अनुवाकः 11 TS 1.2.11

(A11)

( त्वयि॑-चत्वारिꣳ॒॒शच्च॑ )

अनुवाकः 11 - Complete Audio

TS 1.2.11 - स्वरानुगामी

0:00 0:00
PS1.1 अꣳ॒॒शुरꣳ॑शुस्ते देव सो॒माऽऽ*प्या॑यता॒-मिन्द्रा॑यैकधन॒विद॒ आ
PS1.2 तुभ्य॒मिन्द्रः॑ प्यायता॒मा त्वमिन्द्रा॑य प्याय॒स्वाऽऽ*प्या॑यय॒
PS1.3 सखी᳚न्थ् स॒न्या मे॒धया᳚ स्व॒स्ति
PS1.4 ते॑ देव सोम सु॒त्याम॑शी॒येष्टा॒
PS1.5 रायः॒ प्रेषे भगा॑य॒र्तमृ॑तवा॒दिभ्यो॒ नमो॑
PS1.6 दि॒वे नमः॑ पृथि॒व्या अग्ने᳚
PS1.7 व्रतपते॒ त्वं ॅव्र॒तानां᳚ ॅव्र॒तप॑तिरसि॒
PS1.8 या मम॑ त॒नूरे॒षा सा
PS1.9 त्वयि॒ -[ ]
PS2.1 या तव॑ त॒नूरि॒यꣳ सा
PS2.2 मयि॑ स॒ह नौ᳚ व्रतपते
PS2.3 व्र॒तिनो᳚र् व्र॒तानि॒ या ते॑
PS2.4 अग्ने॒ रुद्रि॑या त॒नूस्तया॑ नः
PS2.5 पाहि॒ तस्या᳚स्ते॒ स्वाहा॒ या
PS2.6 ते॑ अग्नेऽयाश॒या र॑जाश॒या ह॑राश॒या
PS2.7 त॒नूर्वर्.षि॑ष्ठा गह्वरे॒ष्ठोऽग्रं ॅवचो॒ अपा॑वधीं
PS2.8 त्वे॒षं ॅवचो॒ अपा॑वधीꣳ॒॒ स्वाहा᳚

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 1.2.11.1 TS 1.2.11.1
अꣳ॒॒शुरꣳ॑शुस्ते देव सो॒माऽऽ*प्या॑यता॒-मिन्द्रा॑यैकधन॒विद॒ आ तुभ्य॒मिन्द्रः॑ प्यायता॒मा त्वमिन्द्रा॑य प्याय॒स्वाऽऽ*प्या॑यय॒ सखी᳚न्थ् स॒न्या मे॒धया᳚ स्व॒स्ति ते॑ देव सोम सु॒त्याम॑शी॒येष्टा॒ रायः॒ प्रेषे भगा॑य॒र्तमृ॑तवा॒दिभ्यो॒ नमो॑ दि॒वे नमः॑ पृथि॒व्या अग्ने᳚ व्रतपते॒ त्वं ॅव्र॒तानां᳚ ॅव्र॒तप॑तिरसि॒ या मम॑ त॒नूरे॒षा सा त्वयि॒ -[ ]
पदपाठः (Word-by-word)
अꣳ॒॒शुरꣳ॑शु॒रित्यꣳ॒॒शुः - अꣳ॒॒शुः॒ । ते॒ । दे॒व॒ । सो॒म॒ । एति॑ । प्या॒य॒ता॒म् । इन्द्रा॑य । ए॒क॒ध॒न॒विद॒ इत्ये॑कधन - विदे᳚ । एति॑ । तुभ्य᳚म् । इन्द्रः॑ । प्या॒य॒ता॒म् । एति॑ । त्वम् । इन्द्रा॑य । प्या॒य॒स्व॒ । एति॑ । प्या॒य॒य॒ । सखीन्॑ । स॒न्या । मे॒धया᳚ । स्व॒स्ति । ते॒ । दे॒व॒ । सो॒म॒ । सु॒त्याम् । अ॒शी॒य॒ । एष्टः॑ । रायः॑ । प्रेति॑ । इ॒षे । भगा॑य । ऋ॒तम् । ऋ॒त॒वा॒दिभ्य॒ इत्यृ॑तवा॒दि - भ्यः॒ । नमः॑ । दि॒वे । नमः॑ । पृ॒थि॒व्यै । अग्ने᳚ । व्र॒त॒प॒त॒ इति॑ व्रत - प॒ते॒ । त्वम् । व्र॒ताना᳚म् । व्र॒तप॑ति॒रिति॑ व्र॒त - प॒तिः॒ । अ॒सि॒ । या । मम॑ । त॒नूः । ए॒षा । सा । त्वयि॑ ।
पदसंख्या: 50
सायणभाष्यम् (Sayana Commentary)

(अथ प्रथमकाण्डे द्वितीयप्रपाठके एकादशोऽनुवाकः)।

दशमेऽनुवाक आतिथ्येष्टिरुक्ता। तन्मध्ये सोमः प्राग्वंशे स्थापितः। तेन सोमेन करिष्यमाणस्य यागस्य विघ्नकारिणोऽसुराः प्रथमं जेतव्या इति तद्विजयार्थमुपसद एकादशे वर्ण्यन्ते। तत्राऽऽदौ तावदतिथेः सोमस्य बन्धनोपद्रवपरिहारेणाप्यायनाद्युपचारः क्रियते।

अशुरिति। बौधायनः — “अथ मदन्तीरूपस्पृश्योपोत्थाय विस्रस्य हिरण्यमवधाय राजानमाप्याययति अशुरशुस्ते देव सोमाऽऽप्यायतामिन्द्रायैकधनविद आ तुभ्यमिन्द्रः प्यायतामा त्वमिन्द्राय प्यायस्वेति यजमानमभिवाचयति आ प्यायय सखीन्त्सन्या मेधया स्वस्ति ते देव सोम सुत्यामशीयेति” इति।

आपस्तम्बस्य तु एक एव मन्त्रः। मदन्ती(न्त्य)स्तप्ता आपः। अंशुः सूक्ष्मोऽवयवः। हे सोम देव ते योंऽशुः शुष्यति यश्चांशुः क्षीयते स सर्वोऽप्यंशुर्वर्धताम्। किमर्थम्। इन्द्रार्थम्। कीदृशायेन्द्राय, एकं मुख्यं शोभनं सोमरूपं धनं वेत्तीत्येकधनावित्तस्मै। हे सोम तुभ्यं त्वदर्थमिन्द्र आप्यायतां त्वां पातुमुत्सहताम्। त्वमपीन्द्रार्थमाप्यायस्व वर्धस्व। सखीनृत्विजः सन्या धनलाभेन मेधया प्रज्ञया च वर्धस्व। हे सोम देव ते स्वस्ति शुभमस्तु। त्वत्प्रसादेनाहं सुत्यामभिषवतन्त्रमशीय प्राप्नवानि।

एतन्मन्त्रं व्याख्यातुं प्रस्तौति —

“घृतं वै देवा वज्रं कृत्वा सोममघ्नन्नन्तिकमिव खलु वा अस्यैतच्चरन्ति यत्तानूनप्त्रेण प्रचरन्ति” (सं. का. ६ प्र. २ अ. २) इति।

पुरा कदाचित्स्वसामर्थ्याद्वज्रीकृतेन घृतेन सोमस्य देवैस्ताडितत्वात्सोमो घृताद्बिभेति। ऋत्विजश्च वेद्यां तानूनप्त्रेणाऽऽज्येन प्रचरन्तीति यदेतदस्य सोमस्यान्तिकं यथा भवति तथा चरन्ति। आहवनीयदक्षिणभागे सोमस्य स्थितत्वात्। अतो भीतः सोम आप्याययितव्यः।

आप्यायनस्यप्रसङ्गं दर्शयित्वा तन्मन्त्रं व्याचष्टे —

“अशुरशुस्ते देव सोमाऽऽप्यायतामित्याह यदेवास्यापुवायते यन्मीयते तदेवास्यैतेनाऽऽप्याययत्या तुभ्यमिन्द्रः प्यायतामा त्वमिन्द्राय प्यायस्वेत्याहोभावेवेन्द्रं च सोमं चाऽऽप्याययत्या प्यायय सखीन्त्सन्या मेधयेत्याहर्त्विजो वा अस्य सखायस्तानेवाऽऽप्याययति स्वस्ति ते देव सोम सुत्यामशीयेत्याहाऽऽशिषमेवैतामा शास्ते” (सं. का. ६ प्र. २ अ. २) इति।

अस्य सोमस्य यदङ्गमपुवायते शुष्यति यच्च मीयते।

एष्टेति। कल्पः – “न प्रस्तरायाऽऽश्रावयति न बर्हिरनुप्रहरति तं दक्षिणार्धे वेद्यै निधाय तस्मिन्दक्षिणोत्तरेण निह्नुवते एष्टा रायः प्रेषे भगायर्तमृतवादिभ्यो नमो दिवे नमः पृथिव्या इति” इति।

आतिथ्येष्टौ यः प्रस्तरो यच्च तत्रत्यं बर्हिस्तदुभयमग्नौ न प्रहरणीयं किंतु तं प्रस्तरं वेद्या दक्षिणार्धे निधाय तस्मिन्प्रस्तरे दक्षिणपाणीनुत्तानान्कृत्वा सव्यान्नीचैः कृत्वा सर्वे निह्नवमपलापसदृशं नमस्कारोपचारं कुर्युः। मन्त्रार्थस्तु एष्टृशब्द इच्छावन्तं द्यावापृथिव्यभिमानिनं देवमाचष्टे। स हि दयालुतया भक्तेषु पुरुषेष्विच्छावान्। हे तादृग्देव त्वमृतवादिभ्यो यज्ञवादिभ्योऽस्मभ्यमृतं यज्ञं प्रकृष्टं देहीत्याध्याहारः। किमर्थम्। रायो राये धनार्थम्। इषेऽन्नार्थम्। भगायैश्वर्यादिषङ्गुणार्थम्।

ते च गुणा एवं स्मर्यन्ते —

“एश्वर्यस्य समग्रस्य धर्मस्य यशसः श्रियः।ज्ञानवैराग्ययोश्चैव षण्णां भग इतीरणा” इति।

