अनुवाकः 5 TS 1.2.5

(A5)

( अ॒स्य॒ ग्री॒वा-एका॒न्न त्रिꣳ॒॒शच्च॑ )

अनुवाकः 5 - Complete Audio

TS 1.2.5 - स्वरानुगामी

0:00 0:00
PS1.1 वस्व्य॑सि रु॒द्राऽस्यदि॑ति-रस्यादि॒त्याऽसि॑ शु॒क्राऽसि॑ च॒न्द्राऽसि॒
PS1.2 बृह॒स्पति॑स्त्वा सु॒म्ने र॑ण्वतु रु॒द्रो
PS1.3 वसु॑भि॒रा चि॑केतु पृथि॒व्यास्त्वा॑ मू॒र्द्धन्ना
PS1.4 जि॑घर्मि देव॒यज॑न॒ इडा॑याः प॒दे
PS1.5 घृ॒तव॑ति॒ स्वाहा॒ परि॑लिखितꣳ॒॒ रक्षः॒
PS1.6 परि॑लिखिता॒ अरा॑तय इ॒दम॒हꣳ रक्ष॑सो
PS1.7 ग्री॒वा अपि॑ कृन्तामि॒ यो᳚ऽस्मान्
PS1.8 द्वेष्टि॒ यं च॑ व॒यं
PS1.9 द्वि॒ष्म इ॒दम॑स्य ग्री॒वा -
PS1.10 [ ]
PS2.1 अपि॑ कृन्ताम्य॒स्मे राय॒स्त्वे राय॒स्तोते॒
PS2.2 रायः॒ सं दे॑वि दे॒व्योर्वश्या॑
PS2.3 पश्यस्व॒ त्वष्टी॑मती ते सपेय
PS2.4 सु॒रेता॒ रेतो॒ दधा॑ना वी॒रं
PS2.5 ॅवि॑देय॒ तव॑ स॒न्दृशि॒ माऽहꣳरा॒यस्पोषे॑ण॒
PS2.6 वि यो॑षं

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 1.2.5.1 TS 1.2.5.1
वस्व्य॑सि रु॒द्राऽस्यदि॑ति-रस्यादि॒त्याऽसि॑ शु॒क्राऽसि॑ च॒न्द्राऽसि॒ बृह॒स्पति॑स्त्वा सु॒म्ने र॑ण्वतु रु॒द्रो वसु॑भि॒रा चि॑केतु पृथि॒व्यास्त्वा॑ मू॒र्द्धन्ना जि॑घर्मि देव॒यज॑न॒ इडा॑याः प॒दे घृ॒तव॑ति॒ स्वाहा॒ परि॑लिखितꣳ॒॒ रक्षः॒ परि॑लिखिता॒ अरा॑तय इ॒दम॒हꣳ रक्ष॑सो ग्री॒वा अपि॑ कृन्तामि॒ यो᳚ऽस्मान् द्वेष्टि॒ यं च॑ व॒यं द्वि॒ष्म इ॒दम॑स्य ग्री॒वा - [ ]
पदपाठः (Word-by-word)
वस्वी᳚ । अ॒सि॒ । रु॒द्रा । अ॒सि॒ । अदि॑तिः । अ॒सि॒ । आ॒दि॒त्या । अ॒सि॒ । शु॒क्रा । अ॒सि॒ । च॒न्द्रा । अ॒सि॒ । बृह॒स्पतिः॑ । त्वा॒ । सु॒म्ने । र॒ण्व॒तु॒ । रु॒द्रः । वसु॑भि॒रिति॒ वसु॑ -भिः॒ । एति॑ । चि॒के॒तु॒ । पृ॒थि॒व्याः । त्वा॒ । मू॒र्द्धन्न् । एति॑ । जि॒घ॒र्मि॒ । दे॒व॒यज॑न॒ इति॑ देव - यज॑ने । इडा॑याः । प॒दे । घृ॒तव॒तीति॑ घृ॒त - व॒ति॒ । स्वाहा᳚ । परि॑लिखित॒मिति॒ परि॑ - लि॒खि॒त॒म् । रक्षः॑ । परि॑लिखिता॒ इति॒ परि॑ - लि॒खि॒ताः॒ । अरा॑तयः । इ॒दम् । अ॒हम् । रक्ष॑सः । ग्री॒वाः । अपीति॑ । कृ॒न्ता॒मि॒ । यः । अ॒स्मान् । द्वेष्टि॑ । यम् । च॒ । व॒यम् । द्वि॒ष्मः । इ॒दम् । अ॒स्य॒ । ग्री॒वाः ।
पदसंख्या: 50
सायणभाष्यम् (Sayana Commentary)

