अनुवाकः 7 TS 1.2.7

(A7)

(उ॒रुं-द्वाविꣳ॑शतिश्च)

अनुवाकः 7 - Complete Audio

TS 1.2.7 - स्वरानुगामी

0:00 0:00
PS1.1 सोमं॑ ते क्रीणा॒म्यूर्ज॑स्वन्तं॒ पय॑स्वन्तं
PS1.2 ॅवी॒र्या॑वन्तमभि-माति॒षाहꣳ॑ शु॒क्रं ते॑ शु॒क्रेण॑
PS1.3 क्रीणामि च॒न्द्रं च॒न्द्रेणा॒मृत॑म॒मृते॑न स॒म्यत्ते॒
PS1.4 गोर॒स्मे च॒न्द्राणि॒ तप॑सस्त॒नूर॑सि प्र॒जाप॑ते॒र्
PS1.5 वर्ण॒स्तस्या᳚स्ते सहस्रपो॒षं पुष्य॑न्त्याश्चर॒मेण॑ प॒शुना᳚
PS1.6 क्रीणाम्य॒स्मे ते॒ बन्धु॒र्मयि॑ ते॒
PS1.7 रायः॑ श्रयन्ताम॒स्मे ज्योतिः॑ सोमविक्र॒यिणि॒
PS1.8 तमो॑ मि॒त्रो न॒ एहि॒
PS1.9 सुमि॑त्रधा॒ इन्द्र॑स्यो॒रु ( )
PS1.10 मा वि॑श॒ दक्षि॑ण-मु॒शन्नु॒शन्तꣳ॑ स्यो॒नः
PS1.11 स्यो॒नꣳ स्वान॒ भ्राजाङ्घा॑रे॒ बंभा॑रे॒
PS1.12 हस्त॒ सुह॑स्त॒ कृशा॑नवे॒ते वः॑
PS1.13 सोम॒ क्रय॑णा॒स्तान् र॑क्षद्ध्वं॒ मा
PS1.14 वो॑ दभन्