वयं पुनर्द्युदेवतायै भूदेवतायै च नमस्कुर्मः।

नायमकाण्डे नमस्कारः किंतु तस्य निमित्तमस्तीत्याह —

“प्र वा एतेऽस्माल्लोकाच्च्यवन्ते ये सोममाप्याययन्त्यन्तरिक्षदेवत्यो हि सोम आप्यायित एष्टा रायः प्रेषे भगायेत्याह द्यावापृथिवीभ्यामेव नमस्कृत्यास्मिँल्लोके प्रति तिष्ठन्ति” (सं. का. ६ प्र. २ अ. २) इति।

आप्यायितस्य सोमस्य नाभिदघ्न्यामासन्द्यां पर्यवस्थितत्वादन्तरिक्षदेवत्यत्वम्। तादृशस्य सोमस्याऽऽप्याययितारोऽपि तथाविधा इत्यास्माल्लोकात्प्रच्युता अतोऽस्मिँल्लोके प्रतिष्ठित्यै नमस्कारः क्रियते।

अग्ने इति। कल्पः – “अथ यजमानमवान्तरदीक्षामुपनयति अग्ने व्रतपते त्वं व्रतानां व्रतपतिरसि या मम तनूरेषा सा त्वयि या तव तनूरिय सा मयि सह नौ व्रतिनोर्व्रतानीति” इति।

अनेन मन्त्रेणाऽऽहवनीयस्योपस्थानम्। अत्रावान्तरदीक्षोपक्रमः। हेऽग्ने व्रतपते त्वं व्रतपतिरसि। नैकस्य व्रतस्य पतिः किंतु सर्वेषामिति विवक्षां द्योतयितुं व्रतानामित्युक्तम्। व्रतमाचरन्ती मदीया तनूस्त्वयि मनसा समर्पिता। त्वदीया तु व्रतं पालयन्ती तनूर्मयि मनसा स्थापिता। तथा सति आवामुभावपि व्रतिनौ संपद्यावहे। तयोर्व्रतानि सह प्रवर्तन्ताम्।

या त इति। कल्पः — “अथैनं संशास्ति संतरां मेखलां समायच्छस्व संतरां मुष्टी कुरष्व तप्तव्रत एधि मदन्तीभिर्मार्जयस्वोत्पूर्वं व्रतं सृज या ते अग्ने रुद्रिया तनूस्तया नः पाहि तस्यास्ते स्वाहेत्येनैवातोऽधिव्रतय” इति।

या मेखला पूर्वं मध्ये संनद्धा सा संकुचिततरा यथा भवति तथा नियन्तव्या। ये च मुष्टी कृते ते अप्यतिसंकोचेन दृढीकर्तव्ये। उष्णक्षीरी भवेदुष्णोदकी भवेत्। पूर्वचमसमुत्सृजेत् तत्र या ते अग्न इत्ययं मन्त्रः। अनेनैव मन्त्रेणात ऊर्ध्वं व्रतं पिबेत्। हेऽग्नै या तव तनूस्त्वयि रुद्रिया क्रूरा तयाऽस्मान्पालय। त्वदीयायास्तस्यास्तन्वा इदं हुतमस्तु।

अग्ने व्रतपत इत्यस्य मन्त्रस्य स्पष्टार्थतामभिप्रेत्यावान्तरदीक्षारम्भं विधत्ते —

“देवासुराः संयत्ता आसन्ते देवा बिभ्यतोऽग्निं प्राविशन्तस्मादाहुरग्निः सर्वा देवता इति तेऽग्निमेव वरूथं कृत्वाऽतुरानभ्यभवन्नग्निमिव खलु वा एष प्र वि-

शति योऽवान्तरदीक्षामुपैति भ्रातृव्याभिभूत्यै भवत्यात्मना पराऽस्य भ्रातृव्या भवति” (सं. का. ६ प्र. २ अ. २) इति।

परकायप्रवेशहेतुत्वाद्योगशास्त्रप्रसिद्धेन संयमविशेषण देवा अग्निमग्निशरीरं प्राविशन्। तपोरूपत्वेनाग्निसमानाऽवान्तरदीक्षा ततस्तामुपेयात्।

पूर्वोक्तां दीक्षामिदानीमुच्यमानावन्तरदीक्षां च प्रशंसति —

“आत्मानमेव दीक्षया पाति प्रजामवान्तरदीक्षया” (सं. का. ६ प्र. २ अ. २) इति।

अवान्तरदीक्षानियमान्विधत्ते —

“संतरां मेखला समायच्छते प्रजा ह्यात्मनोऽन्तरतरा तप्तव्रतो भवति मदन्तीभिर्मार्जयते निर्ह्यग्निः शीतेन वायति समिद्ध्यै” (सं. का. ६ प्र. २ अ. २) इति।

सर्वो जनः स्वात्मानं क्लेशयित्वाऽप्यपत्यानि सम्यक्परिपालयति। अतः स्वस्मादपि प्रजाऽभ्यन्तरा। मेखलायास्तु प्रजास्थानीयत्वेनान्तरत्वात्संश्लिष्टतरं यथा भवति तथा समाच्छादयेत्। शीतेन क्षीरेण शीताभिरद्भिश्चाग्निर्निर्वायति। तस्मादुदराग्निसमिन्धनाय पेयस्य क्षीरस्य मार्जनहेतोरुदकस्य चौष्ण्यं कर्तव्यम्।

व्रतमन्त्रे रुद्रियाशब्दाभिप्रायमाह —

“या ते अग्ने रुद्रिया तनूरित्याह स्वयैवैनद्देवतया व्रतयति सयोनित्वाय शान्त्यै” (सं. का. ६ प्र. २ अ. २) इति।

स्वोदराग्नेरपरं रूपं रुद्रिया तनूस्तया दुग्धे तप्ते सति स्वया देवतया सहै(स्वयै)व दुग्धं व्रतयति भुङ्क्ते। तच्च भोजनं सयोनित्वाय योनिभूतेनाग्निना साहित्याय। तच्च साहित्यमुग्रस्याग्नेः शान्त्यै भवति।

या ते अग्न इति। कल्पः — “आज्यस्थाल्याः स्रुवेणोपहत्य प्रथमामुपसदं जुहोति या ते अग्नेऽयाशया तनूर्विर्षिष्ठा गह्वरेष्ठो वचो अपावधीं त्वेषं वचो अपावधी स्वाहेति” इति।

अत्र या ते अग्नेऽयाशया रजाशया हराशया तनूर्वर्षिष्ठा गह्वरेष्ठेत्येतादृश(शो) [मन्त्र] आम्नातः। तस्मिन्नयाशयादिपदत्रयेण त्रयो मन्त्रा भवन्ति। तेषु प्रथममन्त्रे तनूरित्यादिरनुषज्यते। द्वितीयो तु या ते अग्न इति।

तनूरिति चोभयमनुषज्यते। तृतीये तु या ते अग्न इत्ययमेवानुषज्यते। तैरतैस्त्रिभिर्मन्त्रैस्त्रिषु दिनेषु क्रमेणोपसदाख्या आहुतयो होतव्याः। अयसि शेत इत्ययाशया लोहनिर्मिता। तथा रजते शेत इति रजाशया। हिरण्ये शेत इति हराशयान वर्षिष्ठा वृद्धतमा। गह्वरे स्प्रष्टुमशक्ये तप्ते लोहे तप्तरजते तप्तहिरण्ये वा तिष्टतीति गह्वरेष्ठा। अन्नपानयोरलाभेन क्षुधितोऽहं पिपासितोऽहमित्युक्तिरुग्रं वचस्तदेतदैहिकमामुष्मिकं तु त्वेषं दीपकं मनसः संतापजनकं वचः। तत्तु जना इत्थं वदन्ति – अद्य गोवधाद्युपपातकलक्षणमेनः प्राप्तं विद्वद्ब्राह्मणवधादिरूपा वीरहत्या प्राप्तेति। इदं तु पदव्याख्यानमन्यत्र ब्राह्मणं स्पष्टमाम्नातम् — “अशनयापिपासे ह वा उग्रं वचः। एनश्च वैरहत्यं च त्वेषं वचः” इति। अत्रायं वाक्यार्थः — हेऽग्ने या तवायाशया तनूस्तयाऽहं द्वे अपि वचसी अपावधीं नाशितवानस्मि। एवमुत्तरयोरपि योज्यम्। तस्मा अग्नय इदं हुतमस्तु।

त्रीनेतानुपसद्धोमान्विधातुं प्रस्तौति —

“तेषामसुराणां तिस्त्रः पुर आसन्नयस्मय्यवमाऽथ रजताऽथ हरिणी ता देवा जेतुं नाशक्नुवन्ता उपसदैवाजिगीषन्तस्मादाहुर्यश्चैवं वेद यश्च नोपसदा वै महापुरं जयन्तीति त इषु समस्कुर्वताग्निमनीक सोम शल्यं विष्णुं तेजनं तेऽब्रुवन्क इमामसिष्यतीति रुद्र इत्यब्रुवन्रुद्रोवै क्रूरः सोऽस्यत्विति सोऽब्रवीद्वरं वृणा अहमेव पशूनामधिपतिरसानीति तस्माद्रुद्रः पशूनामधिपतिस्ता रुद्रोऽवासृजत्स तिस्रः पुरो भित्त्वैभ्यो लोकेभ्योऽसुरान्प्राणुदत” (सं. का. ६ प्र. २ अ. २) इति।

ये पूर्वमग्निना वरूथेन पराभूता असुरास्तेषामसुराणां पृथिव्यन्तरिक्षद्युलोकेषु स्वरक्षार्थं तिस्रः पुरो दुर्गरूपा आसन्। तासु पृथिवीवर्तिनी लोहप्राकारवेष्टिता। तादृशीः पुरो देवा अग्निना वरूथेनापि जेतुमशक्ता युद्धं परित्याज्योपसदैव जेतुमैच्छन्। दुर्गं परितोऽवरुध्य चिरं तत्समीपेऽवस्थाय तमुप(पा)वसन् चिरकालावस्थाने सति दुर्गमध्येऽन्नपानादिक्षयादन्तर्भेदाद्वा जयो भव[ती]ति। यस्माद्देवैश्चिरवासो जयोपायत्वेन विचारितस्तस्माल्लोकेऽप्याहुः। के किमाहुः। यश्च ब्राह्मणादिर्वेदाध्ययनेन वेदविचारं जानाति यश्च शूद्रादिर्न जानाति ते सर्वेऽपि युद्धेनाजेयं महापुरमुपसदा जेतुं शक्यमित्याहुः। ततो देवाः कालविलम्बो मा भूदिति विचार्य युद्धेनैव जेतुमिषुं संस्कृतवन्तः। अग्निं सोमं विष्णुं च संभूयैकबाणं कृत्वा तेन जेतुमुद्युक्ताः। अनीकशब्दो बाणस्य प्रथमभागकाष्ठमाचष्टे। शल्यशब्दो लोहम्। तेजनशब्दस्तदग्रम्। तामिमां देवतात्रयसमष्टिरूपामिषुं स्त्रीबालसहितकृत्स्नासुरघातिनीं को नाम मोक्ष्यतीति विचार्य शक्तो निर्घृणश्च रुद्र इति निश्चित्य तस्मै वरं दत्तवन्तः। स रुद्रस्तामिषुं मुक्त्वा तया प्राकारत्रयं विभिद्य त्रिभ्यो लोकेभ्योऽसुरान्निःसारयामास।

