पदपाठः (Word-by-word)
सायणभाष्यम् (Sayana Commentary)
(अथ प्रथमकाण्डे द्वितीयप्रपाठके सप्तमोऽनुवाकः )।
षष्ठेऽनुवाके क्रयाय सोमस्योन्मानमुक्तम्। सप्तमे लब्धावसरः क्रयोऽभिधीयते। सोममिति। बौधायनः — ‘अथैनं स हिरण्येन पणते सोमं ते क्रीणाम्यूर्जस्वन्तं पयस्वन्तं वीर्यावन्तमभिमातिषाह शुक्रं ते शुक्रेण क्रीणामि चन्द्रं चन्द्रेणामृतममृतेन सम्यत्ते गोरिति’ इति।
आपस्तम्बो मन्त्रभेदमाह — ‘सोमविक्रयिणे राजानं प्रदाय पणते सोमविक्रयिन्क्रय्यस्ते सोमा३ इति क्रय्य इतीतरः प्रत्याह सोमं ते क्रीणाम्यूर्जस्वन्तमित्युक्त्वा कलया ते क्रीणानीत्येवमाह भूयो वा अतः सोमो राजाऽर्हतीति सर्वेषु पणनेषु सोमविक्रयी प्रत्याहा संपदो गवा ते क्रीणानीत्यन्ततः शुक्रं ते शुक्रेण क्रीणामीति जपित्वा हिरण्येन क्रीणाति’ इति।
हे सोमविक्रयिन्नहं त्वदीयं सोमं क्रीणामि। कीदृशम्। ऊर्जस्वन्तं शारीरबलप्रदं, पयस्वन्तं प्रभूतरसोपेतं, वीर्यावन्तमिन्द्रियपाटवहेतुम्। अमिमातिषाहं पापरूपस्य वैरिणो हन्तारम्। शुक्रचन्द्रामृतशब्दैरभिधेयास्तेजःसुखाविनाशास्त्वदीयसोमेऽस्म-दीयहिरण्ये च समाः। अतो हिरण्येन सोमं क्रीणामि। न केवलं हिरण्यं तुभ्यं दीयते किंतु समीचीनं गोरेकहायनीस्वरूपमपि पूर्वं दत्तं तस्मात्तव हिरण्यलाभोऽधिकः।
अस्मे इति। कल्पः — “अस्मे चन्द्राणीति सोमविक्रयिणो हिरण्यमपादत्ते” इति।
अस्मास्वेव हिरण्यानि चन्द्राणि तिष्ठन्तु। बहुवचनं व्यत्ययेन द्रष्टव्यम्।
तपस इति। बौधायनः — ‘अथैनं प्राचीनग्रीवयाऽजया पणते तपसस्तनूरसि प्रजापतेर्वर्णस्तस्यास्ते सहस्रपोषं पुष्यन्त्याश्चरमेण पशुना क्रीणामीति अस्मे ते बन्धुरिति यजमानमीक्षते मयि ते रायः श्रयन्तामित्यात्मानम्’ इति।
अपस्तम्बस्त्वेकमन्त्रतामाह – ‘तपसस्तनूरसीति जपित्वाऽजया क्रीणामि’ इति। हेऽजे त्वं तपसः पुण्यस्य शरीरमसि। यज्ञनिष्पादकस्य सोमस्य द्युलोके त्वयैवावरुद्धत्वात्। वर्ण्यत इति वर्णो देहः प्रजापतेर्वर्णोऽसि। प्रजापतिवत्सर्वदेवात्मकत्वात्। तच्चौपानुवाक्यकाण्ड आम्नातम् — ‘सा वा एषा सर्वदेवत्या यदजा’ इति। किंच त्वमपत्यपरम्परया सहस्रसंख्यातं पुष्यसि। तादृश्यास्तव संबन्धिना चरमेण सहस्रतमेन पशुना सोमं क्रीणामि न तु त्वया। अहं तव बन्धुस्त्वत्संपादितस्य सोमस्य कर्मणि प्रवृत्तत्वान्मयि त्वदीयान्यपत्यरूपाणि धनान्यवतिष्ठन्ताम्।