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 1.2.7.1 TS 1.2.7.1
सोमं॑ ते क्रीणा॒म्यूर्ज॑स्वन्तं॒ पय॑स्वन्तं ॅवी॒र्या॑वन्तमभि-माति॒षाहꣳ॑ शु॒क्रं ते॑ शु॒क्रेण॑ क्रीणामि च॒न्द्रं च॒न्द्रेणा॒मृत॑म॒मृते॑न स॒म्यत्ते॒ गोर॒स्मे च॒न्द्राणि॒ तप॑सस्त॒नूर॑सि प्र॒जाप॑ते॒र् वर्ण॒स्तस्या᳚स्ते सहस्रपो॒षं पुष्य॑न्त्याश्चर॒मेण॑ प॒शुना᳚ क्रीणाम्य॒स्मे ते॒ बन्धु॒र्मयि॑ ते॒ रायः॑ श्रयन्ताम॒स्मे ज्योतिः॑ सोमविक्र॒यिणि॒ तमो॑ मि॒त्रो न॒ एहि॒ सुमि॑त्रधा॒ इन्द्र॑स्यो॒रु ( ) मा वि॑श॒ दक्षि॑ण-मु॒शन्नु॒शन्तꣳ॑ स्यो॒नः स्यो॒नꣳ स्वान॒ भ्राजाङ्घा॑रे॒ बंभा॑रे॒ हस्त॒ सुह॑स्त॒ कृशा॑नवे॒ते वः॑ सोम॒ क्रय॑णा॒स्तान् र॑क्षद्ध्वं॒ मा वो॑ दभन् ॥
पदपाठः (Word-by-word)
सोम᳚म् । ते॒ । क्री॒णा॒मि॒ । ऊर्ज॑स्वन्तम् । पय॑स्वन्तम् । वी॒र्या॑वन्त॒मिति॑ वी॒र्य॑ - व॒न्त॒म् । अ॒भि॒मा॒ति॒षाह॒मित्य॑भिमाति - साह᳚म् । शु॒क्रम् । ते॒ । शु॒क्रेण॑ । क्री॒णा॒मि॒ । च॒न्द्रम् । च॒न्द्रेण॑ । अ॒मृत᳚म् । अ॒मृते॑न । स॒म्यत् । ते॒ । गोः । अ॒स्मे इति॑ । च॒न्द्राणि॑ । तप॑सः । त॒नूः । अ॒सि॒ । प्र॒जाप॑ते॒रिति॑ प्र॒जा - प॒तेः॒ । वर्णः॑ । तस्याः᳚ । ते॒ । स॒ह॒स्र॒पो॒षमिति॑ सहस्र -पो॒षम् । पुष्य॑न्त्याः । च॒र॒मेण॑ । प॒शुना᳚ । क्री॒णा॒मि॒ । अ॒स्मे इति॑ । ते॒ । बन्धुः॑ । मयि॑ । ते॒ । रायः॑ । श्र॒य॒न्ता॒म् । अ॒स्मे इति॑ । ज्योतिः॑ । सो॒म॒वि॒क्र॒यिणीति॑ सोम - वि॒क्र॒यिणि॑ । तमः॑ । मि॒त्रः । नः॒ । एति॑ । इ॒हि॒ । सुमि॑त्रधा॒ इति॒ सुमि॑त्र - धाः॒ । इन्द्र॑स्य । ऊ॒रुम् ( ) । एति॑ । वि॒श॒ । दक्षि॑णम् । उ॒शन्न् । उ॒शन्त᳚म् । स्यो॒नः । स्यो॒नम् । स्वान॑ । भ्राज॑ । अङ्घा॑रे । बंभा॑रे । हस्त॑ । सुह॒स्तेति॒ सु - ह॒स्त॒ । कृशा॑न॒विति॒ कृश॑ - अ॒नो॒ । ए॒ते । वः॒ । सो॒म॒क्रय॑णा॒ इति॑ सोम - क्रय॑णाः । तान् । र॒क्ष॒द्ध्व॒म् । मा । वः॒ । द॒भ॒न्न् ॥
पदसंख्या: 72
सायणभाष्यम् (Sayana Commentary)

(अथ प्रथमकाण्डे द्वितीयप्रपाठके सप्तमोऽनुवाकः )।

षष्ठेऽनुवाके क्रयाय सोमस्योन्मानमुक्तम्। सप्तमे लब्धावसरः क्रयोऽभिधीयते। सोममिति। बौधायनः — ‘अथैनं स हिरण्येन पणते सोमं ते क्रीणाम्यूर्जस्वन्तं पयस्वन्तं वीर्यावन्तमभिमातिषाह शुक्रं ते शुक्रेण क्रीणामि चन्द्रं चन्द्रेणामृतममृतेन सम्यत्ते गोरिति’ इति।

आपस्तम्बो मन्त्रभेदमाह — ‘सोमविक्रयिणे राजानं प्रदाय पणते सोमविक्रयिन्क्रय्यस्ते सोमा३ इति क्रय्य इतीतरः प्रत्याह सोमं ते क्रीणाम्यूर्जस्वन्तमित्युक्त्वा कलया ते क्रीणानीत्येवमाह भूयो वा अतः सोमो राजाऽर्हतीति सर्वेषु पणनेषु सोमविक्रयी प्रत्याहा संपदो गवा ते क्रीणानीत्यन्ततः शुक्रं ते शुक्रेण क्रीणामीति जपित्वा हिरण्येन क्रीणाति’ इति।