विधत्ते —

“यदुपसद उपसद्यन्ते भ्रातृव्यपराणुत्त्यै” (सं. का. ६ प्र. २ अ. ३) इति।

वैरिदुर्गोपसदनकार्यकारित्वादेता आहुतय उपसद इत्युच्यन्ते। तत्राग्निः सोमो विष्णुरित्येवंरूपास्तिस्रो देवतास्तासां याज्यापुरोनुवाक्या हौत्र एवाऽऽम्नायन्ते। अयाशयादितनुधारी वह्निश्चतुर्थी देवता। तदीयमन्त्र आध्वर्यवत्वादत्रैवाऽऽम्नातः। उपसदामाज्यहविष्ट्वेनोपांशुयाजवत्प्रयाजाज्यभागाद्याहुतिप्रसक्तौ प्रतिषेधति —

“नान्यामाहुतिं पुरस्ताज्जुहुयाद्यदन्यामाहुतिं पुरस्ताज्जुहुयादन्यन्प्रुखं कुर्यात्” (सं. का. ६ प्र. २ अ. ३) इति।

अग्निमनीकमिति बाणव्याजेनाग्नेः प्रथमभावित्वलक्षणं मुखत्वमुक्तम्। तत्र प्रयाजादिहोमे वह्नेर्मुखत्वं हीयेत।

आहुत्यन्तराणां सर्वेषां निषेधप्राप्तौ कांचिदाहुतिं विधत्ते —

“स्रुवेणाऽऽघारमा घारयति यज्ञस्य प्रज्ञात्यै” (सं. का. ६ प्र. २ अ. ३) इति।

दर्शपूर्णमासादियज्ञानामाघारोपेतत्वादुपसदामपि यज्ञत्वप्रत्यभिज्ञानाय स्रुवाघारः।

तिसृणामुपसदां होमप्रकारं विधत्ते —

“पराङतिक्रम्य जुहोति पराच एवैभ्यो लोकेभ्यो यजमानो भ्रातृव्यान्प्र णुदते” (सं. का. ६ प्र. २ अ. ३) इति।

पराङ्पुनरावृत्तिरहितो वेद्याहवनीययोर्मध्यमतिक्रम्य दक्षिणस्यां दिश्युदङ्गमुखः स्थित्वा क्रमेणाग्नेः सोमस्य विष्णोश्च तिस्र आहुतीर्जुहुयात्। तथा सति वैरिणोऽपि पुनरावृत्तिरहितानेव कृत्वा लोकत्रयान्निःसारयति।

चतुर्थाहुतिप्रकारं विधत्ते —

“पुनरत्याक्रम्योपसदं जुहोति प्रणुद्यैवैभ्यो लोकेभ्यो भ्रातृव्याञ्जित्वा भ्रातृव्यलोकमभ्यारोहति” (सं. का. ६ प्र. २ अ. ३) इति।

दक्षिणदेशादुत्तरस्यां दिशि समागत्य चतुर्थीमुपसद जुहुयात्। तथा सति वैरिणो निःसार्य स्वर्गं गत्वा वैरिस्थानं पुरत्रयमधितिष्ठति।

अत्र सूत्रम् — “ध्रौवादष्टौ जुह्वां गृह्णाति चतुरुपभृति घृतवतिशब्दे जुहूपभृतावादाय दक्षिणा सकृदतिक्रान्त उपाशुयाजवत्प्रचरत्यर्धेन जौहवस्याग्निं यजति। अर्धेन सोममौपभृतं जुह्वामानीय विष्णुमिष्ट्वा प्रत्याक्रम्य या ते अग्नेऽयाशया तनूरिति स्रुवेणोपसदं जुहोति” इति।

कालद्वये तदनुष्ठानं विधत्ते —

“देवा वै याः प्रातरुपसद उपासीदन्नह्नस्ताभिरसुरान्प्राणुदन्त याः साय रात्रियै ताभिर्यत्सायंप्रातरुपसद उपसद्यन्तेऽहोरात्राभ्यामेव तद्यजमानो भ्रातृव्यान्प्रणुदते” (सं. का. ६ प्र. २ अ. ३) इति।

उपासीदन्ननुष्ठितवन्तः। प्रातरनुष्ठिताभिरह्नो वैरिनिःसारणं सायमनुष्ठिताभिस्तु रात्रेः।

कालद्वये याज्यानुवाक्ययोर्व्यत्यासं विधत्ते —

“याः प्रातर्याज्याः स्युस्ताः सायं पुरोनुवाक्याः कुर्यादयातयामत्वाय” (सं. का. ६ प्र. २ अ. ३) इति।

यातयामत्वं गतरसत्वं तद्वर्जनाय व्यत्यासः।

दिनत्रये तदनुष्ठानं विधत्ते —

“तिस्र उपसद उपैति त्रय इमे लोका इमानेव लोकान्प्रीणाति” (सं. का. ६ प्र. २ अ. ३) इति।

त्रिषु दिनेषु कालद्वयेऽनुष्ठानं प्रशंसति —

“षट्सं पद्यन्ते षड्वा ऋतव ऋतूनेव प्रीणाति” (सं. का. ६ प्र. २ अ. ३) इति।

प्रसङ्गादहीने द्विरात्रादावुपसद्दिनसंख्यां विधत्ते —

“द्वादशाहीने सोम उपैति द्वादश मासाः संवत्सरः संवत्सरमेव प्रीणाति” (सं. का. ६ प्र. २ अ. ३) इति।

अहःसंघेन निष्पाद्यः सोमयागोऽहीनः। सत्रमप्यनेनोपलक्ष्यते। अहःसमूहस्य समानत्वात्।

द्वादशदिनेषु कालद्वयानुष्ठानं प्रशंसति —

“चतुर्विंशतिः संपद्यन्ते चतुर्विशतिरर्धमासा अर्धमासानेव प्रीणाति” (सं. का. ६ प्र. २ अ. ३) इति।

एतेषूपसद्दिनेष्ववान्तरदीक्षान्व्रतपाने स्तनसंख्यां विधत्ते —

“आराग्रामवान्तरदीक्षामुपेयाद्यः कामयेतास्मिन्मे लोकेऽर्धुक स्यादित्येकमग्नेऽथ द्वावथ त्रीनथ चतुर एषा वा आराग्राऽवान्तरदीक्षाऽस्मिन्नेवास्मै लोकेऽर्धुकं भवति” (सं. का. ६ प्र. २ अ. ६) इति।

बलीवर्दप्रतोदनं लोहमारं तद्वदल्पमग्रं मुखं यस्याः साऽऽराग्रा। अर्धुकं समृद्धिशीलं फलम्। सोमक्रयदिने सायमेकं स्तनं दुह्यात्, अपरेद्युः प्रातर्द्वौ स्तनौ, सायं त्रीन्स्तनान्, परेद्युः प्रातश्चतुरः।

यस्तु परलोकसमृद्धिकामस्तस्योक्तवैपरीत्यं विधत्ते —

“परोवरीयसीमवान्तरदीक्षामुपेयाद्यः कामयेतामुष्मिन्मे लोकेऽर्धुक स्यादिति चतुरोऽग्रेऽथ त्रीनथ द्वावथैकमेषा वै परोवरीयस्यवान्तरदीक्षाऽमुष्मिन्नेवास्मै लोकेऽर्धुकं भवति” (सं. का. ६ प्र. २ अ. ३) इति।

परःशब्देनात्र श्रेष्ठत्वादुपक्रमो विवक्षितः। उपक्रमे वरीयोऽधिकं यस्याः सा परोवरीयसी। अयं पक्षः सूत्र उपन्यस्तः — “यदहः सोमं क्रीणीयुस्तदहश्चतुरः सायं दुह्युस्त्रीन्प्रातर्द्वौ सायमेकमुत्तमे” इति।

अशक्तस्य क्षीरव्रतादूर्ध्वमाहारमल्पमनुजानाति —

“सुवर्णं वा एते लोकं यन्ति य उपसद उपयन्ति तेषां य उन्नयते हीयत एव स नोदनेषीति सून्नीयमिव” (सं. का. ६ प्र. २ अ. ४) इति।

उपसदां स्वर्गप्राप्तिहेतुत्वात्तदनुष्ठायिभिरवहितैर्भवितव्यम्। तेषां मध्ये यः कोऽपि हीनमनस्को यथोक्तव्रतादूर्ध्वमोदनादिकमन्तर्नयेत्स स्वर्गाद्धीयत एव। तस्मादशक्तोऽपि श्रद्धालुतया नोदनेषि न किंचिदपि व्रतादूर्ध्वमन्तर्नेष्यामीति यदि मन्येत तेन सून्नीयमिव शोभनं वाक्यान्तराभ्यनुज्ञातं वस्तून्नीतमिव कुर्यात्।

अशक्तिपरिहारमात्रोपयुक्तं किंचिदेव स्वीकार्तव्यम्। वाक्यान्तरं तु कूष्माण्डहोमप्रकरणे समाम्नायते — “पयो ब्राह्मणस्य व्रतं यवागू राजन्यस्याऽऽमिक्षा वैश्यस्याथो सौम्यैऽप्यध्वर एतद्व्रतं ब्रूयाद्यदि मन्येतोपदस्यामीत्योदनं धानाः सक्तून्घृतमित्यनुव्रतयेदात्मनोऽनुपदासाय” इति। उपदस्याभ्युपक्षीणो भवामि।

अनुव्रते कृतेऽपि फलभ्रंशो नास्तीत्यस्मिन्नर्थे दृष्टान्तमाह —

“यो वै स्वार्थेतां यता श्रान्तो हीयत उत स निष्ट्याय सह वसति” (सं. का. ६ प्र. २ अ. ४) इति।