[अथ प्रथमकाण्डे द्वितीयप्रपाठके पञ्चमोऽनुवाकः]

चतुर्थेऽनुवाके क्रयप्रदेशं प्रति सोमक्रयणीगमनमुक्तम्। गतायां तस्यां क्रयाय सोमोन्मानस्यावसरः। सप्तमपदसंग्रहस्तु गमनमध्य एव कर्तव्यः। ततः पञ्चमे सोऽभिधीयते।

वस्व्यसीति। कल्पः- “तस्यै षट्पदान्यनुनिष्क्रामति वस्व्यसि रुद्राऽस्यदितिरस्यादित्याऽसि शुक्राऽसि चन्द्राऽसीति गच्छन्तीं सोमक्रयणीमनुगच्छन्षट्सु तदीयपदेषु षड्भिरेतैर्मन्त्रैः स्वपादं प्रक्षिपेत्” इति।

वसुरुद्रादित्याः सवनत्रयदेवताः। अदितिः प्रायणीयोदयनीययोर्देवता। शुक्रशब्देन दीप्तिमान्सोमो विवक्षितः। चन्द्रशब्देनाऽऽह्लादकारि सुवर्णम्। हे सोमक्रयणि त्वं वस्वादीनां स्वरूपमसि। तदपेक्षितसोमयागसाधनत्वात्।

बृहस्पतिरिति। कल्पः – “सप्तमं पदमञ्जलिना गृह्णाति बृहस्पतिस्त्वा सुम्ने रण्वतु रुद्रो वसुभिरा चिकेत्विति” इति।

हे सोमक्रयाणीपद त्वां बृहस्पतिरस्मिन्सुखप्रदेशे रमयतु वसुभिः सहितो रुद्रस्त्वामनुजानातु आवर्तयतु वा।

पृथिव्या इति। कल्पः — “अथैतस्मिन्पदे हिरण्यं निधाय संपरिस्तीर्याभिजुहोति पृथिव्यास्त्वा मूर्धन्ना जिघर्मि देवयजन इडायाः पदे घृतवति स्वाहेति” इति।

हे घृत त्वामिडायाः सोमक्रयण्याः पदे समन्तात्क्षारयामि। कीदृशे पदे। पृथिव्या मूर्धस्थानीये देवतानां यागस्थाने घृतयुक्ते। तथाऽन्यत्राऽम्नातम् ‘सा यत्र यत्र न्यक्रामत्ततो घृतमपीड्यत तस्माद्घृतपद्युच्यते” इति।

मन्त्रान्व्याख्यातुमादावनुष्ठानं विधत्ते —

‘षट्पदान्यनु नि क्रामति षडहं वाङ्नाति वदत्युत संवत्सरस्यायने यावत्येव वाक्तामवरुन्धे’ (सं. का. ६ प्र. १ अ. ८) इति।

आस्ति कश्चित्पृष्ठ्यः षडहाख्यो यागः। तत्र षड्विधानि स्तोत्राणि बृहद्रथंतरवैरूपवैराजशक्वररैवतनामकैः सामभिः साध्यानि। तानि च क्रमेण षट्सु दिनेषु गीयन्ते। न तु सप्तमं पृष्ठ्यस्तोत्रं किंचिदप्यस्ति। ततः प्रधानभूतपृष्ठ्यस्तोत्ररूपा वाग्देवता षडहगतां संख्यामतीत्य न क्वापि वदति। अपि च संवत्सरकालसंबन्धिनि गवामयनेऽपि नाधिकं पृष्ठ्यस्तोत्रं वदति। तस्माद्वाग्रूपायाः सोमक्रयण्याः षट्पदानामनुक्रमणं युक्तम्। तस्माद्वाग्रूपत्वादेव सर्वं वाचमवरुन्धे।

