पदपाठः (Word-by-word)
सायणभाष्यम् (Sayana Commentary)
[अथ प्रथमकाण्डे द्वितीयप्रपाठके पञ्चमोऽनुवाकः]
चतुर्थेऽनुवाके क्रयप्रदेशं प्रति सोमक्रयणीगमनमुक्तम्। गतायां तस्यां क्रयाय सोमोन्मानस्यावसरः। सप्तमपदसंग्रहस्तु गमनमध्य एव कर्तव्यः। ततः पञ्चमे सोऽभिधीयते।
वस्व्यसीति। कल्पः- “तस्यै षट्पदान्यनुनिष्क्रामति वस्व्यसि रुद्राऽस्यदितिरस्यादित्याऽसि शुक्राऽसि चन्द्राऽसीति गच्छन्तीं सोमक्रयणीमनुगच्छन्षट्सु तदीयपदेषु षड्भिरेतैर्मन्त्रैः स्वपादं प्रक्षिपेत्” इति।
वसुरुद्रादित्याः सवनत्रयदेवताः। अदितिः प्रायणीयोदयनीययोर्देवता। शुक्रशब्देन दीप्तिमान्सोमो विवक्षितः। चन्द्रशब्देनाऽऽह्लादकारि सुवर्णम्। हे सोमक्रयणि त्वं वस्वादीनां स्वरूपमसि। तदपेक्षितसोमयागसाधनत्वात्।
बृहस्पतिरिति। कल्पः – “सप्तमं पदमञ्जलिना गृह्णाति बृहस्पतिस्त्वा सुम्ने रण्वतु रुद्रो वसुभिरा चिकेत्विति” इति।
हे सोमक्रयाणीपद त्वां बृहस्पतिरस्मिन्सुखप्रदेशे रमयतु वसुभिः सहितो रुद्रस्त्वामनुजानातु आवर्तयतु वा।
पृथिव्या इति। कल्पः — “अथैतस्मिन्पदे हिरण्यं निधाय संपरिस्तीर्याभिजुहोति पृथिव्यास्त्वा मूर्धन्ना जिघर्मि देवयजन इडायाः पदे घृतवति स्वाहेति” इति।
हे घृत त्वामिडायाः सोमक्रयण्याः पदे समन्तात्क्षारयामि। कीदृशे पदे। पृथिव्या मूर्धस्थानीये देवतानां यागस्थाने घृतयुक्ते। तथाऽन्यत्राऽम्नातम् ‘सा यत्र यत्र न्यक्रामत्ततो घृतमपीड्यत तस्माद्घृतपद्युच्यते” इति।
मन्त्रान्व्याख्यातुमादावनुष्ठानं विधत्ते —
‘षट्पदान्यनु नि क्रामति षडहं वाङ्नाति वदत्युत संवत्सरस्यायने यावत्येव वाक्तामवरुन्धे’ (सं. का. ६ प्र. १ अ. ८) इति।
आस्ति कश्चित्पृष्ठ्यः षडहाख्यो यागः। तत्र षड्विधानि स्तोत्राणि बृहद्रथंतरवैरूपवैराजशक्वररैवतनामकैः सामभिः साध्यानि। तानि च क्रमेण षट्सु दिनेषु गीयन्ते। न तु सप्तमं पृष्ठ्यस्तोत्रं किंचिदप्यस्ति। ततः प्रधानभूतपृष्ठ्यस्तोत्ररूपा वाग्देवता षडहगतां संख्यामतीत्य न क्वापि वदति। अपि च संवत्सरकालसंबन्धिनि गवामयनेऽपि नाधिकं पृष्ठ्यस्तोत्रं वदति। तस्माद्वाग्रूपायाः सोमक्रयण्याः षट्पदानामनुक्रमणं युक्तम्। तस्माद्वाग्रूपत्वादेव सर्वं वाचमवरुन्धे।
विधत्ते —
“सप्तमे पदे जुहोति सप्तपदा शक्वरी पशवः शक्वरी पशूनेवाव रुन्धे सप्त ग्राम्याः पशवः सप्ताऽऽरण्याः सप्त छन्दास्युभयस्यावरुद्ध्यै” (सं. का. ६ प्र. १ अ. ८) इति।