स्वार्थं यन्ति गच्छन्तीति स्वार्थेतस्तेषां स्वार्थेताम्। यतन्त इति यतस्तेषां यताम्। मकरमासे प्रयागस्नानं केषांचित्स्वार्थस्तं प्राप्तुं प्रयतमानानां स्वग्रामान्निर्गत्य गच्छतां मध्ये यः कश्चिच्छ्रान्तो गन्तुमशक्तः संक्रान्तिकालीनस्नानाद्धीयते सोऽपि निष्ट्याय परेद्युर्निर्गत्य तीर्थे गत्वा तैस्तीर्थवासिभिः सहावशिष्टं मासं वसति तद्वदयमप्येकेनानुव्रतेनाशक्तिं परिहृत्य शिष्टं नियममनुतिष्ठेत्।

तमिममर्थं निगमयति —

“तस्मात्सकृदुन्नीय नापरमुन्नयेत” (सं. का. ६ प्र. २ अ. ४) इति।

सकृदुन्नयने द्रव्यं विधत्ते —

“दध्नोन्नयेतैतद्वै पशूना रूप रूपेणैव पशूनव रुन्धे” (सं. का. ६ प्र. २ अ. ४) इति।

अथ सौमिकीं वेदिं विधातुं प्रस्तौति —

“यज्ञो देवेभ्यो निलायत विष्णू रूपं कृत्वा स पृथिवीं प्राविशत्तं देवा हस्तान्त्सरभ्यैच्छन्तमिन्द्र उपर्युपर्यत्यक्रामत्सोऽब्रवीत्को माऽयमुपर्युपर्यत्यक्रमीदित्यहं दुर्गे हन्तेत्यथ कस्त्वमित्यहं दुर्गादाहर्तेति सोऽब्रवीद्दुर्गे वै हन्ताऽवोचथा वराहोऽयं वाममोषः सप्तानां गिरीणां परस्ताद्वित्तं वेद्यमसुराणां बिभर्ति तं जहि यदि दुर्गे हन्ताऽसीति स दर्भपुञ्जीलमुद्वृत्य सप्तगिरीन्भित्त्वा तमहन्त्सोऽब्रवीद्दुर्गाद्वा आहर्ताऽवोचथा एतमा हरेति तमेभ्यो यज्ञ एव यज्ञमाऽहरद्यत्तद्वित्तं वेद्यमसुराणामविन्दन्त तदेकं वेद्यै वेदित्वम्” (सं. का. ६ प्र. २ अ. ४) इति।

स्वर्गलोके स्थितो यज्ञपुरुषस्तिरोधानाय विष्णुर्भूत्वा वैष्णवं रूपं संपूर्णं कृत्वा देवेभ्यः पलाय्य पृथिवीं प्राविशत्। देवाश्च पृष्ठत एव समागत्य हस्तान्प्रसार्य तं धर्तुमैच्छन्। अयं यज्ञो यत्र यत्र गच्छति तत्र तत्रेन्द्रस्तमतिक्रम्य पुरतो मार्गमवरुध्यातिष्ठत्। कोऽयं मामत्यक्रमीदिति यज्ञेनाऽक्षिप्त इन्द्रः केनाप्यगम्ये दुर्गे गत्वा विरोधिनं ताडयिष्यामीति स्वमहिमानं प्रतिजज्ञे। अथैवं मच्छक्तेः परीक्षकः को नाम त्वमसीतीन्द्रेणाऽऽक्षिप्तो यज्ञस्तादृशश्च दुर्गात्तं विरोधिनमाहरिष्यामीति स्वाशक्तिं प्रतिजज्ञौ(ज्ञे)। प्रतिज्ञाय स्वकीयं पूर्ववृत्तान्तमिन्द्रस्य पुरतः सर्वमवोचत्। पुरा कदाचिदसुरप्राबल्यं दृष्ट्वा मदङ्गभूतदीक्षाद्यभिमानिनः सर्वेऽपि स्वर्गलोकवासिनो मत्तो निर्गत्य पृथिवीं प्राविशन्। ते च के, चतुस्रो दीक्षास्तिस्र उपसद एका सुत्येत्यष्टदिवससाध्यानि कर्माणि।। तत्र दीक्षोपसदः सप्तपृथिव्यां गत्वा गिरयोऽभवन्। सुत्याभिमानी देवो वाममोषो वामं कमनीयं सौमिकवेदिग्रहचमसादिरूपं दैवं वित्तं मुष्णात्यपहरतीति वाममोषः। स च मुषितं तत्सर्वमसुरेभ्यो दत्त्वा स्वयं वराहो भूत्वा सप्तभ्यो गिरिभ्यः परस्तादसुराणां तद्वित्तं स्थितं विरोधिनं हन्ताऽसि तर्हि तं वराहं जहीत्युक्त इन्द्रो दर्भस्तम्बेनैव गिरीन्भित्त्वा वराहं ताडितवान्। तत इन्द्रो यज्ञमुवाच विरोधिनमाहरिष्यामीति यत्प्रतिज्ञातं तत्कर्तुं शक्नोषि चेदेनं विरोधिनं वराहमाहरेत्युक्तो यज्ञाभिमान्यवे तं वराहाकारं वेदिग्रहचमसादिवित्तोपेतं यज्ञमेभ्यो देवेभ्य आहृत्य ददौ। यस्माद्देवैर्लब्धव्यमसुराणां तद्वेदिरूपं वित्तं देवा अविन्दन्तालभन्त तस्माद्विद्यते लभ्यत इति व्युत्पत्त्या वेदेर्वेदिनाम संपन्नम्। वक्ष्यमाणमपेक्ष्यायमेकः प्रकारः। तस्मादेकं वेदित्वमित्युच्यते।

प्रकारान्तरेणापि वेदित्वं दर्शयति —

“असुराणां वा इयमग्र आसीद्यावदासीनः परापश्यति तावद्देवानां ते देवा अब्रुवन्नस्त्वेव नोऽस्यामपीति कियद्वो दास्याम इति यावदिय सलावृकी त्रिः परिक्रामति तावन्नो दत्तेति स इन्द्रः सलावृकी रूपं कृत्वेमां त्रिः सर्वतः पर्यक्रामत्तदिमामविन्दन्त यदिमामविन्दन्त तद्वेद्यै वेदित्वम्” (सं. का. ६ प्रं. २ अ. ४) इति।

दार्शिके वेदिब्राह्मणेऽप्येतदुपाख्यानं श्रुतम्। तत्र वसवस्त्वेति मन्त्रैर्यावान्प्रदेशः परिगृहीतस्तावत्येव वेदिः। अत्र तु कृत्स्नाऽपि भूमिर्वेदिरिति विशेषः।

कृत्स्नभूमेर्वेदित्वेऽपि यागोपयुक्तप्रदेशः पृथक्कल्पनीय इति विधत्ते —

“सा वा इय सर्वैव वेदिरियति शक्ष्यामीति त्वा अवमाय यजन्ते” (सं. का. ६ प्रं. २ अ. ४)इति।

भूमिः सर्वा यद्यपि वेदिरेव तथाऽपि न यत्र क्वापि यष्टव्यं किंत्वेतावति प्रदेशे सदोहविर्धानादिकं निर्मातुं शक्ष्यामीति निश्चित्य तावन्तं प्रदेशमवमाय पदैः परिमित्य तस्मिन्प्रदेशे यजेरन्।

तत्र पदसंख्यां विधत्ते —

“त्रिशत्पदानि पश्चात्तिरश्ची भवति षट्त्रिशत्प्राची चतुर्विशतिः पुरस्तात्तिरश्ची दशदश सं पद्यन्ते दशाक्षरा विराडन्नं विराड्विराजैवान्नाद्यमव रुन्धे” [सं. का. ६ प्रं. २ अ. ४] इति।

अत्रोक्तपदसंख्यायां सर्वस्यां मेलितायां नवसंख्याकानि दशकानि संपद्यन्ते। तदेवं वेदिप्रदेशप्रमाणं मध्यम उपसद्दिने प्रातःकालीनाया उपसद ऊर्ध्वं कर्तव्यम्।

तथा च सूत्रम् — “अन्तरा मध्यमे प्रवर्ग्योपसदौ वेदिं कुर्वन्ति प्राग्वंशस्य मध्यमाल्लालाटिकात् त्रीन्प्राचः प्रक्रमान्प्रक्रम्य शङ्कुं निहन्ति तस्मात्पञ्चदशसु दक्षिणत एवमुत्तरतस्ते श्रोणी प्रथमनिहिताच्छङ्कोः षट्त्रिंशतिः पुरस्तात्तस्माद्द्वादशसु दक्षिणत एवमुत्तरतस्तावंसौ” इति।

यथोक्तपरिमाणवति प्रदेश उपरितनमृत्तिकाया अपनयनं विधत्ते —

“उद्धन्ति यदेवास्या अमेध्यं तदपहन्ति” (सं. का. ६ प्रं. २ अ. ४) इति।

निष्ठीवनादिकृतमशुचित्वमुद्धनेनापैति।

तमेव विधिमनूद्य प्रशंसति —

“उद्धन्ति तस्मादोषधयः परा भवन्ति बर्हिः स्तृणाति तस्मादोषधयः पुनरा भवन्ति” [सं. का. ६ प्रं. २ अ. ३] इति।

पूर्वं तस्मिन्प्रदेशे समुत्पन्नास्तृणविशेषा उद्धननेन पराभूता भवन्ति तस्मात्कृत्स्नवेद्यां बर्हिरास्तरणादोषधयः पुनरागता भवन्ति।

तस्य बर्हिष उपरि पुनरप्यग्नीषोमीयपश्वर्थं बर्हिरुत्तरवेदिप्रदेशे स्तृणीयादिति विधत्ते —

“उत्तरं बर्हिष उत्तरबर्हिः स्तृणाति प्रजा वै बर्हिर्यजमान उत्तरबर्हिर्यजमानमेवायजमानादुत्तरं करोति तस्माद्यजमानोऽयजमानादुत्तरः” (सं. का. ६ प्रं. २ अ. ४) इति।

उत्कृष्ट इत्यर्थः।

यत्पूर्वं विहितं तिस्र उपसद उपैति द्वादशाहीने सोम उपैतीति तत्र विपक्षस्वपक्षयोर्बाधाबाधावुपन्यस्यति —