विधत्ते —

“सप्तमे पदे जुहोति सप्तपदा शक्वरी पशवः शक्वरी पशूनेवाव रुन्धे सप्त ग्राम्याः पशवः सप्ताऽऽरण्याः सप्त छन्दास्युभयस्यावरुद्ध्यै” (सं. का. ६ प्र. १ अ. ८) इति।

गवादयो ग्राम्याः। कृष्णमृगादय आरण्याः। तथा च बौधायनः – “सप्त ग्राम्याः पशवोऽजाश्वो गौर्महिषी वराहो हस्त्यश्वतरी चेत्यथ सप्ताऽऽरण्या द्विखुराश्चैकखुराश्च पक्षिणश्च सरीसृपाश्च श्वापदश्च शरभाश्च मर्कटाश्च” इति। गायत्री त्रिष्टुबित्यीदीनि सप्त छन्दांसि। पशुजातीयं छन्दोजातीयं चेत्युभयमपि सप्तसंख्ययाऽवरुध्यते।

प्रथममन्त्रगतशब्दस्वरूपेणैव सोमक्रयण्या महिमाऽऽख्यायत इत्याह —

“वस्व्यसि रुद्राऽसीत्याह रूपमेवास्या एतन्महिमानं व्याचष्टे” (सं. का. ६ प्र. १ अ. ८) इति।

द्वितीयमन्त्रे बृहस्पतिशब्दमा चिकेत्विति शब्दं व्याचष्टे —

“बृहस्पतिस्त्वा सुम्ने रण्वत्वित्याह ब्रह्म वै देवानां बृहस्पतिर्ब्रह्मणैवास्मै पशूनव रुन्धे रुद्रो वसुभिरा चिकेत्वित्याहाऽऽवृत्त्यै” (सं. का. ६ प्र. १ अ. ८) इति।

तृतीयमन्त्रार्थस्य प्रसिद्धिं दर्शयति-

“पृथिव्यास्त्वा मूर्धन्ना जिघर्मि देवयजन इत्याह पृथिव्या ह्येष मूर्धा यद्देवयजनमिडायाः पद इत्याहेडायै ह्येतत्पदं यत्सोमक्रयण्यै घृतवति स्वाहेत्याह यदेवास्यै पदाद्घृतमपीड्यत तस्मादेवमाह” (सं. का. ६ प्र. १ अ. ८) इति।

सोमक्रयणीपदे हिरण्यप्रक्षेपं विधत्ते —

“यदध्वर्युरनग्नावाहुतिं जुहुयादन्धोऽध्वर्युः स्याद्रक्षासि यज्ञ हन्युर्हिरण्यमुपास्य जुहोत्यग्निवत्येव जुहोति नान्धोऽध्वर्युर्भवति न यज्ञ रक्षासि घ्नन्ति” (सं. का. ६ प्र. १ अ. ८) इति।

परिलिखितमिति। कल्पः — “अथोद्धृत्य हिरण्यशकलेन वा कृष्णविषाणया वा पदं परिलिखति परिलिखित रक्षः परिलिखिता अरातय इदमह रक्षसो ग्रीवा अपि कृन्तामि योऽस्मान्द्वेष्टि यं च वयं द्विष्म इदमस्य ग्रीवा अपि कृन्तामीति” इति।

परिलिखितं नाशितं, रक्ष इति जात्यभिप्रायेणैकवचनम्। ग्रीवा इति व्यक्त्यभिप्रायेण बहुवचनम्। इदमिति हस्ताभिनयः। कृन्तामि च्छिनद्मि।

रक्षसः प्रसक्तिं पूर्वोक्तां स्मारयन्मन्त्रं व्याचष्टे –

“काण्डेकाण्डे वै क्रियमाणे यज्ञ रक्षासि जिघासन्ति परिलिखित रक्षः परिलिखिता अरातय इत्याह रक्षसामपहत्या इदमह रक्षसो ग्रीवा अपि कृन्तामि योऽस्मान्द्वेष्टि यं च वयं द्विष्म इत्याह द्वौ वाव पुरुषौ यं चैव द्वेष्टि यश्चैनं द्वेष्टि तयोरेवानन्तरायं ग्रीवाः कृन्तति” (सं. का. ६ प्र. १ अ. ८) इति।