मन्त्रान्व्याचिख्यासुरादावनभिमतं निराकृत्य स्वाभिमतं पणनमन्त्रमुत्पाद्य विनियुङ्क्ते —
‘यत्कलया ते शफेन ते क्रीणानीति पणेतागोअर्घ सोमं कुर्यादगोअर्घं यजमानमगो अर्घमध्वर्युं गोस्तु महिमानं नाव तिरेद्गवा ते क्रीणानीत्येव ब्रूया-
द्गोअर्घमेव सोमं करोति गोअर्घं यजमानं गोअर्घमध्वर्युं न गोर्महिमानमव तिरति” [सं. का. ६ प्र. १ अ.१०] इति।
कलाऽल्पादप्यल्पो यः गोऽप्यवयवलेशः। कलया शफेन वा पणने दोषत्रयं स्यात्। सोमो गोरूपं मूल्यं नार्हति। यजमानस्तद्दातुं न शक्नोति। अध्वर्युश्च न दापयतीत्येवं सोमयजमानाध्वर्यवो गोअर्घरहिता इति दोषत्रयम्। किंच सोमो गोमूल्य इत्युक्ते गोर्महिमाऽधिको भवेत्। तं नावजानीयात्। परमते त्वसाववज्ञातो भवेत्। गवा ते क्रीणानीत्यनेन मन्त्रेण सर्वं समाहितं भवति।
यथेयं सोमक्रयणी गौस्तथैवाजादीनि नव द्रव्याणि क्रयसाधनाति क्रमेण विधत्ते —
“अजया क्रीणाति सतपसमेवैनं क्रीणाति हिरण्येन क्रीणाति सशुक्रमेवैनं क्रीणाति धेन्वा क्रीणाति वह्निर्वा अनड्वान्वह्निनैव वह्निं यज्ञस्य क्रीणाति मिथुनाभ्यां क्रीणाति मिथुनस्यावरुद्ध्यै वाससा क्रीणाति सर्वदेवत्यं वै वासः सर्वाभ्य एवैनं देवताभ्यः क्रीणाति दश संपद्यन्ते दक्षाक्षरा विराडन्नं विराड्विराजैवान्नद्यमव रुन्धे” (सं. का. ६ प्र. १ अ.१०) इति।
तपसस्तनूरसीत्युक्तत्वादजया क्रीतस्य सोमस्य सतपस्त्वम्। एवमुत्तरत्रापि योज्यम्। साशिरं दध्यादिगोरसोपेतं, सेन्द्रमिन्द्रियवर्धकं, वह्निर्वाहकः, यज्ञस्य वह्निं यज्ञनिर्वाहकं सोमम्। मिथुनाभ्यां वत्सतरो वत्सतरी चेत्येताभ्यां मिथुनावयवाभ्यां धेनोः सवत्साया विवक्षितत्वाद्दशद्रव्यसंपत्तिः।
मन्त्रत्रयं स्पष्टार्थत्वबुद्ध्योपेक्ष्य चतुर्थमन्त्रस्याभिप्रायमाह —
“तपसस्तनूरसि प्रजापतेर्वर्ण इत्याह पशुभ्य एव तदध्वर्युर्निह्नुत आत्मनोऽनाव्रस्काय” (सं. का. ६ प्र. १ अ.१०) इति।
तत्तेन मन्त्रपाठेन पशुभ्योऽजाप्रभृतीन्निह्नुतेऽपलपति। न ह्यजा परमार्थतस्तपसस्तनूर्भवति, नापि प्रजापतेर्वर्णर्णो रूपम्। तेनापलापेनाजोपचरिता भवति। स चोपचारः स्वस्यापराधराहित्याय क्रियते।
पशूपचारवेदनं प्रशंसति –