“यद्वा अनीशानो भारमादत्ते वि वै स लिशते यद्द्वादश साह्नस्योपसदः स्युस्तिस्रोऽहीनस्य यज्ञस्य विलोम क्रियेत तिस्त्र एव साह्नस्योपसदो द्वादशाही

नस्य यज्ञस्य सवीयंत्वायाथो सलोम क्रियते” (सं. का. ६ प्रं. २ अ. ५ ) इति।

लोके यद्यशक्तः कश्चित्प्रौढं भारं वोढुमाददीत तदा स विलिशते विशेषेणाल्पी भवति उत्थातुमप्यशक्तो भूमौ पतेत्। तद्वदत्रापि योज्यते। अह्ना सह वर्तत इति साह्न एकाहो ज्योतिष्टोमः। अहःसंघसाध्योऽहीनो द्विरात्रादिः। तत्र यद्यल्पस्य साह्नस्य द्वादश स्युर्यदि वाऽधिकस्याहीनस्य तिस्रः स्युस्तदा विलोम विपरीतं क्रियेत। तथा सति साह्नस्य वीर्यं हीयेत। स्वपक्षे तु नास्ति तदुभयम्।

यच्चान्यत्पूर्वं विहितमाराग्रामवान्तरदीक्षामुपेयादिति तत्प्रशंसति —

“वत्सस्यैकः स्तनो भागी हि सोऽथैक स्तनं व्रतमुपैत्यथ द्वावथ त्रीनथ चतुर एतद्वै क्षुरपवि नाम व्रतं येन प्र जातान्भ्रातृव्यान्नुदते प्रति जनिष्यमाणानथो कनीयसैव भूय उपैति” (सं. का. ६ प्रं. २ अ. ५) इति।

वत्सस्य भागो यः स्तनस्तस्मिन्नप्यल्पं पयो यजमानश्चतुर्थे पर्याये स्वी करोति। ततोऽस्य चतुस्तननियमः सिध्यति। तदेतदेकस्तनादिकं व्रतं क्षुरपवीत्युच्यते। पविर्वज्रं तेन तीक्ष्णत्वमुपलक्ष्यते। क्षुरवत्पविस्तैक्ष्णयं यस्याऽऽराग्राव्रतस्य तेन व्रतेन पूर्वमुत्पन्नान्वैरिणो विनाशयति जनिष्यमाणांश्च प्रतिबध्नाति। किंचात्यल्पेन कर्मणा भूयः फलं प्राप्नोति। यथोप्तेनाल्पेन बीजेन प्रौढं वृक्षं फलं प्राप्नोति तद्वत्।

यदन्यत्पूर्वं विहितं परोवरीयसीमवान्तरदीक्षामुपेयादिति तत्प्रशंसति —

“चतुरोऽग्रे स्तनान्व्रतमुपैत्यथ त्रीनथ द्वावथैकमेतद्वै सुजघनं नाम व्रतं तपस्य सुवर्ग्यमथो प्रैव जायते प्रजया पशुभिः” (सं. का. ६ प्रं. २ अ. ५) इति।

यथा रूपवत्या युवत्या योषितो जघनप्रदेशः स्थूलस्तस्योपरि देहमध्यप्रदेशः कृशस्तद्वदस्य व्रतस्याधोभागश्चतुस्तन उपरिभाग एकस्तन इति सुजघनमिति नाम। तपस्यमुत्तरोत्तरमाहारक्षयात्तपसो योग्यम्। अत एव स्वर्गसाधानम्। किंच सुजघनत्वादेव प्रजाः पशूंश्च प्रजनयति।

त्रैवर्णिकानां मध्ये क्षत्त्रियस्य द्रव्यं विधत्ते —

“यवागू राजन्यस्य व्रतं क्रूरेव वै यवागूः क्रूर इव राजन्यो वज्रस्य रूप समृद्ध्यै” (सं. का. ६ प्रं. २ अ. ५) इति।

यवाग्वा ओदनवत्तृप्तिहेतुत्वाभावात्क्रूरत्वम्। राज्यन्यो दुष्टशिक्षकत्वात्क्रूरः। उभयं मिलित्वा यद्वज्रसदृशं तच्चानिष्टनिवर्तकत्वेन समृद्ध्यै भवति।

विधत्ते — ‘आमिक्षा वैश्यस्य पाकयज्ञस्य रूपं पुष्ट्यै’ (सं. का. ६ प्रं. २ अ. ५) इति।

तप्ते पयसि दधिप्रक्षेपेण घनीभूतो भागोऽसावामिक्षा। पक्वेन पुरोडाशादिना कृतो यज्ञः पाकयज्ञः। आमिक्षायाः पक्वपयोनिष्पन्नत्वात्पाकयज्ञस्य रूपमतः पुष्ट्यै भवति।

विधत्ते —

‘पयो ब्राह्मणस्य तेजो वै ब्राह्मणस्तेजः पयस्तेजसैव तेजः पय आत्मन्धत्तेऽथो पयसा वै गर्भा वर्धन्ते गर्भ इव खलु वा एष यद्दीक्षितो यदस्य पयो व्रतं भवत्यात्मानमेव तद्वर्धयति’ [सं. का. ६ प्रं. २ अ. ५] इति।

ब्राह्मणोऽध्यापनादिरूपेण तेजसा युक्तः। पयसस्तेजोवत्स्वच्छरूपत्वात्स्वयमेव तेजस्वि। पयसि पीते सति स्वकीयेन तेजसा सह पयोरूपं तेज आत्मनि धृतं भवति। किंच दीक्षितस्य गर्भरूपत्वात्पयसा वृद्धिर्युज्यते।

मध्याह्नमध्यरात्रयोर्व्रतकालत्वं विधातुं प्रस्तौति —

“त्रिव्रतो वै मनुरासीद्द्विव्रता असुरा एकव्रता देवाः प्रातर्मध्यंदिने सायं तन्मनोर्व्रतमासीत्पाकयज्ञस्य रूपं पुष्ट्यै प्रातश्च सायं चासुराणां निर्मध्यं क्षुधोरूपं ततस्ते पराऽभवन्मध्यंदिने मध्यरात्रे देवानां ततस्तेऽभवन्त्सुवर्गं लोकमायन्” (सं. का. ६ प्रं. २ अ. ५) इति।

अहनि त्रिषु कालेषु व्रतं भोजनं कुर्वतो मनोरेकस्मिन्नेव काले व्रतं कुर्वतां देवानां च मध्याह्नकाले व्रतमस्ति। स च कालः क्षुधः स्वरूपम्। तस्मिन्व्रतरहिता असुराः पराभूताः। व्रतयुक्तास्तु मनुर्देवाश्च पुष्टिं स्वर्गं च प्राप्ताः। ततो मध्याह्नकालः प्रशस्तः।

विधत्ते —

“यदस्य मध्यंदिने मध्यरात्रे व्रतं भवति मध्यतो वा अन्नेन भुञ्जते मध्यत एव तदूर्जं धत्ते भ्रातृव्याभिभूत्यै भवत्यात्मना पराऽस्य भ्रातृव्यो भवति” (सं. का. ६ प्रं. २ अ. ५) इति।

मुखमध्येऽन्नस्य भोजनमुदरमध्येऽन्नस्य च धारणं यथा लोके तथैवात्रापि मध्याह्ने मध्यरात्रे च व्रतं कर्तव्यम्।

दीक्षितस्य स्वनिवासस्थानात्प्रवासं निषेधति —

“गर्भो वा एष यद्दीक्षितो योनिर्दीक्षितविमितं यद्दीक्षितो दीक्षितविमितात्प्रवसेद्यथा योनेर्गर्भः स्यन्दति तादृगेव तन्न प्रवस्तव्यमात्मनो गोपीथाय” (सं. का. ६ प्रं. २ अ. ५) इति।

दीक्षितो विशेषेण मीयते प्रक्षिप्यते यस्मिञ्शालास्थाने तद्दीक्षितविमितं तस्य योनिरूपत्वात्। ततोऽस्य निर्गमनं गर्भस्रावसमम्। तत आत्मरक्षणार्थं न निर्गन्तव्यम्।

एतमेव निषेधं प्रकारान्तरेण प्रशंसति –

‘एष वै व्याघ्रः कुलगोपो यदग्निस्तस्माद्यद्दीक्षितः प्रवसेत्स एनमीश्वरोऽनूत्याय हन्तोर्न प्रवस्तव्यमात्मनो गुप्त्यै’ (सं. का. ६ प्रं. २ अ. ५) इति।

एष एवाऽऽहवंनीयोऽग्निः प्रवसतो व्याघ्रवद्धिंसको निवसतः कुलरक्षकः तस्मात्सोऽग्निः प्रवसन्तमेनमनु स्वयमुत्थाय हन्तुं समर्थः। प्रवासाभावस्त्वात्मनो रक्षणाय भवति।

आहवनीयस्य दक्षिणदेशं शयनार्थं विधत्ते —

‘दक्षिणतः शय एतद्वै यजमानस्याऽऽयतन स्व एवाऽऽयतने शये’ (सं. का. ६ प्रं. २ अ. ५) इति।

शेत इत्यर्थः।

शयनस्याऽऽहवनीयाभिमुख्यं विधत्ते —

‘अग्निमभ्यावृत्य शये देवता एव यज्ञमभ्यावृत्य शये’ (सं. का. ६ प्रं. २ अ. ५) इति।

अथ काम्यानि देवयजनानि विधीयन्ते। तत्र पुरोहविरादयः संज्ञाविशेषा उक्थ्यषोडश्यतिरात्राद्युत्तरयज्ञाः। स्वर्गकामिनं(णं) प्रति विधत्ते —

“पुरोहविषि देवयजने याजयेद्यं कामयेतोपैनमुत्तरो यज्ञो नमेदभि सुवर्गं लोकं जयेदिति” (सं. का. ६ प्रं. २ अ. ६) इति।

अनेन प्रकरेण यं यजमानमुद्दिश्य कामयेत तं पुरोहविर्नामके याजयेत्।

तस्य लक्षणमाह —

‘एतद्वै पुरोहविर्देवयजनं यस्य होता प्रातरनुवाकमनुब्रुवन्नग्निमप आदित्यमभि विपश्यति’ (सं. का. ६ प्रं. २ अ. ६) इति।