अनन्तरायं द्वयोर्मध्य एकतरस्याप्यन्तरायो यथा न भवति तथेत्यर्थः।

अस्मे इति। कल्पः — “अस्मे राय इति स्थाल्यां यावत्त्मूतसमोप्य त्वे राय इति यजमानाय प्रयच्छति तोते राय इति पत्नियै” इति।

त्मूतं घृतेनाऽऽप्लुतम्। तादृशं रजः सोमक्रयण्याः सप्तमपदस्थाने यावदस्ति तावत्सर्वं पात्रे क्षिपेत्। अस्मिन्नध्वर्यौ रायो रजोरूपं धनं तिष्ठतु त्वे त्वयि यजमाने। तोते कलत्रे।

अनुष्ठानविधिपुरःसरं मन्त्रान्व्याचष्टे —

“पशवो वै सोमक्रयण्यै पदं यावत्त्मूत सं वपति पशूनेवाव रुन्धेऽस्मे राय इति सं वपत्यात्मानमेवाध्वर्युः पशुभ्यो नान्तरेति त्वे राय इति यजमानाय प्र यच्छति यजमान एव रयिं दधाति तोते राय इति पत्निया अर्थो वा एष आत्मनो यत्पत्नी यथा गृहेषु निधत्ते तादृगेव तत्” (सं. का. ६ प्र. १ अ. ८) इति।

समिति। कल्पः – “अथ पत्नीं सोमक्रयण्या समीक्षयति सं देवि देव्योर्वश्या पश्यस्वेति” इति। हे देवि सोमक्रयणि त्वमूर्वश्या देव्या सहेमां पश्य। अयं मन्त्रः स्पष्टार्थत्वाद्ब्राह्मणेनोपेक्षितः।

त्वष्ठीमतीति। बौधायनः — “अथ पत्नी यजमानमीक्षते त्वष्टीमती ते सपेय सुरेता रेतो दधाना वीरं विदेय तव संदृशीति” इति।

आपस्तम्बः — “त्वष्टीमती ते सपेयेति पत्नी सोमक्रयणीमभिमन्त्रयते” इति।

हे यजमान त्वया सह सपेय संगच्छेय। अथवा हे सोमक्रयणि ते तवानुग्रहेणाहं पत्या संगच्छेय। कीदृशी। त्वष्टीमती, स्त्रीपुरुषमिथुनरूपाणां पशुमनुष्यादीनां शरीरनिर्माता त्वष्टा। तथा चाग्न्युपस्थानप्रकरणे श्रूयते — “यावच्छो वै रेतसः सिक्तस्य त्वष्टारूपाणि विकरोति तावच्छो वै तत्प्रजायते” इति। तादृशमेव पत्यू रेतो दधाना तव पत्युः सोमक्रयण्या वा संदृश्यभीक्ष्णं वीक्षणं वर्तमाना वीरं स्वोचितगुणेषु शूरं पुत्रं विदेय लभेय।

“त्वष्टीमती ते सपेयेत्याह त्वष्टा वै पशूनां मिथुनाना रूपकृद्रूपमेव पशुषु दधाति” (सं. का. ६ प्र. १ अ. ८) इति।

माऽहमिति। बौधायनः — “सोमक्रयणीमीक्षते माऽह लायस्पोषेण वि योषमिति” इति।

आपस्तम्बः – “माऽह रायस्पोषेण वि योषमिति पत्नीपदं प्रदीयमानमनुमन्त्रयते” इति।

वियोषं वियुक्तो मा भूवम्। अयं मन्त्रो ब्राह्मणेनोपेक्षितः।

एतस्य सोमक्रयणीपदरजसस्तृतीयं भागं गार्हपत्ये प्रक्षिपेत्, भागान्तरमाहवनीय इति विधत्ते —

“अस्मै वै लोकाय गार्हपत्य आ धीयतेऽमुष्मा आहवनीयो यद्गार्हपत्य उपवपेदस्मिँल्लोके पशुमान्त्स्याद्यदाहवनीयेऽमुष्मिँल्लोके पशुमान्त्स्यादुभयोरुप वपत्युभयोरेवैनं लोकयोः पशुमन्तं करोति” (सं. का. ६ प्र. १ अ. ८) इति।

