्सुपूर्वात् 'क्तिच्क्तौ च संज्ञायाम्' इति क्तिच्, कृदुत्तरपदप्रकृतिस्वरत्वम्, व्युत्पत्त्यनवधारणान्नावगृह्यते । शोभनगत्यर्थं गोपाय, यथा रक्षोभिर्न बाध्यामहे । किञ्च – नोस्मान् पुनः पश्चान्मध्यरात्रे प्रबुधे प्रबोधनाय । सम्पदादित्वात्क्विप्, कृदुत्तरपदप्रकृतिस्वरत्वम् । प्रबोधार्थं ददः देहि, प्रबुद्धान्कुर्विति यावत् । ददातेर्लेटि 'लेटोडाटौ' इत्यडागमः । 'घोर्लोपो लेटि वा' इत्याकारलोपः । 'इतश्च लोपः' इतीकारलोपः ॥
4 प्रबुद्धं यजमानं वाचयति - त्वमग्ने इति गायत्रीं त्रिपदां प्रतिष्ठानाम्नीम् 'विपरीता प्रीतष्ठा' इति वचनात् । व्याख्याता चेयमृक् 'उभा वामिन्द्राग्नी' इत्यनुवाके । 'अव्रत्यमिव वा एष करोति यो दीक्षितः' इत्यादि ब्राह्मणम् ॥
5 सनिहारान्प्रहिणोति - विश्वे देवा इत्येकपदया त्रिष्टुभा यजुरन्तया ॥ विश्वे सर्वेपि देवाः मामभ्याववृत्रन् । व्यत्ययेन परस्मैपदम् । आभिमुख्येन मां प्रत्यावर्तन्ताम्, धनान्यादायाभ्यागच्छन्त्विति यावत् । वृतेर्लुङि । 'द्युद्भ्यो लुङि' इति परस्मैपदम्, व्यत्ययेन च्लेश्चङादेशः 'बहुळं छन्दसि' इत्यडागमः । को देवः केन धनेनेत्याह - पूषा सन्या सनिना सनिमादाय मामागच्छतु । याच्ञालब्धं हिरण्यादिधनं सनिः, याच्ञानन्तरं दीयत इति कृत्वा । षणु दाने, 'खनिकषि' इत्यादिना कर्मणि इप्रत्ययः, 'उदात्तयणः' इति विभक्तेरुदात्तत्वम् । सोमो राधसा आगच्छतु । राधो वासः क्षौमदुकूलादि, राध्यते प्रसाध्यतेनेन देह इति कृत्वा । यश्च देवस्सविता सर्वस्य प्रेरकः वसुदावा वसूनां प्रशस्तानां उस्रादिचेतनपदार्थानां दाता । 'आतो मनिन्' इति वनिपि, कृदुत्तरपदप्रकृतिस्वरत्वम् । सोपि वसोर्वसुनागच्छतु । सुपां सुपो भवन्तीति तृतीयैकवचनस्य षष्ठ्येकवचनम् । यद्वा - वसोर्वसुसमुदायात् कां चिदुस्रां हयं छागं वादायागच्छतु । 'चन्द्रमसि मम भोगाय भव' इत्यादि ग्रहणमन्त्रानुसारेण च एतेषां विशिष्टविषयत्वं द्रष्टव्यम् । 'अप वै दीक्षितात्सुषुपुषः' इत्यादि ब्राह्मणम् ॥
6 आहरन्तं दृष्ट्वा जपति - रास्वेति गायत्रीं त्रिपदाम् ॥ तत्र प्रथमे पादे आङस्सवर्णदीर्घत्वमकृत्वा छन्दो गणयेत् । द्वितीयस्तु इयादेशेन पूरयितव्यः 'भर मा पृणन्पूर्तिया' इति । 