यस्य देवयजनस्य हविर्धानमण्डप आसीनः प्राङ्मुखो होता प्रातरनुवाकनामकं शस्त्रं पठेत्(ठन्) पुरोवर्तिनमाहवनीयाग्निं ततः प्राग्वर्तिनं नदीतडागादिजलं ततोऽपि, प्राग्दिश्युद्यन्तमादित्यं चाऽऽभिमुख्येन युगपत्पश्यत्येतादृग्देवयजनं पुरोहविरित्युच्यते।

कामितफलसिद्धिं दर्शयति —

“उपैनमुत्तरो यज्ञो नमत्यभि सुवर्गं लोकं जयति” [सं. का. ६ प्रं. २ अ. १] इति।

अन्यद्विधत्ते –

“आप्ते देवयजने याजयेद्भ्रातृव्यवन्तम्” [सं. का. ६ प्रं. २ अ. ६] इति।

आप्तनामकस्य लक्षणमाह —

“पन्थां वाऽधिस्पर्शयेत्कर्तं वा यावन्नानसे यातवै न रथायैतद्वा आप्तं देवयजनम्” (सं. का. ६ प्रं. २ अ. ६) इति।

प्रौढं राजमार्गं प्रौढं गर्तं वा विलोक्यऽऽधिक्येन तत्संस्पर्शो यथा भवति तथा देवयजनं निर्मातव्यम्। देवयजनगर्तयोर्मध्ये शकटस्य वा रथस्य वा यातवै गन्तुं यावदन्तरं न पर्याप्तं तावदेवान्तरं कर्तव्यम्। सोऽयमधिस्पर्शः। एतदेवाऽऽप्तनामकम्।

कामितार्थसिद्धिं दर्शयति —

“आप्नोत्येव भ्रातृव्यं नैनं भ्रातृव्य आप्नोति” (सं. का. ६ प्रं. २ अ. ६) इति। जयतीत्यर्थः।

विधत्ते —

“एकोन्नते देवयजने याजयेत्पशुकामम्” [सं. का. ६ प्रं. २ अ. ६] इति।

प्रशंसति —

“एकोन्नते देवयजनादङ्गिरसः पशूनसृजन्त” [सं. का. ६ प्रं. २ अ. ६] इति।

लक्षणमाह —

“अन्तरा सदोहविर्धाने उन्नत स्यादेतद्वा एकोन्नतं देवयजनम्” (सं. का. ६ प्रं. २ अ. ६) इति।

प्राचीनवंशात्पुरतः प्रत्यासन्नं सदः, उत्तरवेदेः पश्चात्प्रत्यासन्नं हविर्धानं, तयोर्मध्यमुन्नतं कुर्यात्।

फलमाह —

“पशुमानेव भवति” [सं. का. ६ प्रं. २ अ. ६] इति।

विधत्ते –

“त्र्युन्नते देवयजने याजयेत्सुवर्गकामम्” [सं. का. ६ प्रं. २ अ. ६] इति।

प्रशंसति —

“त्र्युन्नताद्वै देवयजनादाङ्गिरसः सुवर्गं लोकमायन्” [सं. का. ६ प्रं. २ अ. ६] इति।

लक्षणमाह —

“अन्तराऽऽहवनीयं च हविर्दानं चोन्नत स्यादन्तरा हविर्धानं च सदश्चान्तरा सदश्च गार्हपत्यं चैतद्वै त्र्यून्नतं देवयजनम्” [सं. का. ६ प्रं. २ अ. ६] इति।

उत्तरवेदिहविर्धानसदःप्राचीनवंशानां चतुर्णामन्तरालप्रदेशेषु त्रिषून्नतं कुर्यात्।

फलमाह —

“सुवर्गमेव लोकमेति” (सं. का. ६ प्रं. २ अ. ६) इति।

विधत्ते —

“प्रतिष्ठिते देवयजने याजयेत्प्रतिष्ठाकामम्” (सं. का. ६ प्रं. २ अ. ६) इति।

लक्षणमाह —

“एतद्वै प्रतिष्ठितं देवयजनं यत्सर्वतः समम्” (सं. का. ६ प्रं. २ अ. ६) इति।

फलमाह —

“प्रत्येव तिष्ठति” (सं. का. ६ प्रं. २ अ. ६) इति।

अथ नामविशेषमनुक्त्वा लक्षणपुरःसरं विधत्ते —

“यत्रान्या अन्या ओषधयो व्यतिषक्ताः स्युस्तद्याजयेत्पशुकामम्” (सं. का. ६ प्रं. २ अ. ६) इति।

यवगोधूमप्रियंगुकोद्रवादिबीजानि परस्परविलक्षणानि यस्मिन्प्रदेशे सहोत्पद्यन्ते तत्र पशुकामं याजयेत्।

प्रशंसति –

“एतद्वै पशूना रूप रूपेणैवास्मै पशूनव रुन्धे” (सं. का. ६ प्रं. २ अ. ६) इति।

फलमाह —

“पशुमानेव भवति” (सं. का. ६ प्रं. २ अ. ६) इति।

विधत्ते —

“नितिगृहीते देवयजने याजयेद्यं कामयेत नित्याऽस्य यज्ञं ग्राहयेयमिति” [सं. का. ६ प्रं. २ अ. ६] इति।

नितिर्यज्ञविघाती राक्षसः।

लक्षणमाह —

“एतद्वै नितिगृहीतं देवयजनं यत्सदृश्यै सत्या ऋक्षम्” (सं. का. ६ प्रं. २ अ. ६) इति।

निम्नोन्नतत्वराहित्येन सदृश्याः सत्या भूमेः संबन्धि यदृक्षं तृणादिशून्यं स्थानं तन्नितिगृहीतम्।

कामितार्थसिद्धिमाह —

“नित्यैवास्य यज्ञं ग्राहयति” (सं. का. ६ प्रं. २ अ. ६) इति।

विधत्ते —

“व्यावृत्ते देवयजने याजयेद्व्यावृत्कामं यं पात्रे वा तल्पे वा मीमासेरन्” [सं. का. ६ प्रं. २ अ. ६] इति।

पात्रोपलक्षिते सहपङ्क्तिभोजने तल्पोपलक्षिते विवाहे वा बन्धुमित्रादयो यं पुरुषमुद्दिश्य मीमांसेरन् संदिहीरन्स पुरुषः संदेहहेतोरपवादादेः पाप्मनो व्यावृत्तिं कामयते तं व्यावृत्ते याजयेत्।

व्यावृत्तस्य लक्षणमाह —

“प्राचीनमाहवनीयात्प्रवण स्यात्प्रतीचीनं गार्हपत्यादेतद्वै व्यावृत्तं देवयजनम्” (सं. का. ६ प्रं. २अ. ६) इति।

उभयतः प्रवणं निम्नम्।

फलसिद्धिमाह —

“वि पाप्मना भ्रातृव्येणाऽऽवर्तते नैनं पात्रे न तल्पे मीमासन्ते” (सं. का. ६ प्रं. २ अ. ६) इति।

पापरूपेण वैरिणा व्यावर्तते वियुज्यते ततो न संदिहते।

विधत्ते —

“कार्ये देवयजने याजयेद्भूतिकायम्” (सं. का. ६ प्रं. २ अ. ६) इति।

कार्ये मृच्छिलादिभिरुन्नतीकरणीये।

प्रशंसति —

“कार्यो वै पुरुषः” (सं. का. ६ प्रं. २ अ. ६) इति।

उपनयनादिसंस्कारैरुन्नतीकरणीयः पुरुषस्ततस्तस्येदं योग्यम्।

फलसिद्धिं दर्शयति —

“भवत्येव” (सं. का. ६ प्रं. २ अ. ६) इति।

ऐश्वर्यं प्राप्नोत्येव। तदेतत्सर्वं या ते अग्नेऽयाशया रजाशयेत्यनेन मन्त्रेण साध्ययोः प्रातःकालीनसायंकालीनोपसदोर्मध्ये कर्तव्यम्।

अत्र विनियोगसंग्रहः —

अंशुराप्याययेत्सोममेष्टा प्रस्तरनिह्नवः।

अग्ने पूर्वाग्निमामन्त्र्य या ते मार्जयते तथा॥१॥

व्रतं च तेन कुरुते या ते त्र्युपसदाममी।

आज्यहोमा अयाशेति रजेति च हरेति च॥२॥

त्रिविधो मन्त्रभेदः स्यान्मन्त्राः सप्तेह ईरिताः॥३॥

अथ मीमांसा।

पञ्चमाध्यायस्य तृतीयपादे चिन्तितम् —

“आवृत्तिरुपसत्स्वेषा संघस्यैकैकगाऽथवा।

क्रिरध्यायं पठेत्यादाविव स्यात्समुदायगा॥

प्रथमा मध्यमाऽन्त्येति प्राकृतक्रमसिद्धये।

एकैकस्या द्विरभ्यासे षट्संख्यापि प्रसिध्यति”॥ इति।

अग्नौ श्रूयते — “षडुपसदः” इति। तत्र चोदकप्राप्तानां तिसृणामुपसदां पूर्वन्यायेनाऽऽवृत्त्या षट्संख्या संपादनीया। यथा पूर्वाधिकरणे प्रयाजेषु संघावृत्त्यैकादशसंख्या संपादिता तद्वदत्रापि साऽऽवृत्तिर्दण्डकलितवत्समुदायस्य युक्ता। यथा दण्डेन भूप्रदेशं संमिमानः पुरुष आमूलाग्रं कृत्स्नदण्डं पुनः पुनः पातयति, न तु दण्डस्य प्रत्यवयवं पृथगावृत्तिं करोति, यथा वा त्रिवारं रुद्राध्यायं जपतीत्यत्र कृत्स्न एवाध्याय आवर्त्यत न त्वध्यायैकदेश एकैकोऽनुवाकः पृथगेव त्रिः पठ्यते तथा तिसृणामुमसदां समुदाय आवर्तनीय इति चेन्मैवम्।। प्राकृतक्रमबाधप्रसङ्गात्। प्रकृतौ हि दीक्षानन्तरभाविनि दिने होतव्या प्रथमोपसत्। तत ऊर्ध्वदिने द्वितीया। ततोऽप्यूर्ध्वदिने तृतीया। ता एताः सकृदनुष्ठाय पुनरुपरितनदिनेष्वनुष्ठीयन्ते चेत्पुनरनुष्ठीयमानायाः प्रथमायाः प्रथमात्वमपैति चतुर्थीत्वमायाति। तस्मात्प्राकृतक्रमसिद्धये प्रथमां द्विरभ्यस्य ततो द्वितीयां द्विरभ्यस्येत्वेवं स्वस्थानवृद्ध्या तासामावृत्तिः कार्या। न चाध्यायदृष्टान्तो युक्तः। अनुवाकसमुदायस्यैवाध्यायत्वात्तस्यैव चाऽऽवृत्तिविधानात्। न त्विह समुदायस्योपसत्त्वमस्ति। तस्मात्प्रत्येकमुपसदावर्तनीया। अनेन न्यायेन द्वादशाहीनस्येत्यत्रैकैकोपसच्चतुर्वारमावर्तनीया।