अत्र सूत्रम् — “पदरजस्त्रेधा विभज्य तृतीयमुत्तरतो गार्हपत्यस्य शीते भस्मन्युपवपति तृतीयमाहवनीयस्य तृतीयं पत्न्यै प्रयच्छति तत्सा गृहेषु दधाति” इति।

अत्र विनियोगसंग्रहः —

“षट्पदानुक्रमा वस्वी बृहस्तत्पदसंग्रहः।

पृथिव्यास्तत्पदे हुत्वा परि संवेष्ट्य रेखया॥१॥

अस्मे स्थाल्यां पदं क्षिप्त्वा त्वे दद्यात्स्वामिने पदम्।

तोते पत्न्यै पदं दद्यात्सं क्रयण्या ह्यवेक्षयेत्॥२॥

त्वष्टी तां मन्त्रयेत्पत्नी माऽहं तद्दीयते यदा।

पदं तदा मन्त्रयेत मन्त्राः पञ्चदशेरिताः॥३॥” इति।

अथ मीमांसा।

चतुर्थाध्यायस्य प्रथमपादे चिन्तितम् —

“सोमक्रयण्यानयने पदकर्म प्रयोजकम्।

न वाऽऽद्योऽक्षाञ्जनस्यापि क्रयवत्संनिकर्षतः॥

तृतीयया क्रयार्था गौस्तद्द्वाराऽऽनयनस्य च।

तादर्थ्यात्तत्प्रयुक्तत्वं न प्रयोजकता पदे” इति।

ज्योतिष्टोमे सोमक्रय आम्नायते — “एकहायन्या क्रीणाति” इति। सेयमेकहायनी गौर्यदा सोमं क्रेतुं नीयते तदाऽध्वर्युस्तस्याः पृष्ठतो गच्छति। तदप्याम्नातम् — षद्पदान्यनुनिष्क्रामति” इति। ततः सप्तमे पदे हिरण्यं निधाय हुत्वा तत्पदगतं रजो गृह्णीयात्। एतदपि श्रूयते — “सप्तमपदमध्वर्युरञ्जलिना गृह्णाति” इति। यदेतद्रजः संगृह्यते हविर्धानयोः शकटयोरक्षे तेन रजसा युक्तमञ्जनं क्षिपेत्। एतदपि श्रुतम् — “यज्ञं वा एतत्संभरन्ति एतत्सोमक्रयण्यै पदं यज्ञमुख हविर्धाने यर्हि हविर्धाने प्राची प्रवर्तयेयुस्तर्हि तेनाक्षमुपाञ्ज्यात्” इति। तत्र यथा क्रयः संनिकृष्टस्तथैव पदकर्माप्यक्षाञ्जनं संनिकृष्टम्। अथोच्येत दध्यानयनमामिक्षया यथा संयुक्तं न तथाऽक्षाञ्जनं सोमक्रयण्यानयने संयुक्तमिति। तन्न। क्रयेपि पदसंयोगस्य तुल्यत्वात्। अथासंयुक्तोऽपि क्रयो गवानयनेन निष्पाद्येत तर्ह्याक्षाञ्जनमपि तेन निष्पाद्यत इति समानत्वात्क्रयवत्पदकर्मापि सोमक्रयण्यानयनस्य प्रयोजकमिति प्राप्ते ब्रूमः — एकहायन्या क्रीणातीति तृतीयाश्रुत्या गोः क्रयार्थत्वं गम्यते। गोद्वारा तदानयनमपि क्रयार्थमेवेति क्रय एवाऽऽनयने प्रयोजकः। न च पदकर्मार्थत्वं गोर्वा तदानयनस्य वा क्वचिच्छ्रुतं तस्मात्तदप्रयोजकम्। अस्मिन्ननुवाके सर्वाणि यजूंष्येवेति नात्र च्छन्द इति॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये प्रथमकाण्डे द्वितीयप्रपाठके पञ्चमोऽनुवाकः ॥५॥