हे सोमविक्रयिन्नहं त्वदीयं सोमं क्रीणामि। कीदृशम्। ऊर्जस्वन्तं शारीरबलप्रदं, पयस्वन्तं प्रभूतरसोपेतं, वीर्यावन्तमिन्द्रियपाटवहेतुम्। अमिमातिषाहं पापरूपस्य वैरिणो हन्तारम्। शुक्रचन्द्रामृतशब्दैरभिधेयास्तेजःसुखाविनाशास्त्वदीयसोमेऽस्म-दीयहिरण्ये च समाः। अतो हिरण्येन सोमं क्रीणामि। न केवलं हिरण्यं तुभ्यं दीयते किंतु समीचीनं गोरेकहायनीस्वरूपमपि पूर्वं दत्तं तस्मात्तव हिरण्यलाभोऽधिकः।

अस्मे इति। कल्पः — “अस्मे चन्द्राणीति सोमविक्रयिणो हिरण्यमपादत्ते” इति।

अस्मास्वेव हिरण्यानि चन्द्राणि तिष्ठन्तु। बहुवचनं व्यत्ययेन द्रष्टव्यम्।

तपस इति। बौधायनः — ‘अथैनं प्राचीनग्रीवयाऽजया पणते तपसस्तनूरसि प्रजापतेर्वर्णस्तस्यास्ते सहस्रपोषं पुष्यन्त्याश्चरमेण पशुना क्रीणामीति अस्मे ते बन्धुरिति यजमानमीक्षते मयि ते रायः श्रयन्तामित्यात्मानम्’ इति।

अपस्तम्बस्त्वेकमन्त्रतामाह – ‘तपसस्तनूरसीति जपित्वाऽजया क्रीणामि’ इति। हेऽजे त्वं तपसः पुण्यस्य शरीरमसि। यज्ञनिष्पादकस्य सोमस्य द्युलोके त्वयैवावरुद्धत्वात्। वर्ण्यत इति वर्णो देहः प्रजापतेर्वर्णोऽसि। प्रजापतिवत्सर्वदेवात्मकत्वात्। तच्चौपानुवाक्यकाण्ड आम्नातम् — ‘सा वा एषा सर्वदेवत्या यदजा’ इति। किंच त्वमपत्यपरम्परया सहस्रसंख्यातं पुष्यसि। तादृश्यास्तव संबन्धिना चरमेण सहस्रतमेन पशुना सोमं क्रीणामि न तु त्वया। अहं तव बन्धुस्त्वत्संपादितस्य सोमस्य कर्मणि प्रवृत्तत्वान्मयि त्वदीयान्यपत्यरूपाणि धनान्यवतिष्ठन्ताम्।

मन्त्रान्व्याचिख्यासुरादावनभिमतं निराकृत्य स्वाभिमतं पणनमन्त्रमुत्पाद्य विनियुङ्क्ते —

‘यत्कलया ते शफेन ते क्रीणानीति पणेतागोअर्घ सोमं कुर्यादगोअर्घं यजमानमगो अर्घमध्वर्युं गोस्तु महिमानं नाव तिरेद्गवा ते क्रीणानीत्येव ब्रूया-

द्गोअर्घमेव सोमं करोति गोअर्घं यजमानं गोअर्घमध्वर्युं न गोर्महिमानमव तिरति” [सं. का. ६ प्र. १ अ.१०] इति।

कलाऽल्पादप्यल्पो यः गोऽप्यवयवलेशः। कलया शफेन वा पणने दोषत्रयं स्यात्। सोमो गोरूपं मूल्यं नार्हति। यजमानस्तद्दातुं न शक्नोति। अध्वर्युश्च न दापयतीत्येवं सोमयजमानाध्वर्यवो गोअर्घरहिता इति दोषत्रयम्। किंच सोमो गोमूल्य इत्युक्ते गोर्महिमाऽधिको भवेत्। तं नावजानीयात्। परमते त्वसाववज्ञातो भवेत्। गवा ते क्रीणानीत्यनेन मन्त्रेण सर्वं समाहितं भवति।