‘गच्छति श्रियं प्र पशूनाप्नोति य एवं वेद” (सं. का. ६ प्र. १ अ.१०) इति।
दत्तस्य हिरण्यस्य पुनरादानं विधित्सुर्हिरण्यप्रकाशकं द्वितीयमन्त्रं स्पष्टार्थमपि पुनरनुसंधत्ते —
“शुक्रं ते शुक्रेण क्रीणामीत्याह यथायदुरेवैतत्” (सं. का. ६ प्र. १ अ. ५) इति।
पुनरादानं विधत्ते —
“देवा वै येन हिरण्येन सोममक्रीणन्तदभीषहा पुनराऽददत को हि तेजसा विक्रेष्यत इति येन हिरण्येन सोमं क्रीणीयत्तदभीषहा पुनरा ददीत तेज एवाऽऽत्मन्धत्ते” (सं. का. ६ प्र. १ अ. ११) इति।
अभीषहा बलात्कारेण। को हीत्यादिर्तेवाभिप्रायः।
अस्मे इति। कल्पः – “अस्मे ज्योतिरिति शुक्लामूर्णास्तुकां यजमानाय प्रयच्छति तां काले दशापवित्रस्य नाभिं कुरुते” इति।
अविलोमभिर्निर्मिततन्तुरूर्णास्तुका। स च शुक्ला ज्योतिःस्वरूपा। तज्ज्योतिरस्मास्ववतिष्ठताम्।
सोमविक्रेति। कल्पः — “कृष्णामूर्णास्तुकामद्भिः क्लेदयित्वेदमह सर्पाणां दन्दशूकानां ग्रीवा उपग्रथ्नामीत्युपग्रथ्य सोमविक्रयिणं विध्यति सोमविक्रयिणि तम इति” इति।
मन्त्रद्वयं व्याचष्टे –
अस्मे ज्योतिः सोमविक्रयिणि तम इत्याह ज्योतिरेव यजमाने दधाति तमसा सोमविक्रयिणमर्पयति” (सं. का. ६ प्र. १ अ. १०) इति।
विपक्षे बाधपुरःसरं ग्रथनमन्त्रमुत्पादयति —
“यदनुपग्रथ्य हन्याद्दन्दशूकास्ता सर्पा स्युरिदपह सर्पाणां दन्दशूकानां ग्रीवा उप ग्रथ्नामीत्याहादन्दशूकास्ता समा सर्पा भवन्ति तमसा सोमविक्रयिणं विध्यति” (सं. का. ६ प्र. १ अ. ५) इति।
कृष्णया विध्येत्। तां समां तं संवत्सरं कृत्स्नम्। इदमहमित्यादिमन्त्रेण सर्पदंशस्य परिहारः। मित्र इति। कल्पः — “कौत्साद्राजानमादत्ते मित्रो न एहि सुमित्रधा इति तं यजमानस्योरौ दक्षिणत आसादयति। इन्द्रस्योरुमाविश दक्षिणमुशन्नुशन्त स्योनः स्योनमिति” इति।
शोभनं मित्रं सोमरूपं यस्य यजमानस्य स यजमानः सुमित्रस्तं दधाति पोषयतीति सुमित्रधाः। हे सोम सुमित्रधास्त्वमस्माकं मित्रः प्रियो भूत्वा समागच्छ। हे सोम, इन्द्रस्य यजमानस्य दक्षिणमूरुमाविश। कीदृशम्, उशन्तं कामयमानं स्योनं सुखकरम्। त्वमपि तादृशः।
स्वानेति। कल्पः — “अथ सोमक्रयणाननुदिशति स्वान भ्राजाङ्घारे बम्भारे हस्त सुहस्त कृशानवेते वः सोमक्रयणास्तान्रक्षध्वं मा वो दभन्निति” इति।