'वि राधि माहमायुषा' इति तृतीयस्स्वयमेवाष्टाक्षरः । केचित्तु यजुरादिका एकपदा गायत्रीत्याहुः; आह च 'यदेतद्यजुर्न ब्रूयात्' इति । अस्मिन्पक्षे भरेत्यस्यापादादित्वान्निघातो न दुर्लभः, पूर्वत्र तु पादादित्वाद्व्यत्ययेन निघातो वेदितव्यः । हे सोम इयत् एतावत् इदं मया लब्धमिति हस्ताभिनयेन दर्शयन्नाह । इदं परिमाणमस्येति मतुपि 'किमिदम्भ्यां वो घः' इति वकारस्य च घादेशे 'इदंकिमोरीश्की' इतीशादेशस्य 'यस्य' इति लोपे प्रत्ययमात्रमवशिष्यते, तस्य सत्यपि पित्त्वे उदात्तनिवृत्तिस्वरेण इयादेश उदात्तः । एतावन्मे रास्व देहि । रा दाने, व्यत्ययेनात्मनेपदम्, सतिशिष्टोपि लसार्वधातुकस्वरः धातुस्वरेण बाध्यते व्यत्ययेनैव । यद्वा - रासृ शब्दे अनुदात्तेत् । 'बहुलं छन्दसि' इति शपो लुक्, 'तास्यनुदात्तेत्' इत्यादिना लसार्वधातुकानुदात्तत्वम् । अयमर्थः - सोम यदिदं मया लब्धं एतन्मे शब्दय यथा ममैव भवति तथैव वक्तुमर्हसीति । यद्वा - रासतिरयं छन्दसि दाने वर्तते, दानार्थेषु नैरुक्तैः पठितत्वात् । किञ्च - इतोपि भूयः बहुतरं धनमाभर । 'हृग्रहोर्भः' इति भत्वम् । 'यावत एव पशूनभि दीक्षेत' इति ब्राह्मणम् । किञ्च - इदं चाप्यस्तु - अस्मान् पृणन् धनेन पूरयन् पुर[न?]स्स्वयमपि पूर्त्या धनपोषेण मा विराधि धनपोषेण वियुक्तो मा कारि । अहं चायुषा मा विरात्सि वियुक्तो माकार्षि । पॄ पालनपूरणयोः क्रैयादिकः; प्वादित्वाद्ध्रस्वः, शतरि कृते विकरणस्वरस्तु लसार्वधातुकस्वरेण न बाध्यत इति शतुरेवोदात्तत्वम्, सत्यामपि सतिशिष्टेन बाधायां 'श्नाभ्यस्तयोरातः' इत्याकारलोपे उदात्तनिवृत्तिस्वरेण शतुरेवोदात्तत्वम्, ततः क्तिनि तु सति 'ऋकारल्वादिभ्यः' इति निष्ठावद्भावे प्राप्ते 'न ध्याख्यापृमूर्छिमदाम्' इति प्रतिषिद्ध्यते, तत्र व्यत्ययेन विभक्तेरुदात्तत्वम् । यद्वा - पूर्यते पुरुषोनयेति पूर्तिः, धनस्येयं संज्ञा । 'क्तिच्क्तौ च संज्ञायाम्' इति क्तिचि । 'उदात्तयणो हर्ल्पूवात्' इति विभक्तेरुदात्तत्वम् ॥
7 हिरण्यं प्रतिगृह्णाति - चन्द्रमसीति ॥ चन्द्रं ह्लादनमसि सर्वेषाम् । चदि आह्लादने, 'स्फायितञ्चि' इत्यादिना रक्प्रत्ययः । ईदृक्त्वं प्राणिनां क्षीरप्रदानेनासि । शिष्टं स्पष्टम् । वस निवासे, 'स्फायितञ्चि' इत्यादिना रक्प्रत्ययः। मम भोगाय दानाद्युपभोगाय भव पर्याप्नुहि ॥
8 वस्त्रं प्रतिगृह्णाति - वस्त्रमिति ॥ वस्त्रं छादनम्, वस आच्छादने, येन देहस्संछाद्यते । समानमन्यत् । 'हुयामाश्रुवसिभ्यस्त्रन्' इति त्रन्प्रत्ययः ॥
