अनुवाकः 14 TS 1.2.14

(A14)

(अ॒घशꣳ॑सः॒-स ते॑-जरताꣳ-रुजामि-ह॒ -दिवै - क॑चत्वारिꣳशच्च)

अनुवाकः 14 - Complete Audio

TS 1.2.14 - स्वरानुगामी

0:00 0:00
PS1.1 कृ॒णु॒ष्व पाजः॒ प्रसि॑ति॒न्न पृ॒थ्वीं
PS1.2 ॅया॒हि राजे॒वाम॑वाꣳ॒॒ इभे॑न
PS1.3 तृ॒ष्वीमनु॒ प्रसि॑तिं-द्रूणा॒नो-ऽस्ता॑ऽसि॒ विद्ध्य॑ र॒क्षस॒ स्तपि॑ष्ठैः
PS1.4 तव॑ भ्र॒मास॑ आशु॒या प॑न्त॒त्यनु॑
PS1.5 स्पृश-धृष॒ता शोशु॑चानः
PS1.6 तपूꣳ॑ष्यग्ने जु॒ह्वा॑ पत॒ङ्गानस॑न्दितो॒ विसृ॑ज॒ विष्व॑गु॒ल्काः
PS1.7 प्रति॒स्पशो॒ विसृ॑ज॒-तूर्णि॑तमो॒ भवा॑ पा॒युर्वि॒शो
PS1.8 अ॒स्या अद॑ब्धः
PS1.9 यो नो॑ दू॒रे अ॒घशꣳ॑सो॒
PS1.10 - [ ]
PS2.1 यो अन्त्यग्ने॒ माकि॑ष्टे॒ व्यथि॒रा द॑धर्.षीत्
PS2.2 उद॑ग्ने तिष्ठ॒ प्रत्या *ऽऽत॑नुष्व॒
PS2.3 न्य॑मित्राꣳ॑ ओषतात् तिग्महेते
PS2.4 यो नो॒ अरा॑तिꣳ समिधान
PS2.5 च॒क्रे नी॒चा तं ध॑क्ष्यत॒सं
PS2.6 न शुष्कं᳚
PS2.7 ऊ॒र्द्ध्वो भ॑व॒ प्रति॑वि॒द्ध्या-ऽद्ध्य॒स्मदा॒विष्कृ॑णुष्व॒ दैव्या᳚न्यग्ने
PS2.8 अव॑स्थि॒रा त॑नुहि यातु॒जूनां᳚ जा॒मिमजा॑मिं॒
PS2.9 प्रमृ॑णीहि॒ शत्रून्॑
PS2.10 स ते॑ - [ ]
PS3.1 जानाति सुम॒तिं ॅय॑विष्ठ॒य ईव॑ते॒
PS3.2 ब्रह्म॑णे गा॒तुमैर॑त्
PS3.3 विश्वा᳚न्यस्मै सु॒दिना॑नि रा॒यो द्यु॒म्नान्य॒र्यो
PS3.4 विदुरो॑ अ॒भि द्यौ᳚त्
PS3.5 सेद॑ग्ने अस्तु सु॒भगः॑ सु॒दानु॒-र्यस्त्वा॒
PS3.6 नित्ये॑न ह॒विषा॒य उ॒क्थैः
PS3.7 पिप्री॑षति॒ स्व आयु॑षि दुरो॒णे
PS3.8 विश्वेद॑स्मै सु॒दिना॒ साऽस॑दि॒ष्टिः
PS3.9 अर्चा॑मि ते सुम॒तिं घोष्य॒र्वाख्-सन्ते॑
PS3.10 वा॒ वा ता॑ जरता
PS3.11 - [ ]
PS4.1 मि॒यंगीः
PS4.2 स्वश्वा᳚स्त्वा सु॒रथा॑ मर्जयेमा॒स्मे क्ष॒त्राणि॑
PS4.3 धारये॒रनु॒ द्यून्
PS4.4 इ॒ह त्वा॒ भूर्या च॑रे॒