स्वानादयः सोमरक्षकाः। सोमः क्रीयते यैर्गवादिभिस्ते सोमक्रयणाः हे स्वानादयस्तान्सोमक्रयणान्पालयत। केऽपि वैरिणो युष्मान्मा हिंसिषत। अत्र मूल्यभूतान्सोमक्रयणाननुदिश्य पश्चात्सोमस्वीकारो युक्तः। अतोऽर्थक्रमेण मित्रो नः, इन्द्रस्योरुमिति मन्त्रद्वयमुषरिष्टाद्व्याख्यास्यते।
इमं मन्त्रं व्याचष्टे —
“स्वान भ्राजेत्याहैते वा अमुष्मिँल्लोके सोममरक्षन्तेभ्योऽधि सोममाऽहरन्” (सं. का. ६ प्र. १ अ. १०) इति।
अधि अधिकं प्रभूतम्।
विपक्षस्वपक्षयोर्दोषतत्समव[मा]धाने दर्शयति —
“यदेतेभ्यः सोमक्रयणान्नानुदिशेदक्रीतोऽस्य सोमः स्यान्नास्यैतेऽमुष्मिँल्लोके सोम रक्षेयुर्यदेतेभ्यः सोमक्रयणाननुदिशति क्रीतोऽस्य सोमो भवत्येतेऽस्यामुष्मिँल्लोके सोम रक्षन्ति” (सं. का. ६ प्र. १ अ. १०) इति।
सोमं सोमयागफलम्।
“वारुणो वै क्रीतः सोम उपनद्धो मित्रो न एहि सुमित्रधा इत्याह शान्त्यै” (सं. का. ६ प्र. १ अ. ११) इति।
बन्धनस्य वरुणपाशरूपत्वात्तद्युक्तः सोमो वारुणः अतो वरुणावक्त्रूरत्वप्राप्तौ तच्छान्तये मित्रत्वं प्रतिपादयति।
ऊरुस्थानं पूर्वाचारप्राप्तमित्याह —
“इन्द्रस्योरुमा विश दक्षिणमित्याह देवा वै य सोममक्रीणन्तमिन्द्रस्योरौ दक्षिण आऽसादयन्नेष खलु वा एतर्हीन्द्रो यो यजते तस्मादेवमाह” (सं. का. ६ प्र. १ अ. ११) इति।
अत्र विनियोगसंग्रहः —
“सोमं जपेत्क्रयात्पूर्वं शक्रं स्वर्णेन तत्क्रये।
अस्मे स्वर्णमपादत्ते तप जप्यं क्रयेऽजया॥१॥
अस्मे ज्यो स्वामिने दद्याच्छुक्लामूर्णास्तुकामथ।
सोम विध्येत्कृष्णयोर्णास्तुकया क्रयकारिणम्॥२॥
मित्रः सोममुपादायेन्द्रस्योरावुपवेशयेत्।
स्वान मूल्याननुदिशेदिमे मन्त्रा नवोदिताः॥३॥” इति।
द्वादशाध्यायस्य चतुर्थपादे चिन्ततम् –
“क्रयणेषु विकल्पः स्यात्साहित्यं वाऽग्रिमो यतः।
कार्यैक्यमानतेर्लाभाद्दशोक्तेश्च समुच्चयः” इति।
अजया क्रीणाति हिरण्येन क्रीणाति वाससा क्रीणातीत्यादीनि बहूनि सोमक्रयसाधानद्रव्याण्याम्नातानि। तेषां कार्यैक्याद्विकल्प इति चेन्मैवम्। बहुभिर्द्रव्यैर्विक्रेतुरानतेः सौलभ्यात्, दशभिः क्रीणातीति संख्योक्तेश्च समु़च्चयः।
अत्र सर्वाणि यजूंषि॥
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
इति द्वितीये प्रपाठके सप्तमोनुमाकः