9 उस्रां प्रतिगृह्णाति - उस्रेति । उस्रा वासहेतुस्त्वं प्राणिनां क्षीरादिप्रदानेन असि । शिष्टं स्पष्टम् । वस निवासे, 'स्फायितञ्चि' इत्यादिना रक्प्रत्ययः, वच्यादिना सम्प्रसारणम्, बहुळवचनात् 'शासिवसिघसीनाम्' इति षत्वाभावः ॥
10 अश्वं प्रतिगृह्णाति - हय इति ॥ हय गतिकान्त्योः । हयिता विक्रमितासि । पचाद्यचि 'वृषादीनां च' इत्याद्युदात्तत्वं । गतमन्यत् । 'विश्वजनादीनां छन्दसि वेति वक्तव्यम्' इति भवेत्यस्य संहितायां 'छे च' इति तुगभावः ॥
11 छागं प्रतिगृह्णाति - छाग इति ॥ छदनमगतिर्वा छातेरर्थः । छातीति छा[ग]ः । यद्वा - छादनं छेदनं गच्छति करोति जानातीति वा छागः । 'अन्यत्रापि दृश्यते' इति गमेर्डः, पृषोदरादित्वात्स्वरूपविशेषः स्वरविशेषश्चानुसरणीयः, संस्कारविशेषनिर्णयान्नावगृह्यते । ईदृशस्त्वं मम भोगाय भव छेत्ता मा भूः ॥
12 मेषं प्रतिगृह्णाति - मेष इति ॥ मेषः अभिभविता । मिष स्पर्धायाम्, पचाद्यच्, असीत्यनेन संहितायां 'स्वरितो वानुदात्ते पदादौ' इति स्वर्यते । शिष्टं स्पष्टम् । सर्वत्र लिङ्गसङ्ख्ययोरविवक्षा ॥
13 नष्टां मृतां वानुदिशति - वायव इति ॥ त्वां नष्टां मृतां वा वायवेनुदिशामीति शेषः, ददामीत्यर्थः । 'यदेवमेता नानुदिशेत्' इत्यादि ब्राह्मणम् ॥
14 अप्सु वा पाशे वा मृतामनुदिशति - वरुणाय त्वेति ॥
15 या सं वा शीर्यते गर्तं वा पद्यते तामनुदिशति - निर्ऋत्यै त्वेति ॥ प्रादिसमासः । निर्गता ऋतेः निर्ऋतिः । अव्ययपूर्वपदप्रकृतिस्वरत्वम् ॥
10 यामहिर्व्याघ्रो वा हन्ति तामनुदिशति - रुद्राय त्वेति ॥
17 दीक्षितोप उत्तरति - देवीराप इति उपरिष्टाज्ज्योतिषा त्रिष्टुभाष्टाक्षरचतुर्थया । केचिदिमामनुष्टुभं यजुरन्तामाचक्षते, तेषाम् 'अच्छिन्नम्' इत्यादि यजुः ॥ हे देवीरापः । 'विभाषितं विशेषवचने बहुवचनम्' इति पूर्वस्य विद्यमानत्वात् आप इति निहन्यते । हे अपां नपात् - चतुर्थो नप्ता; अपां नप्तः; अग्नेराहुतिः, आहुत्या आदित्यः, आदित्याद्वृष्टिः; अद्भ्य ओषधयः, ओषधीभ्योन्नं, अन्नादग्निः, इत्युभयथापि अपान्नपात् अग्निः । न पातयतीति नपात्, क्विपि णिलोपः, नञ्समासे 'नभ्राण्नपात्' इति नलोपाभावः; आपो इत्यस्य संहितायां 'आपो जुषाणः' इत्यादिना प्रकृतिभावः, 'सुबामन्त्रिते पराङ्गवत्सरे' इत्यपामित्यस्य पराङ्गवद्भावः, तेन षष्ठ्यामन्त्रितसमुदायो निहन्यते । युष्मदीयो य ऊर्मिर्हविष्यः । हविरर्हतीति 'छन्दसि च' इति यत्प्रत्ययः । इन्द्रियावान् वीर्यवान् । 