PS4.5 दुप॒त्मन् दोषा॑वस्तर् दीदि॒वाꣳस॒मनु॒ द्यून्
PS4.6 क्रीड॑न्तस्त्वा सु॒मन॑सः सपेमा॒भि द्यु॒म्ना
PS4.7 त॑स्थि॒वाꣳसो॒ जना॑नां
PS4.8 यस्त्वा॒-स्वश्वः॑ सुहिर॒ण्यो अ॑ग्न उप॒याति॒
PS4.9 वसु॑मता॒ रथे॑न
PS4.10 तस्य॑ त्रा॒ता-भ॑वसि॒ तस्य॒ सखा॒
PS4.11 यस्त॑ आति॒थ्यमा॑नु॒षग् जुजो॑षत्
PS4.12 म॒हो रु॑जामि - [ ]
PS5.1 ब॒न्धुता॒ वचो॑भि॒स्तन्मा॑ पि॒तुर्गोत॑मा॒द-न्वि॑याय
PS5.2 त्वन्नो॑ अ॒स्य वच॑स-श्चिकिद्धि॒ होत॑र्यविष्ठ
PS5.3 सुक्रतो॒ दमू॑नाः
PS5.4 अस्व॑प्नज स्त॒रण॑यः सु॒शेवा॒ अत॑न्द्रासोऽवृ॒का अश्र॑मिष्ठाः
PS5.5 ते पा॒यवः॑ स॒द्ध्रिय॑ञ्चो नि॒षद्याऽग्ने॒
PS5.6 तव॑नः पान्त्वमूर
PS5.7 ये पा॒यवो॑ मामते॒यं ते॑
PS5.8 अग्ने॒ पश्य॑न्तो अ॒न्धं दु॑रि॒तादर॑क्षन्
PS5.9 र॒रक्ष॒तान्थ् सु॒कृतो॑ वि॒श्ववे॑दा॒ दिफ्स॑न्त॒
PS5.10 इद्रि॒पवो॒ ना ह॑ -
PS5.11 [ ]
PS6.1 देभुः
PS6.2 त्वया॑ व॒यꣳ स॑ध॒न्य॑-स्त्वोता॒-स्तव॒ प्रणी᳚त्यश्याम॒ वाजान्॑
PS6.3 उ॒भा शꣳसा॑ सूदय सत्यताते-ऽनुष्ठु॒या कृ॑णुह्यह्रयाण
PS6.4 अ॒या ते॑ अग्ने स॒मिधा॑
PS6.5 विधेम॒ प्रति॒स्तोमꣳ॑ श॒स्यमा॑नं गृभाय
PS6.6 दहा॒शसो॑ र॒क्षसः॑ पा॒ह्य॑स्मान् द्रु॒हो
PS6.7 नि॒दो मि॑त्रमहो अव॒द्यात्
PS6.8 र॒क्षो॒हणं॑ ॅवा॒जिन॒माजि॑घर्मि मि॒त्रं प्रथि॑ष्ठ॒-मुप॑यामि॒ शर्म॑
PS6.9 शिशा॑नो अ॒ग्निः क्रतु॑भिः॒ समि॑द्धः॒सनो॒
PS6.10 दिवा॒ - [ ]
PS7.1 सरि॒षः पा॑तु॒नक्तं᳚
PS7.2 विज्योति॑षा बृह॒ता भा᳚त्य॒ग्नि-रा॒विर् विश्वा॑नि
PS7.3 कृणुते महि॒त्वा
PS7.4 प्रादे॑वीर् मा॒याः स॑हते-दु॒रेवाः॒ शिशी॑ते॒
PS7.5 शृङ्गे॒ रक्ष॑से वि॒निक्षे᳚
PS7.6 उ॒त स्वा॒नासो॑ दि॒विष॑न्त्व॒ग्ने स्ति॒ग्मायु॑धा॒
PS7.7 रक्ष॑से॒ हन्त॒वा उ॑
PS7.8 मदे॑ चिदस्य॒ प्ररु॑जन्ति॒ भामा॒
PS7.9 न व॑रन्ते परि॒बाधो॒ अदे॑वीः