यथेयं सोमक्रयणी गौस्तथैवाजादीनि नव द्रव्याणि क्रयसाधनाति क्रमेण विधत्ते —

“अजया क्रीणाति सतपसमेवैनं क्रीणाति हिरण्येन क्रीणाति सशुक्रमेवैनं क्रीणाति धेन्वा क्रीणाति वह्निर्वा अनड्वान्वह्निनैव वह्निं यज्ञस्य क्रीणाति मिथुनाभ्यां क्रीणाति मिथुनस्यावरुद्ध्यै वाससा क्रीणाति सर्वदेवत्यं वै वासः सर्वाभ्य एवैनं देवताभ्यः क्रीणाति दश संपद्यन्ते दक्षाक्षरा विराडन्नं विराड्विराजैवान्नद्यमव रुन्धे” (सं. का. ६ प्र. १ अ.१०) इति।

तपसस्तनूरसीत्युक्तत्वादजया क्रीतस्य सोमस्य सतपस्त्वम्। एवमुत्तरत्रापि योज्यम्। साशिरं दध्यादिगोरसोपेतं, सेन्द्रमिन्द्रियवर्धकं, वह्निर्वाहकः, यज्ञस्य वह्निं यज्ञनिर्वाहकं सोमम्। मिथुनाभ्यां वत्सतरो वत्सतरी चेत्येताभ्यां मिथुनावयवाभ्यां धेनोः सवत्साया विवक्षितत्वाद्दशद्रव्यसंपत्तिः।

मन्त्रत्रयं स्पष्टार्थत्वबुद्ध्योपेक्ष्य चतुर्थमन्त्रस्याभिप्रायमाह —

“तपसस्तनूरसि प्रजापतेर्वर्ण इत्याह पशुभ्य एव तदध्वर्युर्निह्नुत आत्मनोऽनाव्रस्काय” (सं. का. ६ प्र. १ अ.१०) इति।

तत्तेन मन्त्रपाठेन पशुभ्योऽजाप्रभृतीन्निह्नुतेऽपलपति। न ह्यजा परमार्थतस्तपसस्तनूर्भवति, नापि प्रजापतेर्वर्णर्णो रूपम्। तेनापलापेनाजोपचरिता भवति। स चोपचारः स्वस्यापराधराहित्याय क्रियते।

पशूपचारवेदनं प्रशंसति –

‘गच्छति श्रियं प्र पशूनाप्नोति य एवं वेद” (सं. का. ६ प्र. १ अ.१०) इति।

दत्तस्य हिरण्यस्य पुनरादानं विधित्सुर्हिरण्यप्रकाशकं द्वितीयमन्त्रं स्पष्टार्थमपि पुनरनुसंधत्ते —

“शुक्रं ते शुक्रेण क्रीणामीत्याह यथायदुरेवैतत्” (सं. का. ६ प्र. १ अ. ५) इति।

पुनरादानं विधत्ते —

“देवा वै येन हिरण्येन सोममक्रीणन्तदभीषहा पुनराऽददत को हि तेजसा विक्रेष्यत इति येन हिरण्येन सोमं क्रीणीयत्तदभीषहा पुनरा ददीत तेज एवाऽऽत्मन्धत्ते” (सं. का. ६ प्र. १ अ. ११) इति।

अभीषहा बलात्कारेण। को हीत्यादिर्तेवाभिप्रायः।

अस्मे इति। कल्पः – “अस्मे ज्योतिरिति शुक्लामूर्णास्तुकां यजमानाय प्रयच्छति तां काले दशापवित्रस्य नाभिं कुरुते” इति।

अविलोमभिर्निर्मिततन्तुरूर्णास्तुका। स च शुक्ला ज्योतिःस्वरूपा। तज्ज्योतिरस्मास्ववतिष्ठताम्।

सोमविक्रेति। कल्पः — “कृष्णामूर्णास्तुकामद्भिः क्लेदयित्वेदमह सर्पाणां दन्दशूकानां ग्रीवा उपग्रथ्नामीत्युपग्रथ्य सोमविक्रयिणं विध्यति सोमविक्रयिणि तम इति” इति।