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 -6षट्पदान्यनु निक्रामति सोमक्रयणीं गच्छन्तीमनुगच्छति - वस्व्यसीत्यादिभिः । एते च षट्सु पदेषु षण्मन्त्राः ॥ तत्र वसुरुद्रादित्याः सवनत्रयस्य देवताः । अदितिः प्रायणीयोदयनीययोः । शुक्रस्सोमः । चन्द्रं हिरण्यं दक्षिणादिरूपम् वस्वादिमतो यज्ञस्य साधनत्वात् सोमक्रयण्यपि तद्वतीत्युच्यते । वस्वी वसुभिर्देवैः तद्वती त्वमसि । 'छन्दसीवनिपौ' इतीकारो मत्वर्थीयः, आद्युदात्तत्वं चिन्त्यम् । वृषादिर्वा द्रष्टव्यः । यद्वा - वस्वी प्रशस्ता, प्रशस्तता च वसुभिस्सम्बन्धात् । 'वोतो गुणवचनात्' इति ङीप्, तत्र हि 'गुणवचनात् ङीबाद्युदात्तार्थम्' इत्युक्तम् । रुद्रा रुद्रवती । 'लुगकारेकाररेफाश्च' इति मत्वर्थीयोकारः । अदितिः अदितिमती । तेनैव मतुपो लुक्, अव्ययपूर्वपदप्रकृतिस्वरत्वम् । आदित्या आदित्यवती । तेनैवाकारः । शुक्रवती शुक्रा । स एवाकारः । यद्वा - शुक् दीप्तिः तद्वती । तेनैव रेफः । चन्द्रवती चन्द्रा । स एवाकारः । यद्वा - आह्लादिनी । 'स्फायिताञ्चि' इत्यादिना रक्प्रत्ययः । 'षट्पदान्यनु नि क्रामति' इत्यादि ब्राह्मणम् ॥
7 सप्तमं पदमभिगृह्णाति - बृहस्पतिरिति ॥ बृहस्पतिर्ब्रह्मा, 'ब्रह्म वै देवानां बृहस्पतिः' इति । वनस्पत्यादित्वादुभयपदप्रकृतिस्वरत्वम् । स त्वां सुम्ने सुखे प्रदेशे रण्वतु गमयतु पदं कारयतु । रवि मवि धवि गत्यर्थाः; भौवादिकः इदित्त्वान्नुम् । किञ्च - क्रियमाणं वसुभिस्सह रुद्रः आचिकेतु अनुजानातु यः पशूनां पतिः । कि त ज्ञाने, जौहोत्यादिकौ, तयोः प्रथमस्येदं लोटि रूपम् ॥
8 तस्मिन् पदे जुहोति - पृथिव्या इति ॥ पृथिव्यास्त्वा मूर्धन् मूर्थनि मूर्धस्थानीये पदे । 'सुपां सुलुक्' इति सप्तम्या लुक्, 'न ङिसम्बुध्योः' इति नलोपाभावः । देवयजने । देवा इज्यन्तेस्मिन्नित्यधिकरणे ल्युट्, कृदुत्तरपदप्रकृतिस्वरत्वम् । 'पृथिव्या ह्येष मूर्धा यद्देवयजनम्' इत्यादि ब्राह्मणम् । इडायाः पदे इडा सोमक्रयणी, 'पशवो वा इडा', तस्यास्सप्तमे पदे । कीदृशे? घृतवति । 'यदेवास्यै पदाद्धृतमपीड्यत' इति ब्राह्मणम् । 'सा यत्रयत्र न्यक्रामत्ततो घृतमपीड्यत' इति च । हे आज्य तस्मिन् तादृशे पदे त्वामाजिघर्मि मर्यादया क्षारयामि । घृ क्षरणदीप्त्योः जौहोत्यादिकः, 'बहुळं छन्दसि' इत्यभ्यासस्येत्वम् । स्वाहा स्वाहुतं भव । यद्वा - इत्थं कर्तव्यमिति स्वयमेव खलु सरस्वत्याह ॥