'मन्त्रे सोमाश्वेन्द्रिय' इति दीर्घः । मदिन्तमः मादयितृतमः । मदी हर्षे, अस्मादन्तर्भावितण्यर्थात् 'शमित्यष्टाभ्यो घिनुण्' इति घिनुण्, घटादित्वात् 'मितां ह्रस्वः' इति ह्रस्वत्वम्, 'नाद्घस्य' इति तमपो नुडागमः । तं तादृशं वो युष्मत्सम्बन्धिनमूर्मिं मावक्रमिषं पद्भ्यामवक्रम्य मागाम् । 'नेटि' इति वृद्धिप्रतिषेधः । ननु क्रियमाणमेव कथं अपह्रियते तत्राह - युष्मत्प्रसादादहं अच्छिन्नं तन्तुं यज्ञाख्यमनुगेषं अनुगतो भूयासमविघ्नेन प्राप्यासम् । को हि हविष्यत्वादिगुणविशिष्टं युष्मदीयमूर्मिं वृथावक्रामेत् । तस्माद्यज्ञ एवायं मया युष्मदवक्रमणरूपोनुष्ठीयत इति भावः । गा स्तुतौ छन्दसि जौहोत्यादिकः, तस्माद्धातूनामनेकार्थत्वात् गतिकर्मणः आशिषि लिङि 'लिङ्याशिष्यङ्', आतो लोपः, यासुडादि । यद्वा - 'दृष्टानुविधिः छन्दसि' इति इण एव चाशिषि लिङि गादेशः । कस्यायमच्छिन्नतन्तुत्वेन यज्ञो रूप्यते तत्राह – पृथिव्या अयमच्छिन्नस्तन्तुः, पृथिव्यवयवानुस्यूतावयवत्वात् । अन्यत्र हि दीक्षन्ते अन्यत्र देवान्यजन्ते अन्यत्रावभृथमवयन्तीति पृथिव्यां तायमानत्वात् तन्तुरेवायं पृथिव्याः । 'उदात्तयणः' इति पृथिव्याः परस्या विभक्तेरुदात्तत्वम् । तस्माद्यज्ञरूपत्वात् युष्माभिर्युष्मदवक्रमणं सोढव्यमिति । यद्वा - सेतुत्वेनायं यज्ञो रूप्यते । स हि पृथिव्या उभयतीरस्पर्शित्वात् अच्छिन्नस्तन्तुरिति वक्तुं शक्यते । तमेवाहमनुगच्छामि । सेतुना हि गच्छन्नपोतिक्रामन्नप्यपो नातिक्रामति । तस्माद्यज्ञाख्येन सेतुना युष्मानतिक्रमतो मे नापराध इति । 'सेतुमेव कृत्वात्येति' इति ब्राह्मणम् ॥
18 प्रयाणे कर्तव्ये प्रयाति - भद्रादिति विराजा गायत्र्या, वस्वेकपादत्वात् । अयं च मन्त्रस्सामर्थ्यान्नदीतरणमन्त्रात्पूर्वो द्रष्टव्यः ॥ भद्रात्प्रशस्तादस्मात् स्थानात् श्रेयः प्रशस्यतरं स्थानं योगक्षेमोपपन्नमभिप्रेहि आभिमुख्येन गच्छ । अन्तरात्मानमाह समारूढं वाग्निम् । किञ्च - बृहस्पतिः । 'तद्बृहतोः करपत्योः' इति सुट्, वनस्पत्यादित्वात् पूर्वोत्तरपदयोर्युगपत्प्रकृतिस्वरत्वम् । पुरएता अग्रगामी ते तव अस्तु । प्राप्तकाले लोट्, 'पुरोव्ययम्' इति गतित्वात् 'गतिकारकोपपदात्कृत्' इति कृदुत्तरपदप्रकृतिस्वरत्वम् । 'ब्रह्म वै देवानां बृहस्पतिस्तमेवान्वारभते' इत्यादि ब्राह्मणम् ॥