मन्त्रद्वयं व्याचष्टे –

अस्मे ज्योतिः सोमविक्रयिणि तम इत्याह ज्योतिरेव यजमाने दधाति तमसा सोमविक्रयिणमर्पयति” (सं. का. ६ प्र. १ अ. १०) इति।

विपक्षे बाधपुरःसरं ग्रथनमन्त्रमुत्पादयति —

“यदनुपग्रथ्य हन्याद्दन्दशूकास्ता सर्पा स्युरिदपह सर्पाणां दन्दशूकानां ग्रीवा उप ग्रथ्नामीत्याहादन्दशूकास्ता समा सर्पा भवन्ति तमसा सोमविक्रयिणं विध्यति” (सं. का. ६ प्र. १ अ. ५) इति।

कृष्णया विध्येत्। तां समां तं संवत्सरं कृत्स्नम्। इदमहमित्यादिमन्त्रेण सर्पदंशस्य परिहारः। मित्र इति। कल्पः — “कौत्साद्राजानमादत्ते मित्रो न एहि सुमित्रधा इति तं यजमानस्योरौ दक्षिणत आसादयति। इन्द्रस्योरुमाविश दक्षिणमुशन्नुशन्त स्योनः स्योनमिति” इति।

शोभनं मित्रं सोमरूपं यस्य यजमानस्य स यजमानः सुमित्रस्तं दधाति पोषयतीति सुमित्रधाः। हे सोम सुमित्रधास्त्वमस्माकं मित्रः प्रियो भूत्वा समागच्छ। हे सोम, इन्द्रस्य यजमानस्य दक्षिणमूरुमाविश। कीदृशम्, उशन्तं कामयमानं स्योनं सुखकरम्। त्वमपि तादृशः।

स्वानेति। कल्पः — “अथ सोमक्रयणाननुदिशति स्वान भ्राजाङ्घारे बम्भारे हस्त सुहस्त कृशानवेते वः सोमक्रयणास्तान्रक्षध्वं मा वो दभन्निति” इति।

स्वानादयः सोमरक्षकाः। सोमः क्रीयते यैर्गवादिभिस्ते सोमक्रयणाः हे स्वानादयस्तान्सोमक्रयणान्पालयत। केऽपि वैरिणो युष्मान्मा हिंसिषत। अत्र मूल्यभूतान्सोमक्रयणाननुदिश्य पश्चात्सोमस्वीकारो युक्तः। अतोऽर्थक्रमेण मित्रो नः, इन्द्रस्योरुमिति मन्त्रद्वयमुषरिष्टाद्व्याख्यास्यते।

इमं मन्त्रं व्याचष्टे —

“स्वान भ्राजेत्याहैते वा अमुष्मिँल्लोके सोममरक्षन्तेभ्योऽधि सोममाऽहरन्” (सं. का. ६ प्र. १ अ. १०) इति।

अधि अधिकं प्रभूतम्।

विपक्षस्वपक्षयोर्दोषतत्समव[मा]धाने दर्शयति —

“यदेतेभ्यः सोमक्रयणान्नानुदिशेदक्रीतोऽस्य सोमः स्यान्नास्यैतेऽमुष्मिँल्लोके सोम रक्षेयुर्यदेतेभ्यः सोमक्रयणाननुदिशति क्रीतोऽस्य सोमो भवत्येतेऽस्यामुष्मिँल्लोके सोम रक्षन्ति” (सं. का. ६ प्र. १ अ. १०) इति।

सोमं सोमयागफलम्।

अथ सोमस्वीकारस्य प्राप्तावसरत्वान्मन्त्रं व्याचष्टे —

“वारुणो वै क्रीतः सोम उपनद्धो मित्रो न एहि सुमित्रधा इत्याह शान्त्यै” (सं. का. ६ प्र. १ अ. ११) इति।

बन्धनस्य वरुणपाशरूपत्वात्तद्युक्तः सोमो वारुणः अतो वरुणावक्त्रूरत्वप्राप्तौ तच्छान्तये मित्रत्वं प्रतिपादयति।