गवादयो ग्राम्याः। कृष्णमृगादय आरण्याः। तथा च बौधायनः – “सप्त ग्राम्याः पशवोऽजाश्वो गौर्महिषी वराहो हस्त्यश्वतरी चेत्यथ सप्ताऽऽरण्या द्विखुराश्चैकखुराश्च पक्षिणश्च सरीसृपाश्च श्वापदश्च शरभाश्च मर्कटाश्च” इति। गायत्री त्रिष्टुबित्यीदीनि सप्त छन्दांसि। पशुजातीयं छन्दोजातीयं चेत्युभयमपि सप्तसंख्ययाऽवरुध्यते।
प्रथममन्त्रगतशब्दस्वरूपेणैव सोमक्रयण्या महिमाऽऽख्यायत इत्याह —
“वस्व्यसि रुद्राऽसीत्याह रूपमेवास्या एतन्महिमानं व्याचष्टे” (सं. का. ६ प्र. १ अ. ८) इति।
द्वितीयमन्त्रे बृहस्पतिशब्दमा चिकेत्विति शब्दं व्याचष्टे —
“बृहस्पतिस्त्वा सुम्ने रण्वत्वित्याह ब्रह्म वै देवानां बृहस्पतिर्ब्रह्मणैवास्मै पशूनव रुन्धे रुद्रो वसुभिरा चिकेत्वित्याहाऽऽवृत्त्यै” (सं. का. ६ प्र. १ अ. ८) इति।
तृतीयमन्त्रार्थस्य प्रसिद्धिं दर्शयति-
“पृथिव्यास्त्वा मूर्धन्ना जिघर्मि देवयजन इत्याह पृथिव्या ह्येष मूर्धा यद्देवयजनमिडायाः पद इत्याहेडायै ह्येतत्पदं यत्सोमक्रयण्यै घृतवति स्वाहेत्याह यदेवास्यै पदाद्घृतमपीड्यत तस्मादेवमाह” (सं. का. ६ प्र. १ अ. ८) इति।
सोमक्रयणीपदे हिरण्यप्रक्षेपं विधत्ते —
“यदध्वर्युरनग्नावाहुतिं जुहुयादन्धोऽध्वर्युः स्याद्रक्षासि यज्ञ हन्युर्हिरण्यमुपास्य जुहोत्यग्निवत्येव जुहोति नान्धोऽध्वर्युर्भवति न यज्ञ रक्षासि घ्नन्ति” (सं. का. ६ प्र. १ अ. ८) इति।
परिलिखितमिति। कल्पः — “अथोद्धृत्य हिरण्यशकलेन वा कृष्णविषाणया वा पदं परिलिखति परिलिखित रक्षः परिलिखिता अरातय इदमह रक्षसो ग्रीवा अपि कृन्तामि योऽस्मान्द्वेष्टि यं च वयं द्विष्म इदमस्य ग्रीवा अपि कृन्तामीति” इति।
परिलिखितं नाशितं, रक्ष इति जात्यभिप्रायेणैकवचनम्। ग्रीवा इति व्यक्त्यभिप्रायेण बहुवचनम्। इदमिति हस्ताभिनयः। कृन्तामि च्छिनद्मि।
रक्षसः प्रसक्तिं पूर्वोक्तां स्मारयन्मन्त्रं व्याचष्टे –
“काण्डेकाण्डे वै क्रियमाणे यज्ञ रक्षासि जिघासन्ति परिलिखित रक्षः परिलिखिता अरातय इत्याह रक्षसामपहत्या इदमह रक्षसो ग्रीवा अपि कृन्तामि योऽस्मान्द्वेष्टि यं च वयं द्विष्म इत्याह द्वौ वाव पुरुषौ यं चैव द्वेष्टि यश्चैनं द्वेष्टि तयोरेवानन्तरायं ग्रीवाः कृन्तति” (सं. का. ६ प्र. १ अ. ८) इति।