19 देवयजनादर्वाग्यत्र वत्स्यन्भवति तदवस्यति - अथेति त्रिष्टुभैकपदया ॥ अत्रापि स्वात्मानमाह । अथेत्यानन्तर्ये । ईमिति खल्वर्थे । आ इत्युपसर्गस्य श्रुतेः योग्यं क्रियापदमध्याह्रियते । पृथिव्याः पृथिवीमात्रात् स्थानान्तरादागतस्त्वं यदि देवयजनादर्वाग्वस्तुमिच्छसि अथेदानीं खलु वरे उत्कृष्टेस्मिन्प्रदेशे अवस्य अवसितो भव । यद्वा - पृथिव्या उत्कृष्टेस्मिन्प्रदेशे आगतस्त्वमिदानीं अत्रैवावस्य ॥
20 आदित्यमुद्यन्तमुपतिष्ठते - आर इति त्रिष्टुभैकपदया ॥ सर्वेप्यात्मीयाः पुरुषाः वीराः यस्य तादृशस्त्वम् । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । सर्वानस्मदीयान् शत्रून् आरे दूरे कृणुहि स्थापय । कृवि हिंसाकरणयोः, 'धिन्विकृण्व्योर च' इत्युप्रत्ययः, 'उतश्च प्रत्ययाच्छन्दो वा वचनम्' इति हेर्लुगभावः ॥
21 यत्र यक्ष्यमाणो भवति तदभिप्रेतं देवयजनमधितिष्ठति - एदमिति त्रिष्टुभा चतुष्पदया ॥ देवा इज्यन्ते अस्मिन्निति देवयजनम् । अधिकरणे ल्युट्, कृदुत्तरपदप्रकृतिस्वरत्वम् । ईदृशमिदं स्थानमगन्म अगन्महि आगता वयम् । गमेर्लुङि 'बहुळं छन्दसि' इति शपो लुक् । यद्वा - लुङि 'मन्त्रे घस' इत्यादिना च्लेर्लुक्, 'म्वोश्च' इति मकारस्य नकारः । कीदृशं? पृथिव्यास्सम्बन्धि । यद्वा - पृथिवीमात्रात् प्रदेशान्तरात् इदं देवयजनमागताः । 'उदात्तयणः' इति विभक्तेरुदात्तत्वम् । पुनश्च विशेष्यते - विश्वे पूर्वे अस्मदीयाः पित्रादयो देवाः भूमिदेवाः यदजुषन्त यादृशमसेवन्त । आद्युदात्तत्वम् । अत्र चागता वयं ऋक्सामाभ्यां यजुषा सन्तरन्तः सम्यग्यागं निर्वर्तयन्तः । कृदुत्तरपदप्रकृतिस्वरत्वम् । अचतुरादिसूत्रेण ऋक्सामशब्दोच्प्रत्ययान्तो निपातितः । रायः धनस्य पोषेण पुष्ट्या इषा अन्नेन च सम्यङ्मदेम हृष्टा भवेम । मदी हर्षग्लपनयोरिति भौवादिक उदात्तेत्, 'षष्ठ्याः पतिपुत्र' इत्यादिना पोषे विसर्जनीयस्य सत्वम् । 'सावेकाचः' इतीषः परस्यास्तृतीयाया उदात्तत्वम् । 'ऋक्सामाभ्यां ह्येष यजुषा सन्तरति यो यजते' इति ब्राह्मणम् ॥

इति द्वितीये तृतीयोनुवाकः

पञ्चशत् 2 #
TS 1.2.3.2 TS 1.2.3.2
ॅय॒ज्ञेष्वीड्यः॑ ॥ विश्वे॑ दे॒वा अ॒भि मामाऽव॑वृत्रन् पू॒षा स॒न्या सोमो॒ राध॑सा दे॒वः स॑वि॒ता वसो᳚र्वसु॒दावा॒ रास्वेय॑थ् सो॒मा ऽऽ*भूयो॑ भर॒ मा पृ॒णन् पू॒र्त्या वि रा॑धि॒ माऽहमायु॑षा च॒न्द्रम॑सि॒ मम॒ भोगा॑य भव॒ वस्त्र॑मसि॒ मम॒ भोगा॑य भवो॒स्राऽसि॒ मम॒ भोगा॑य भव॒ हयो॑ऽसि॒ मम॒ भोगा॑य भव॒ - [ ]