ऊरुस्थानं पूर्वाचारप्राप्तमित्याह —

“इन्द्रस्योरुमा विश दक्षिणमित्याह देवा वै य सोममक्रीणन्तमिन्द्रस्योरौ दक्षिण आऽसादयन्नेष खलु वा एतर्हीन्द्रो यो यजते तस्मादेवमाह” (सं. का. ६ प्र. १ अ. ११) इति।

अत्र विनियोगसंग्रहः —

“सोमं जपेत्क्रयात्पूर्वं शक्रं स्वर्णेन तत्क्रये।

अस्मे स्वर्णमपादत्ते तप जप्यं क्रयेऽजया॥१॥

अस्मे ज्यो स्वामिने दद्याच्छुक्लामूर्णास्तुकामथ।

सोम विध्येत्कृष्णयोर्णास्तुकया क्रयकारिणम्॥२॥

मित्रः सोममुपादायेन्द्रस्योरावुपवेशयेत्।

स्वान मूल्याननुदिशेदिमे मन्त्रा नवोदिताः॥३॥” इति।

अथ मीमांसा।

द्वादशाध्यायस्य चतुर्थपादे चिन्ततम् –

“क्रयणेषु विकल्पः स्यात्साहित्यं वाऽग्रिमो यतः।

कार्यैक्यमानतेर्लाभाद्दशोक्तेश्च समुच्चयः” इति।

अजया क्रीणाति हिरण्येन क्रीणाति वाससा क्रीणातीत्यादीनि बहूनि सोमक्रयसाधानद्रव्याण्याम्नातानि। तेषां कार्यैक्याद्विकल्प इति चेन्मैवम्। बहुभिर्द्रव्यैर्विक्रेतुरानतेः सौलभ्यात्, दशभिः क्रीणातीति संख्योक्तेश्च समु़च्चयः।