अनन्तरायं द्वयोर्मध्य एकतरस्याप्यन्तरायो यथा न भवति तथेत्यर्थः।
अस्मे इति। कल्पः — “अस्मे राय इति स्थाल्यां यावत्त्मूतसमोप्य त्वे राय इति यजमानाय प्रयच्छति तोते राय इति पत्नियै” इति।
त्मूतं घृतेनाऽऽप्लुतम्। तादृशं रजः सोमक्रयण्याः सप्तमपदस्थाने यावदस्ति तावत्सर्वं पात्रे क्षिपेत्। अस्मिन्नध्वर्यौ रायो रजोरूपं धनं तिष्ठतु त्वे त्वयि यजमाने। तोते कलत्रे।
अनुष्ठानविधिपुरःसरं मन्त्रान्व्याचष्टे —
“पशवो वै सोमक्रयण्यै पदं यावत्त्मूत सं वपति पशूनेवाव रुन्धेऽस्मे राय इति सं वपत्यात्मानमेवाध्वर्युः पशुभ्यो नान्तरेति त्वे राय इति यजमानाय प्र यच्छति यजमान एव रयिं दधाति तोते राय इति पत्निया अर्थो वा एष आत्मनो यत्पत्नी यथा गृहेषु निधत्ते तादृगेव तत्” (सं. का. ६ प्र. १ अ. ८) इति।
समिति। कल्पः – “अथ पत्नीं सोमक्रयण्या समीक्षयति सं देवि देव्योर्वश्या पश्यस्वेति” इति। हे देवि सोमक्रयणि त्वमूर्वश्या देव्या सहेमां पश्य। अयं मन्त्रः स्पष्टार्थत्वाद्ब्राह्मणेनोपेक्षितः।
त्वष्ठीमतीति। बौधायनः — “अथ पत्नी यजमानमीक्षते त्वष्टीमती ते सपेय सुरेता रेतो दधाना वीरं विदेय तव संदृशीति” इति।
आपस्तम्बः — “त्वष्टीमती ते सपेयेति पत्नी सोमक्रयणीमभिमन्त्रयते” इति।
हे यजमान त्वया सह सपेय संगच्छेय। अथवा हे सोमक्रयणि ते तवानुग्रहेणाहं पत्या संगच्छेय। कीदृशी। त्वष्टीमती, स्त्रीपुरुषमिथुनरूपाणां पशुमनुष्यादीनां शरीरनिर्माता त्वष्टा। तथा चाग्न्युपस्थानप्रकरणे श्रूयते — “यावच्छो वै रेतसः सिक्तस्य त्वष्टारूपाणि विकरोति तावच्छो वै तत्प्रजायते” इति। तादृशमेव पत्यू रेतो दधाना तव पत्युः सोमक्रयण्या वा संदृश्यभीक्ष्णं वीक्षणं वर्तमाना वीरं स्वोचितगुणेषु शूरं पुत्रं विदेय लभेय।
“त्वष्टीमती ते सपेयेत्याह त्वष्टा वै पशूनां मिथुनाना रूपकृद्रूपमेव पशुषु दधाति” (सं. का. ६ प्र. १ अ. ८) इति।
माऽहमिति। बौधायनः — “सोमक्रयणीमीक्षते माऽह लायस्पोषेण वि योषमिति” इति।
आपस्तम्बः – “माऽह रायस्पोषेण वि योषमिति पत्नीपदं प्रदीयमानमनुमन्त्रयते” इति।
वियोषं वियुक्तो मा भूवम्। अयं मन्त्रो ब्राह्मणेनोपेक्षितः।
एतस्य सोमक्रयणीपदरजसस्तृतीयं भागं गार्हपत्ये प्रक्षिपेत्, भागान्तरमाहवनीय इति विधत्ते —