पदपाठः (Word-by-word)
य॒ज्ञेषु॑ । ईड्‍यः॑ ॥ विश्वे᳚ । दे॒वाः । अ॒भीति॑ । माम् । एति॑ । अ॒व॒वृ॒त्र॒न्न् । पू॒षा । स॒न्या । सोमः॑ । राध॑सा । दे॒वः । स॒वि॒ता । वसोः᳚ । व॒सु॒दावेति॑ वसु - दावा᳚ । रास्व॑ । इय॑त् । सो॒म॒ । एति॑ । भूयः॑ । भ॒र॒ । मा । पृ॒णन्न् । पू॒र्त्या । वीति॑ । रा॒धि॒ । मा । अ॒हम् । आयु॑षा । च॒न्द्रम् । अ॒सि॒ । मम॑ । भोगा॑य । भ॒व॒ । वस्त्र᳚म् । अ॒सि॒ । मम॑ । भोगा॑य । भ॒व॒ । उ॒स्रा । अ॒सि॒ । मम॑ । भोगा॑य । भ॒व॒ । हयः॑ । अ॒सि॒ । मम॑ । भोगा॑य । भ॒व॒ ।
पदसंख्या: 50
पञ्चशत् 3 #
TS 1.2.3.3 TS 1.2.3.3
छागो॑ऽसि॒ मम॒ भोगा॑य भव मे॒षो॑ऽसि॒ मम॒ भोगा॑य भव वा॒यवे᳚ त्वा॒ वरु॑णाय त्वा॒ निर्.ऋ॑त्यै त्वा रु॒द्राय॑ त्वा॒ देवी॑रापो अपां नपा॒द्य ऊ॒र्मिर्. ह॑वि॒ष्य॑ इन्द्रि॒यावा᳚न् म॒दिन्त॑म॒स्तं ॅवो॒ माऽव॑ क्रमिष॒मच्छि॑न्नं॒ तन्तुं॑ पृथि॒व्या अनु॑ गेषं भ॒द्राद॒भि श्रेयः॒ प्रेहि॒ बृह॒स्पतिः॑ पुरए॒ता ते॑ अ॒स्त्वथे॒मव॑ स्य॒ ( ) वर॒ आ पृ॑थि॒व्या आ॒रे शत्रू᳚न् कृणुहि॒ सर्व॑वीर॒ एदम॑गन्म देव॒यज॑नं पृथि॒व्या विश्वे॑ दे॒वा यदजु॑षन्त॒ पूर्व॑ ऋख्सा॒माभ्यां॒ ॅयजु॑षा स॒न्तर॑न्तो रा॒यस्पोषे॑ण॒ समि॒षा म॑देम ॥
पदपाठः (Word-by-word)
छागः॑ । अ॒सि॒ । मम॑ । भोगा॑य । भ॒व॒ । मे॒षः । अ॒सि॒ । मम॑ । भोगा॑य । भ॒व॒ । वा॒यवे᳚ । त्वा॒ । वरु॑णाय । त्वा॒ । निर्.ऋ॑त्या॒ इति॒ निः - ऋ॒त्यै॒ । त्वा॒ । रु॒द्राय॑ । त्वा॒ । देवीः᳚ । आ॒पः॒ । अ॒पा॒म् । न॒पा॒त् । यः । ऊ॒र्मिः । ह॒वि॒ष्यः॑ । इ॒न्द्रि॒यावा॒निती᳚न्द्रि॒य - वा॒न् । म॒दिन्त॑मः । तम् । वः॒ । मा । अवेति॑ । क्र॒मि॒ष॒म् । अच्छि॑न्नम् । तन्तु᳚म् । पृ॒थि॒व्याः । अन्विति॑ । गे॒ष॒म् । भ॒द्रात् । अ॒भीति॑ । श्रेयः॑ । प्रेति॑ । इ॒हि॒ । बृह॒स्पतिः॑ । पु॒र॒ ए॒तेति॑ पुरः - ए॒ता । ते॒ । अ॒स्तु॒ । अथ॑ । ई॒म् । अवेति॑ । स्य॒ ( ) । वरे᳚ । एति॑ । पृ॒थि॒व्याः । आ॒रे । शत्रून्॑ । कृ॒णु॒हि॒ । सर्व॑वीर॒ इति॒ सर्व॑ - वी॒रः॒ । एति॑ । इ॒दम् । अ॒ग॒न्म॒ । दे॒व॒यज॑न॒मिति॑ देव - यज॑नम् । पृ॒थि॒व्याः । विश्वे᳚ । दे॒वाः । यत् । अजु॑षन्त । पूर्वे᳚ । ऋ॒ख्सा॒माभ्या॒मित्यृ॑ख्सा॒म -भ्या॒म् । यजु॑षा । सं॒तर॑न्त॒ इति॑ सं - तर॑न्तः । रा॒यः । पोषे॑ण । समिति॑ । इ॒षा । म॒दे॒म॒ ॥
पदसंख्या: 75