अत्र सर्वाणि यजूंषि॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये प्रथमकाण्डे द्वितीयप्रपाठके सप्तमोऽनुवाकः ॥७॥
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 हिरण्येन पणते - सोमं त इति ॥ हे सोमविक्रयिन् ते तव सकाशात्सोमं क्रीणामि । ऊर्जस्वन्तं रसवन्तं बलवन्तं वा । ऊर्जयतेरसुन्प्रत्ययः । पयस्वन्तं क्षीरवन्तं, उदकवन्तं वा तद्धेतुत्वात् । वीर्यावन्तं वीरकर्मवन्तम् । 'अन्येषामपि दृश्यते' इति दीर्घः । अभिमातिषाहं, अभिमातिः पाप्मा तस्याभिभवितारं नाशयितारम् । 'छन्दसि सहः' इति ण्विः, 'सहेस्साढस्सः' इति षत्वम् । शुक्रं शुद्धं सोमम् । ते इति पुनर्वचनमादरार्थम् । शुक्रेण हिरण्येन क्रीणामि । आख्यातावृत्तिरप्यादरार्थैव । यद्वा - क्रीत्यन्तरारम्भादुभयं पुनरुपादीयते मूल्यमपि हिरण्यप्रभृति निर्दिश्यते । चन्द्रमाह्लादकरं सोमं चन्द्रेण तादृशेन हिरण्येन । अमृतं देवानां यजमानस्य वा अमरणहेतुं सोमं अमृतेन तथाविधेन हिरण्येन । मृतं मरणं यस्य सकाशे नास्तीत्यमृतम् । 'नञो जरमरमित्रमृताः' इत्युत्तरपदाद्युदात्तत्वम् । स्तुत्यर्थमनेकविशेषणोपादानम् । किञ्च - हे सोमविक्रयिन् ते तव गोर्वाचः, सम्यत्संयतं सङ्गतं यथा तथा क्रीणामीति क्रियाविशेषणम् । संपूर्वाद्यमेः क्विप्, छान्दसे अनुनासिकलोपे तुक्, समो मकारस्य चानुस्वाराभावश्छान्दसः । यद्वा - तव गोस्सम्यत् तव वाचं सङ्गच्छते यथा तथा क्रीणामि । एतेर्लटश्शत्रादेशः । गोः कर्मणि षष्ठी, 'न लोकाव्यय' इति प्रतिषेधः व्यत्ययेन न प्रवर्तते । तव वाचा सङ्गच्छमानं क्रीणामीत्यर्थः । अथवा - सम्यगित्यस्यान्त्यविकारश्छान्दसः, तव वाचस्समीचीनमिति यावत् । 'समस्समिः' इति समिरादेशः । षमष्टम अवैकल्ये, व्यत्ययेन श्यन्, 'छन्दस्युभयथा' इति शतुरार्धधातुकत्वाददुपदेशाल्लसार्वधातुकानुदात्तत्वाभावः । तव वाचोऽविकलं क्रीणामीति ॥
2 यजमानाय प्रयच्छति हिरण्यं - अस्मे इति ॥ अस्माकमेव चन्द्राणि हिरण्यानि, न सोमविक्रयिणः; चन्द्रेण क्रीणामीति तु छलमात्रमुक्तमिति । 'सुपां सुलुक्' इति षष्ठीबहुवचनस्य शे इत्यादेशः । अस्मानेव हिरण्यं पुनः प्राप्नोत्वित्यर्थः । 'देवा वे येन हिरण्येन' इत्यादि ब्राह्मणम् ॥
3 अजया क्रीणाति - तपस इति ॥ अजा जातिरुच्यते । तपसो यज्ञस्य तनूः शरीरं त्वमसि यागसाधनानां प्रधानभूतासीत्यर्थः । ऊप्रत्ययान्तस्तनूशब्दः । किञ्च - प्रजापतेर्वर्णः स्वरूपं त्वमसि । प्रजापतेस्सर्वदेवतात्मकत्वात् सर्वेषां देवानां रूपं त्वमसीत्युक्तं भवति । अस्याश्च सर्वदेवत्यत्वात् सर्वदेवस्वरूपता । यथोक्तं 'सा वा एषा सर्वदेवत्या यदजा' इति । 'पत्यावैश्वर्ये' इति पूर्वपदप्रकृतिस्वरत्वम् । तस्यास्तादृश्यास्ते तव सहस्रपोषं सहस्रस्य पुष्टिं, बह्वीं वा पुष्टिं, पुष्यन्त्याः पुष्कलमुत्पादयन्त्याः कुर्वन्त्या वा सम्बन्धी यश्चरमः पशुर्व्यक्तिरूपेण पश्चाज्जातः तेन सोमं क्रीणामि । तव कलामात्रेण क्रीणामीति महिमातिशयप्रतिपादनार्थं चरमग्रहणम् । यथा - 'पशुभ्य एव तदध्वर्युर्निह्नुते' त्यादि ब्राह्मणम् ।