तृतीयाध्यायस्य तृतीयपादे चिन्तितम् —

“तिस्र एव हि साह्ने स्युरहीने द्वादशेत्यदः।

ज्योतिष्टोमे द्वादशत्वमथवाऽहर्गणो(णे) भवेत्॥

अस्तु प्रकरणादाद्यो नाहीनत्वं विरुध्यते।

प्रकृतित्वान्न केनापि हीनोऽतोऽत्र विकल्प्यताम्॥

साह्नाद्भिन्नाऽहीनसंज्ञा रूढैषाऽहर्गणो(णे) भवेत्।

षष्ठीश्रुत्या द्वादशत्वं प्रक्रियातोऽपकृष्यताम्” इति।

ज्योतिष्टोमप्रकरणे श्रूयते — “तिस्र एव साह्नस्योपसदो द्वादशाहीनस्य” इति। एकेनाह्ना निष्पाद्यत्वात्साह्नो ज्योतिष्टोमः। दीक्षादिवसादूर्ध्वं सोमाभिषवदिवसात्पूर्वं कर्तव्या होमा उपसदः। तासां द्वादशत्वं प्रकरणबलाज्ज्योतिष्टोमे निविशते। अहीनशब्दश्च तस्मिन्नवकल्प्यते। ज्योतिष्टोमस्य निखिलसोमयागप्रकृतित्वेन सर्वेषामङ्गानां तत्रोपदेशे सति तदुपदेशविकलविकृतीनामिव हीनत्वाभावात्। अतो द्वादशत्वत्रित्वयोर्विकल्प इति प्राप्ते ब्रूमः — आवृत्तः सोमयागरूपो द्विरात्रत्रिरात्रादिरहर्गणः। तस्मिन्नहीनशब्दो रूढः। योगिकत्वे तु न हीन इति विगृह्य समासे कृते सत्ययज्ञादिशब्दवदाद्युदात्तः स्यात्। मध्योदात्तस्त्वाम्नायते। रूढिश्च विग्रहनिरपेक्षत्वाच्छीघ्रबुद्धिहेतुः। अतो ज्योतिष्टोमवाचिनः साह्नशब्दाद्भिन्नेयमहीनसंज्ञा ज्योतिष्टोमाद्भिन्नमहर्गनणमभिधत्ते। तस्मिन्नहर्गणे षष्ठीश्रुत्या तदुक्तं द्वादशत्वं निवेश्यते। तत्सिद्धये प्रकरणादिदमपनेतव्यम्।

तृतीयाध्यायस्य सप्तमपादे चिन्तितम् –

“मुख्यार्था सौमिकी वेदिरुभयार्थोत मुख्यगा।

चिकीर्षितत्वान्मुख्यस्य वेद्यां तत्कृतिसंभवात्॥

मुख्यपौष्कल्यहेतुत्वात्तदङ्ग च चिकीर्षितम्।

मुख्यवत्तेन तद्वेदिरङ्गेष्वप्युपकारिणी” इति॥

दार्शिकीं वेदिं मध्येऽन्तर्भाव्य प्राचीनवंशो मण्डपोऽवस्थितः। ततः पूर्वस्यां दिशि सदोहविर्धानादीनां पर्याप्तो भूभागविशेषः। तैः सदःप्रभृतिभिः सह सौमिकी वेदिरित्युच्यते। सेयं मुख्यस्य सोमयागस्यैवोपकारं करोति, न त्वमुख्यानामग्नीषोमीयाद्यङ्गानाम्। कुतः। मुख्यस्य चिकीर्षितत्वात्। न चाङ्गान्यपि चिकीर्षितानीति वाच्यम्। चिकीर्षास्वरूपस्य वेदेनैवाभिहितत्वात्।

एवं श्रूयते — “षट्त्रिंशत्प्रक्रमाः प्राची चतुर्विंशतिरग्रेण त्रिंशज्जघनेने[य]ति शक्ष्यामहे” इति।

अस्यायमर्थः — श्रूयमाणनानेन दैर्घ्यप्रमाणेन तिर्यक्प्रमाणेन च प्रमिते भूभागे फलहेतुं सोमयागं कर्तुं शक्ष्यामह इति निश्चित्य तत्तथैव कुर्यादिति। सेयं चिकीर्षा मुख्यविषया। इ(य)ति शक्ष्यामह इति परिमाणस्य शक्तेश्चोपन्यासात्। अङ्गानां (तु) पशूनामिष्टीनां च सदोहविर्धानादिमण्डपनिरपेक्षाणां यथोक्तपरिमाणमन्तरेणाप्यनुष्ठातुं शक्यत्वात्स उपन्यासस्तत्र निरर्थकः। सोमस्य त्वनुष्ठानं यथोक्तवेद्यामेव संभवति न त्वन्यत्र। तस्मात्सा वेदिर्मुख्यस्यैवोपकरोतीति प्राप्ते ब्रूमः – इयति शक्ष्यामह इत्यत्र साङ्गप्रधानानुष्ठाने शक्तिरुक्ता। तादृशस्यैव फलं प्रति पुष्कलहेतुत्वात्। अतो मुख्याङ्गयोश्चिकीर्षायास्तुल्यत्वाद्वेदिरुभयार्था। न चात्र वपनादिसाम्यं शङ्कनीयम्। दृष्टोपयोगाभावस्य तत्रोक्तत्वात्। इह तु हविरासादनादिर्दृष्ट उपयोगः। स च मुख्याङ्गयोः सम इत्युभयार्थत्वम्।

षष्ठाध्यायस्याष्टमपादे चिन्तितम् —

“अन्याभावेऽन्यभावेऽपि पयोभक्षादयोऽग्रिमः।

निमित्ते सत्यनुष्ठानान्नियमादृष्टतोऽन्तिमः” इति।

ज्योतिष्टोमे श्रूयते — “पयो ब्राह्मणस्य व्रतम्” इति। तदेतदसत्यन्यस्मिन्भक्ष्ये कर्तव्यम्। कुतः। अन्याभावस्य निमित्तत्वात्। निमित्ते सति नैमित्तिकस्यावश्यानुष्ठेयत्वादिति चेन्मैवम्। न ह्यत्रान्याभावो निमित्तत्वेन श्रुतः। तस्मात्सत्यप्यन्यस्मिन्भक्ष्ये नियमादृष्टाय पय एव भक्षयेत्।

तत्रैवान्यच्चिन्तितम् —

‘अजीर्णिसंभवे कार्यं व्रतं नो वाऽग्रिमो विधेः।

रोगोत्पत्त्या प्रधानस्य विरोधान्न पयोव्रतम्’ इति।

ज्योतिष्टोमे श्रूयते — ‘मध्यंदिने मध्यरात्रे व्रतं व्रतयति’ इति।

तत्र यस्माजीर्णिः संभाविता तेनापि विहितत्वात्पयो व्रतयितव्यमेवेति चेन्मैवम्। प्रधानानुष्ठानविघ्नप्रसङ्गात्। तस्मात्तथाविधवेलायां पयो वर्जयेत्।

अत्र सर्वाणि यजूंष्येवेति नास्ति च्छन्दः॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वे-दीयतैत्तिरीयसंहिताभाष्ये प्रथमकाण्डे द्वितीयप्रपाठक एकादशोऽनुवाकः ॥११॥
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 सोममाप्याययति - अंशुरंशुरिति ॥ हे देवसोम ते त्वदीयों शुरशुः सर्वोवयवः आप्यायतां वर्धताम् । वीप्सायां द्विर्वचनम्, 'अनुदात्तं च' इति द्वितीयस्यानुदात्तत्वम् । इन्द्राय इन्द्रार्थम् । इन्द्रो विशेष्यते - एकधनविदे, एकं प्रधानं धनं उदकं येषु घटेषु ते एकधनाः, तान्विन्दति लभत इत्येकधनवित् । इन्द्रो हि तान्विन्दति इन्द्रार्थत्वात् । इन्द्रोपि तुभ्यं त्वदर्थं त्वत्पानार्थमाप्यायतां पातुं समर्थो भवतु । त्वं चाप्यायमानसर्वांशुः इन्द्रार्थमाप्यायस्व पर्याप्तो भव ॥
2 यजमानं वाचयति - आप्याययेति ॥ सखीन् समानख्यानान् ऋत्विजः सन्या धनेन मेधया च यागनिर्वर्तनसमर्थया आप्यायय सम्पन्नान् कुरु । सनिशब्दोन्तोदात्तः, तेन 'उदात्तयणः' इति ततः परस्या विभक्तेरुदात्तत्वम् । किञ्च - हे देव सोम स्वस्ति ते अविनाशेन अविघ्नेन तव सुत्यामभिषवमशीय प्राप्नुयाम् । आशिषि लिङ्, 'छन्दस्युभयथा' इति सार्वधातुकत्वात्सीयुटि सलोपः । सुनोतेः 'संज्ञायां समजनिषद' इति क्यप्, 'उदात्तः' इति हि तत्रानुवर्तते ॥
3 प्रस्तरे पाणिं निधाय नमस्कुर्वन्ति - एष्टा राय इति ॥ प्रस्तर उच्यते । हे एष्टः एषणशील प्रयागोनिर्वृत्तिद्वारेण फलं प्रापयितुं त्वरमाण यस्मदीदृशस्त्वमसि तस्माद्रायो धनानि अस्माकं सन्तु त्वन्महिम्ना । यद्वा - ईदृशत्स्त्वमेव रायो धनानि; रैहेतुत्वाद्रैत्वमुपचर्यते । इषेस्तृन्, 'तीषसहलुभरुषरिषः' इतीडभावः, षाष्ठिकमामन्त्निताद्युदात्तत्वम् । सम्बुद्धिगुणे 'रो रि' इति लोपे 'ढ्रलोपे पूर्वस्य दीघोऽणः' इति दीर्घत्वम् । केचिन्निष्ठायां वर्णव्यत्ययेन इकारस्यैकारमाहुः, अनामन्त्रितत्वं च मन्यन्ते । तदा आद्युदात्तत्वं दुर्लभम्, रेफस्य संहितांयां 'हशि च' इत्युत्वं प्राप्नोति । शाखान्तरे तु - आ इष्टः एष्ट इति मत्वा अवग्रहं कुर्वन्ति । तदा 'गतिरनन्तरः' इत्याद्युदात्तत्वं सिद्धम् । राय इति च षष्ठ्यन्तं केचिदाहुः । तेषां 'ऊडिदं पदाद्यम्' इति विभक्तेरुदात्तत्वं प्राप्नोति । आमन्त्रितेन तु सम्बन्धे 'परमपिच्छन्दसि' इत्यामन्त्रितानुप्रवेशात् पृथक्स्वरत्वाप्रसङ्गः । एवं प्रस्तरं स्तुत्वेदानीं स्वाभिलषितं प्रार्थयते । तत्र ससाधनां क्रियामुपसर्ग आहेति योग्यं क्रियापदमध्याह्रियते । इषे अन्नाय, भगाय ऐश्वर्याद्याय च प्रभव तत्सम्पादनसमर्थोस्माकं भव । 'सावेकाचः' इतीषो विभक्तिरुदात्ता ।