9 पदं परिलिखति - परिलिखितमिति ॥ परिलिखितं परितो नाशितं रक्षोस्तु यदत्र छिद्रान्वेषि । 'गतिरनन्तरः' इति पूर्वपदप्रकृतिस्वरत्वम् । किच्च अरातयो धनस्यादातारः शत्रवः । वहुळवचनात्कर्तरि क्तिन् । अव्ययपूर्वपदप्रकृतिस्वरत्वम् । तेपि परिलिखितास्सन्तु अनेन पदविलेखनेन । कथमित्याह - यदेतत्परिलिखामि इदं खल्वहं रक्षसः ग्रीवा अपिकृन्तामि यथेष्टं कृन्तामि छिनद्मि । अपिशब्दः कामचारं द्योतयति । ग्रीवाशब्दो धमनिवचनः, तासां बहुत्वाद्बहुवचनं, यथा 'ग्रीवाभ्योण्च` इति । कृती छेदने, 'शेमुचादीनाम्' इति नुम् । तथा योऽस्मान् द्वेष्टि यं च वयं द्विष्मः तस्य द्वेष्टुः द्वेष्यस्य शत्रोः ग्रीवाः इदमपि कृन्तामि यदेतत्परिलिखामि । 'द्वौ वाव पुरुषौ' इत्यादि ब्राह्मणम् । इदमिति क्रियाविषेणत्वान्नपुंसकत्वम् ॥
10 पदपांसून् धरण्यां संवपति - अस्मे इति ॥ अस्मे अस्मासु । 'सुपां सुलुक्' इति सप्तमीबहुवचनस्य शेआदेशः । अनेन पदपांसुसंवापेन अस्माकं रायः धनानि पश्वात्मकानि सन्तु । 'पशवो वै सोमक्रयण्यै पदम्' इत्यादि ब्राह्मणम् । अत्र चाध्वर्युरात्मार्थमेवाशास्ते, न यजमानार्थम् । 'आत्मानमेवाध्वर्युः पशुभ्यो नान्तरेति' इति दर्शनात् ॥
11 यजमानाय प्रयच्छति - त्वे इति ॥ त्वे तव । 'त्वमावेकवचने' इति त्वादेशः, पूर्ववत्सप्तम्येकवचनस्य शेआदेशः । हे यजमान त्वयि च रायस्सन्तु ॥
12 यजमानः पत्न्यै प्रयच्छति - तोत इति ॥ ऊतं रक्षितम् । अवतेर्निष्ठायां ज्वरत्वरादिना ऊठादेशः । त्वया ऊतं तोतम् । त्वदूतमिति वक्तव्ये व्यञ्जनद्वयं लुप्यते, पृषोदरादित्वाद्रूपसिद्धिः, 'तृतीया कर्मणि' इति पूर्वपदप्रकृतिस्वरत्वम् । हे पत्नि त्वया रक्षिते च गृहे रायस्सन्तु । 'अर्धो वा एष आत्मनः' इत्यादि ब्राह्मणम् । आहुश्च 'तत्सा गृहेषु निदधाति' इति ॥
13 पत्नीं सोमक्रयण्या समीक्षयति - संदेवीति ॥ उरूणि महान्ति श्रेयांसि अश्नुते व्याप्नोतीत्युर्वशी । अश्नोतेः कर्मण्यण्, 'संज्ञापूर्वको विधिरनित्यः' इत्युपधाया वृद्धिर्न क्रियते, वर्णव्यत्ययेन वा ह्रस्वत्वम्, 'परादिश्छन्दसि बहुळम्' इत्युत्तरपदाद्युदात्तत्वम् । देव्या द्योतनवत्या त्वया दृश्यमानया हे देवि सोमक्रयणि सम्पश्यस्व सम्यग्दर्शनवती भव, यथेयमुरूणि श्रेयांस्यश्नुते तथा पश्येति भावः । 'दृशेश्चेति वक्तव्यम्' इत्यात्मनेपदम् । 'उदात्तयणो हल्पूर्वात्' इति देव्याः परस्यास्तृतीयाया उदात्तत्वम् ॥