4 यजमानमीक्षते - अस्मे त इति ॥ प्रथमाबहुवचनस्य शे इत्यादेशः । हे यजमान वय तव बन्धवः । बध्यतेस्मिन्कर्मणि बन्धुरध्वर्युरुच्यते । तेनैव सूत्रेण जसस्स्वादेशः । यद्वा - अस्म इति व्यत्ययेन बहुवचनम्; अहं तव बन्धुरित्यर्थः ॥
5 आत्मानमीक्षते - मयीति ॥ मयि तव रायः अपत्यलक्षणानि धनानि श्रयन्ताम् वर्तन्ताम् ममैव याज्या भवन्त्विति यावत् । त इति वचनार्त्पूवशेषत्वं युक्तमिव लक्ष्यते ॥
6 यजमानं शुक्लोर्णुकया क्षिपति - अस्मे ज्योतिरिति ॥ अस्माकमेव प्रकाशः । पूर्ववदामश्शे इत्यादेशः ॥
7 कृष्णोर्णया सोमविक्रयिणं विध्यति ॥ सोमविक्रयिणि तमोस्तु । 'कर्मणीनिर्विक्रियः' इतीनिप्रत्ययः ॥
8 सोमविक्रयिणस्सोममादत्ते - मित्र इति ॥ हे सोम सुमित्रधाः शोभनानां मित्राणां यजमानानां धारयिता त्वं अस्मान् मित्रोभूत्वा एहि आगच्छ । व्यत्ययेन कृदुत्तरपदप्रकृतिस्वरत्वं बाधित्वा अव्ययपूर्वपदप्रकृतिस्वरत्वम् । यद्वा - मित्राणां सुधारयिता सुमित्रधाः । सुमित्रधा इति प्रादिसमासे गतित्वाभावादव्ययादिस्वरत्वम् । 'आतो मनिन्' इति विच् । 'वारुणो वै क्रीतस्सोम उपनद्धः' इति ब्राह्मणम् ॥
9 यजमानस्य दक्षिण ऊरावासादयति - इन्द्रस्येति ॥ इन्द्रस्येश्वरस्य यजमानस्य ऊरुं दक्षिणमुशन्तं त्वामेव कामयमानं त्वमेव कामयमानस्त्वं स्योनः सुखस्त्वं स्योनं तादृशं तमाविश । स्यमु स्वन ध्वन शब्दे, 'शमेश्च' इति नप्रत्ययः । 'ग्रहिज्या' इत्यादिना वष्टेस्सम्प्रसारणम् । 'देवा वै यꣳ सोमं' इत्यादि ब्राह्मणम् ॥
10 स्वानादिभ्यः सोमक्रयणान्परिददाति - स्वानेत्यादिना ॥ स्वानादयः सोमस्य रक्षितारः देवाः । स्वानः शब्दयिता । स्वनेर्ण्यन्तात्पचाद्यच् । भ्राजत इति भ्राजः दीप्तिमान् । स एवाच् । अंहसामरिः अङ्घारिः । 'अङ्घभावश्छान्दसः' । यद्वा - अधिगत्याक्षेपे, अङ्घमाना अरयो यस्येत्यङ्घारिः पलायमानशत्रुः । बंभारिः बंभ्रम्यमाणारिः । तस्मिन्नेवाचि पृषोदरादित्वाद्रूपसिद्धिः । हस्तः हसनशीलः अनादृतशत्रुवीर्यः । सहेर्वा आद्यन्तविपर्ययः, अभिभविता शत्रूणाम् । सुहस्तः कल्याणपाणिः, शोभनहस्तकृत्यो वा । कृशानुः नाशयिता शत्रूणाम् । कृश तनूकरणे, तस्मादानुक्प्रत्ययः । यद्वा - कृशाननयति जीवयतीति अन्तर्भावितण्यर्थात् अनितेरुण्प्रत्ययः । यद्वा - कृशाः स्वल्पवीर्याः अनवः प्राणिनो यस्मिन् तादृशः । सर्वत्र चात्र षाष्ठिकमामन्त्रिताद्युदात्तत्वम्, 'आमन्त्रितं पूर्वमविद्यमानवत्' इति पूर्वपूर्वाविद्यमानता । हे स्वानादयः एते सोमक्रयणाः सोमः क्रीयते यैस्ते गवादयः वः युष्मभ्यं समर्पिताः रक्षार्थम् । अतस्तान् यूयं रक्षध्वम् । युष्माभिरेते रक्षणीयाः, ये यूयं सोमं रक्षध्वम् । व्यत्ययेनात्मनेपदम् । मा वो युष्मान् सोमक्रयणान् रक्षतः केचिदपि दभन्न् हिंसिषुः । दम्भेश्छान्दसः च्लेरङादेशः । 'एते वामुष्मिन् लोके साममरक्षन्' इत्यादि ब्राह्मणम् ॥

इति द्वितीये प्रपाठके सप्तमोनुमाकः