ऐश्वर्यस्य समग्रस्य वीर्यस्य यशसश्श्रियः ।

ज्ञानवैराग्ययोश्चैव षण्णां भग इतीरणा ॥

यद्वा - भगं एतुं प्रभवतु । 'तुमर्थे सेसेन्' इति क्सेप्रत्ययः । किञ्च - ऋतं सत्यं ऋतवादिभ्यस्सत्यवादिभ्यः अस्मभ्यं भव, ऋतवदनफले अस्मान्योजय । यद्वा - ऋतं यज्ञं, यज्ञवादिभ्योस्मभ्यं यज्ञो भव, शीघ्रं यज्ञं निंर्वर्तयेति यावत् । किञ्च - नमो दिवे द्युरूपाय । 'ऊडिदम्' इति विभक्तेरुदात्तत्वम् । नमः पृथिव्यै पृथिवीरूपाय । द्यावापृथिवीभ्यामेव वा नमस्कारः । 'द्यावापृथिवीभ्यामेव नमस्कृत्यास्मिन्लोके प्रतितिष्ठन्ति' इति ब्राह्मणम् । 'उदात्तयणः' इति पृथिव्या विभक्तेरुदात्तत्वम् ॥

4 यजमानमवान्तरदीक्षामुपनयति- अग्न इति । हे अग्ने व्रतपते व्रतानां पते त्वं व्रतानां सर्वेषां सम्बन्धिनां व्रतपतिरसि; न पुनरेकस्य व्रतस्य पतित्वाद्व्रतपतिरुच्यते । समासे सङ्ख्याविशेषस्याप्रतिपत्तेः बहुत्वप्रतिपादनाय व्रतानामित्युक्तम् । नित्यसम्बन्धाविप्रतिपत्त्यर्थं वृत्तिश्च कृता । पतिः पालयिता स्वामी वा । सर्वेषां व्रतानां सर्वदा सर्वात्मना च पतिस्त्वमसि । या मम यजमानस्य तनूश्शररिं सा त्वयि मया निवेशिता । एषा इत्यङ्गुल्या अग्नेस्तनूं दर्शयति । या तव तनूः सा मयि त्वया निवेशिता इयमित्यात्मशरीरमङ्गुल्या दर्शयति । प्रत्यक्पराग्रूपसन्निहितविषयत्वादिदमेतदादीनामेवमुक्तम् । यस्मादेवं, तस्मात् हे व्रतपते अग्ने नौ आवयोर्व्रतिनोर्व्रतानि अतः परं सह भवन्ति, न परस्परव्यावृत्तानि, यन्मया कृतं तत्त्वयापि कृतं भवतीति । 'आत्मानमेव दीक्षया पाति' इति ब्राह्मणम् ॥
5 उपसत्सु व्रतयति - या त इति ॥ हे अग्ने रुद्रिया रुद्रार्हा, यो रुद्रस्तिस्रोसुरपुरीरदहत् तद्वीर्यार्नुरूपा ते तव तनूः महावीर्या । तया नः अस्मान्पाहि । रुद्रशब्दादर्हत्यर्थे छान्दसो घः । यद्वा - 'रुद्रो वा एष यदग्निस्तस्यैते तनुवौ घोरान्या शिवान्या' इत्युक्तम्; तत्र घोरा तनूः रुद्रिया क्रूरा 'रुद्रो वै क्रूरः' इति । तदर्हत्वात्तया तन्वा नः अस्मान्पाहि भ्रातृव्यादिभ्यो रक्ष । तस्यास्तन्वाः पतिभूताय ते तुभ्यं स्वाहा हुतमिदं पयोस्तु । चतुर्थ्यर्थे वा षष्ठी । तदीयायै तस्यै तन्वै स्वाहेति ॥
6 उपसदाहुतीर्जुहोति - तिसृषूपसत्सु अनुक्रमेण या त इति तिसृभिरनुष्टुग्भिः । तत्र प्रथमायां 'या ते अग्नेयाशया' इति ॥ 'तनूर्वर्षिष्ठा' इत्यादि तिसृष्वपि सम्बध्यते । हे अग्ने या ते त्वदीयां तनूः अयाशया अस्यां पृथिव्यां शेत इत्ययाशया । इदमस्सप्तम्येकवचनस्य `सुपां सुलुक्' इति यादेशः, 'हलि लोपः' इतीद्रूपस्य लोपः, त्यदाद्यत्वम्, अस्यां शेत इति 'अधिकरणे शेतेः' इत्यच्, 'शवासवासिष्वकालात्' इत्यलुक्, कृदुत्तरपदप्रकृतिस्वरत्वम् । वर्षिष्ठा वृद्धतमा । प्रियस्थिरादिसूत्रेण वृद्धशब्दस्य वर्षादेशः । गह्वरे गहने तिष्ठतीति गह्वरेष्ठा । 'सुपि स्थः' इति कः, 'तत्पुरुषे कृति बहुळम्' इत्यलुक् । तयेत्यध्याह्रियते । तया तन्वा उग्रं उद्गूर्णमधिक्षेपं वचोपावधीमप ह न्मि, तस्य प्रयोक्तारमपहन्मीति यावत् । 'अशनयापिपासेहवा उग्रं वचः' इत्यादि ब्राह्मणम् । तन्निमित्तत्वात्तादृशवचनश्रुतेः । छान्दसो लुङ्, 'हनो वध लुङि' इति वधा देशः, 'आमो मश्' इति मशादेशः । त्वेषं दीप्तं क्रूरं राक्षसादिसमीरितं श्रुत्याभीतिजनकम् । 'एनश्च वैरहत्यं च त्वेषं वचः' इत्यादिब्राह्मणम् । एनस्विभिर्वीरहादिभिश्च प्रयोज्यत्वात् । तच्च वचोपावधीम् । तस्य प्रयोक्तारं च अपहन्मि त्वत्प्रसादान्नाशयेयम् । इदमुभयं तदर्थं तस्यै तन्वै स्वाहा सुहुतमिदमस्तु ॥
7 द्वितीयस्यां जुहोति - या ते अग्ने रजाशया तनूरित्यादि ॥ रजोन्तरिक्षं तस्मिन् शेत इति रजाशया मध्यमात्मिका । रजश्शब्दात्परस्यास्सप्तम्या डादेशः, पूर्ववदलुक् । शेषं समानम् ॥
8 तृतीयायां जुहोति - हराशया तनूरित्यादि ॥ भौमान्रसान् हरतीति हरो द्युलोकः, तस्मिन्शेते हराशया सूर्यात्मिका । डादेशादि समानम् । यद्वा - या सेत्यध्याह्रियते । अपावधीमिति च पुरुषव्यत्ययः अपावधीदिति । सा उग्रं त्वेषं वचो अपहन्त्विति । शाखान्तरे च अपावधीदिति पाठः । 'तेषामसुराणां तिस्रः पुरआसन्नयस्मय्यवमाथ रजताऽथ हरिणी' इति ब्राह्मणानुसारेणान्यथा व्याख्यायते । अयसि अयस्मय्यां पुरि शेत इत्ययाशया । डादेशादि समानम् । रजतं रजस्तन्मय्यां पुरि शेत इति रजाशया । हरितं हरस्तन्मय्यां पुरि शेत इति हराशया । गतमन्यत् ॥
इति द्वितीये एकादशोनुवाकः ॥
पञ्चशत् 2 #
TS 1.2.11.2 TS 1.2.11.2
या तव॑ त॒नूरि॒यꣳ सा मयि॑ स॒ह नौ᳚ व्रतपते व्र॒तिनो᳚र् व्र॒तानि॒ या ते॑ अग्ने॒ रुद्रि॑या त॒नूस्तया॑ नः पाहि॒ तस्या᳚स्ते॒ स्वाहा॒ या ते॑ अग्नेऽयाश॒या र॑जाश॒या ह॑राश॒या त॒नूर्वर्.षि॑ष्ठा गह्वरे॒ष्ठोऽग्रं ॅवचो॒ अपा॑वधीं त्वे॒षं ॅवचो॒ अपा॑वधीꣳ॒॒ स्वाहा᳚ ॥
पदपाठः (Word-by-word)
या । तव॑ । त॒नूः । इ॒यम् । सा । मयि॑ । स॒ह । नौ॒ । व्र॒त॒प॒त॒ इति॑ व्रत -प॒ते॒ । व्र॒तिनोः᳚ । व्र॒तानि॑ । या । ते॒ । अ॒ग्ने॒ । रुद्रि॑या । त॒नूः । तया᳚ । नः॒ । पा॒हि॒ । तस्याः᳚ । ते॒ । स्वाहा᳚ । या । ते॒ । अ॒ग्ने॒ । अ॒या॒श॒येत्य॑या - श॒या । र॒जा॒श॒येति॑ रजा - श॒या । ह॒रा॒श॒येति॑ हरा - श॒या । त॒नूः । वर्.षि॑ष्ठा । ग॒ह्व॒रे॒ष्ठेति॑ गह्वरे - स्था । उ॒ग्रम् । वचः॑ । अपेति॑ । अ॒व॒धी॒म् । त्वे॒षम् । वचः॑ । अपेति॑ । अ॒व॒धी॒म् । स्वाहा᳚ ॥
पदसंख्या: 40