14 पत्नी यजमानमीक्षते - त्वष्टीमतीति अस्तारबृहत्या वस्वष्टदशपङ्क्त्यक्षरया ॥ तक्षू त्वक्षू तनूकरणे, त्वक्षेः क्तिनि त्वष्टिः प्रजननविषयं नैशित्यं सामर्थ्यविशेषः, तद्वती त्वष्टमिती मिथुनीभवने योग्या । अहं ते तुभ्यं सपेय मिथुनीभवेयम् । षप समवाये, व्यत्ययेनात्मनेपदम्, 'क्रियाग्रहणं च कर्तव्यम्' इति सम्प्रदानत्वात्त इति चत्रुथी, पत्ये शेते इति यथा । यद्वा - त्वष्टुर्व्यापारास्त्वष्टयः विविधप्रजानिर्माणशक्तयः । 'त्वष्टा वै पशूनां मिथुनानां रूपकृत्' इति ब्राह्मणमप्युपपद्यते । त्वष्टारमाचक्षते इति त्वष्टीयतेः 'सर्वधातुभ्यः' इतीन्प्रत्ययः । तद्वती त्वष्टीमती । सर्वत्र 'अन्येषामपि दृश्यते' इति दीर्घः । किञ्च – सुरेता शोभनममोघं यस्यां निषिक्तं शुक्लं सा सुरेताः । 'सोर्मनसी अलोमोषसी' इत्युत्तरपदाद्युदात्तत्वम् । रेतश्च त्वया निषिक्तं दधाना गर्भार्थमन्तर्बिभ्रती । 'अभ्यस्तानामादिः' इत्याद्युदात्तत्वम् । अहमीदृशीभूत्वा वीरं पुत्रं विदेय लभेय । वेतेः प्रनननवृत्तेः औणादिको रक्प्रत्ययः । विदिर्लाभे, स्वरितेत्, 'आशिषि लिङि' 'लिङ्याशिष्यङ्', सीयुट्, 'छन्दस्युभयथा' इति सार्वधातुकत्वात् सलोपः, अतो लोपाभावश्छान्दसः । तव संदृशि संदर्शने सस्नेहदृष्टिलाभे । सम्पदादित्वात्क्विप्, कृदुत्तरपदप्रकृतिस्वरत्वम् ॥
15 यजमानस्सोमक्रयणीमीक्षते - माहमिति चतुर्थेन पादेन ॥ अहं रायो धनस्य पोषेण पुष्ट्या मा वियोषं वियुक्तो मा भूवम्, हे सोमक्रयणि त्वत्प्रसादात् । यौतेर्लिङि 'छन्दस्युभयथा' इति सिचस्सार्वधातुकत्वादिडभावः, 'संज्ञापूर्वको विधिरनित्यः' इति सिचि वृद्धिर्न क्रियते । यद्वा - युङ्बन्धने क्रैयादिकः, अनुदात्तः 'युणुक्ष्णवः' इत्यत्र हि कारिकायां सानुबन्धस्य ग्रहणात्, वृद्ध्यभावः पूर्ववत् । यद्वा - 'लेटोऽडाटौ' इत्याडागमः, इतश्च लोपः, 'सिब्बहुळं लेटि', 'ऊडिदम्' इत्यादिना रायः परस्याष्षष्ठ्या उदात्तत्वम्, 'षष्ठ्याः पतिपुत्र' इत्यादिना विसर्जनीयस्य संहितायां सकारः ॥
इति द्वितीये पञ्चमोनुवाकः ॥
पञ्चशत् 2 #
TS 1.2.5.2 TS 1.2.5.2
अपि॑ कृन्ताम्य॒स्मे राय॒स्त्वे राय॒स्तोते॒ रायः॒ सं दे॑वि दे॒व्योर्वश्या॑ पश्यस्व॒ त्वष्टी॑मती ते सपेय सु॒रेता॒ रेतो॒ दधा॑ना वी॒रं ॅवि॑देय॒ तव॑ स॒न्दृशि॒ माऽहꣳरा॒यस्पोषे॑ण॒ वि यो॑षं ॥
पदपाठः (Word-by-word)
अपीति॑ । कृ॒न्ता॒मि॒ । अ॒स्मे इति॑ । रायः॑ । त्वे इति॑ । रायः॑ । तोते᳚ । रायः॑ । समिति॑ । दे॒वि॒ । दे॒व्या । उ॒र्वश्या᳚ । प॒श्य॒स्व॒ । त्वष्टी॑मती । ते॒ । स॒पे॒य॒ । सु॒रेता॒ इति॑ सु - रेताः᳚ । रेतः॑ । दधा॑ना । वी॒रम् । वि॒दे॒य॒ । तव॑ । सं॒दृशीति॑ सं - दृशि॑ । मा॒ । अ॒हम् । रा॒यः । पोषे॑ण । वीति॑ । यो॒ष॒म् ॥
पदसंख्या: 29