“अस्मै वै लोकाय गार्हपत्य आ धीयतेऽमुष्मा आहवनीयो यद्गार्हपत्य उपवपेदस्मिँल्लोके पशुमान्त्स्याद्यदाहवनीयेऽमुष्मिँल्लोके पशुमान्त्स्यादुभयोरुप वपत्युभयोरेवैनं लोकयोः पशुमन्तं करोति” (सं. का. ६ प्र. १ अ. ८) इति।
अत्र सूत्रम् — “पदरजस्त्रेधा विभज्य तृतीयमुत्तरतो गार्हपत्यस्य शीते भस्मन्युपवपति तृतीयमाहवनीयस्य तृतीयं पत्न्यै प्रयच्छति तत्सा गृहेषु दधाति” इति।
अत्र विनियोगसंग्रहः —
“षट्पदानुक्रमा वस्वी बृहस्तत्पदसंग्रहः।
पृथिव्यास्तत्पदे हुत्वा परि संवेष्ट्य रेखया॥१॥
अस्मे स्थाल्यां पदं क्षिप्त्वा त्वे दद्यात्स्वामिने पदम्।
तोते पत्न्यै पदं दद्यात्सं क्रयण्या ह्यवेक्षयेत्॥२॥
त्वष्टी तां मन्त्रयेत्पत्नी माऽहं तद्दीयते यदा।
पदं तदा मन्त्रयेत मन्त्राः पञ्चदशेरिताः॥३॥” इति।
चतुर्थाध्यायस्य प्रथमपादे चिन्तितम् —
“सोमक्रयण्यानयने पदकर्म प्रयोजकम्।
न वाऽऽद्योऽक्षाञ्जनस्यापि क्रयवत्संनिकर्षतः॥
तृतीयया क्रयार्था गौस्तद्द्वाराऽऽनयनस्य च।
तादर्थ्यात्तत्प्रयुक्तत्वं न प्रयोजकता पदे” इति।
ज्योतिष्टोमे सोमक्रय आम्नायते — “एकहायन्या क्रीणाति” इति। सेयमेकहायनी गौर्यदा सोमं क्रेतुं नीयते तदाऽध्वर्युस्तस्याः पृष्ठतो गच्छति। तदप्याम्नातम् — षद्पदान्यनुनिष्क्रामति” इति। ततः सप्तमे पदे हिरण्यं निधाय हुत्वा तत्पदगतं रजो गृह्णीयात्। एतदपि श्रूयते — “सप्तमपदमध्वर्युरञ्जलिना गृह्णाति” इति। यदेतद्रजः संगृह्यते हविर्धानयोः शकटयोरक्षे तेन रजसा युक्तमञ्जनं क्षिपेत्। एतदपि श्रुतम् — “यज्ञं वा एतत्संभरन्ति एतत्सोमक्रयण्यै पदं यज्ञमुख हविर्धाने यर्हि हविर्धाने प्राची प्रवर्तयेयुस्तर्हि तेनाक्षमुपाञ्ज्यात्” इति। तत्र यथा क्रयः संनिकृष्टस्तथैव पदकर्माप्यक्षाञ्जनं संनिकृष्टम्। अथोच्येत दध्यानयनमामिक्षया यथा संयुक्तं न तथाऽक्षाञ्जनं सोमक्रयण्यानयने संयुक्तमिति। तन्न। क्रयेपि पदसंयोगस्य तुल्यत्वात्। अथासंयुक्तोऽपि क्रयो गवानयनेन निष्पाद्येत तर्ह्याक्षाञ्जनमपि तेन निष्पाद्यत इति समानत्वात्क्रयवत्पदकर्मापि सोमक्रयण्यानयनस्य प्रयोजकमिति प्राप्ते ब्रूमः — एकहायन्या क्रीणातीति तृतीयाश्रुत्या गोः क्रयार्थत्वं गम्यते। गोद्वारा तदानयनमपि क्रयार्थमेवेति क्रय एवाऽऽनयने प्रयोजकः। न च पदकर्मार्थत्वं गोर्वा तदानयनस्य वा क्वचिच्छ्रुतं तस्मात्तदप्रयोजकम्। अस्मिन्ननुवाके सर्वाणि यजूंष्येवेति नात्र च्छन्द इति॥