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 1.2.14.1 TS 1.2.14.1
कृ॒णु॒ष्व पाजः॒ प्रसि॑ति॒न्न पृ॒थ्वीं ॅया॒हि राजे॒वाम॑वाꣳ॒॒ इभे॑न । तृ॒ष्वीमनु॒ प्रसि॑तिं-द्रूणा॒नो-ऽस्ता॑ऽसि॒ विद्ध्य॑ र॒क्षस॒ स्तपि॑ष्ठैः ॥ तव॑ भ्र॒मास॑ आशु॒या प॑न्त॒त्यनु॑ स्पृश-धृष॒ता शोशु॑चानः । तपूꣳ॑ष्यग्ने जु॒ह्वा॑ पत॒ङ्गानस॑न्दितो॒ विसृ॑ज॒ विष्व॑गु॒ल्काः ॥ प्रति॒स्पशो॒ विसृ॑ज॒-तूर्णि॑तमो॒ भवा॑ पा॒युर्वि॒शो अ॒स्या अद॑ब्धः । यो नो॑ दू॒रे अ॒घशꣳ॑सो॒ - [ ]
पदपाठः (Word-by-word)
कृ॒णु॒ष्व । पाजः॑ । प्रसि॑ति॒मिति॒ प्र - सि॒ति॒म् । न । पृ॒थ्वीम् । या॒हि । राजा᳚ । इ॒व॒ । अम॑वा॒नित्यम॑ - वा॒न् । इभे॑न ॥ तृ॒ष्वीम् । अन्विति॑ । प्रसि॑ति॒मिति॒ प्र - सि॒ति॒म् । द्रू॒णा॒नः । अस्ता᳚ । अ॒सि॒ । विद्ध्य॑ । र॒क्षसः॑ । तपि॑ष्ठैः ॥ तव॑ । भ्र॒मासः॑ । आ॒शु॒या । प॒त॒न्ति॒ । अन्विति॑ । स्पृ॒श॒ । धृ॒ष॒ता । शोशु॑चानः ॥ तपूꣳ॑षि । अ॒ग्ने॒ । जु॒ह्वा᳚ । प॒त॒ङ्गान् । अस॑न्दित॒ इत्यसं᳚ - दि॒तः॒ । वीति॑ । सृ॒ज॒ । विष्व॑क् । उ॒ल्काः ॥ प्रतीति॑ । स्पशः॑ । वीति॑ । सृ॒ज॒ । तूर्णि॑तम॒ इति॒ तूर्णि॑ - त॒मः॒ । भव॑ । पा॒युः । वि॒शः । अ॒स्याः । अद॑ब्दः ॥ यः । नः॒ । दू॒रे । अ॒घशꣳ॑स॒ इत्य॒घ - शꣳ॒॒सः॒ ।
पदसंख्या: 50
सायणभाष्यम् (Sayana Commentary)

(अथ प्रथमकाण्डे द्वितीयप्रपाठके चतुर्दशोऽनुवाकः)

त्रयोदशेऽनुवाके हविर्धानमण्डपनिर्माणमुक्तम्। यद्यपि नैतावता किंचित्प्रमेयं परिसमाप्तं तथाऽप्यध्यापकसंप्रदायपरम्परया प्रपाठक उत्तरानुवाके समाप्यत इत्यन्तिमानुवाकत्वाञ्चतुर्दशे काम्याः सामिधेन्यः पुरोनुवाक्या याज्यश्वोच्यन्ते। तत्रेष्टिकाण्डे व्रातपत्येष्टेरूर्ध्वं राक्षोघ्नेष्टिरेवमाम्नायते —

‘अग्नये रक्षोघ्ने पुरोडाशमष्टाकपालं निर्वपेद्य रक्षासि सचेरन्नग्निमेव रक्षोहण स्वेन भागाधेयेनोप धावति स एवास्माद्रक्षास्यप हन्ति” [सं. का. २ प्र. २ अ. २] इति।

सचेरन्समवेयुर्बाधेरन्नित्यर्थः।

मध्यरात्रिकालं विधत्ते —

‘निशितायां निर्वपेन्निशिताया हि रक्षासि प्रेरते संप्रेर्णान्येवैनानि हन्ति’ (सं. का. २ प्र. २ अ. २) इति।

प्रेरते प्रकर्षेण चरन्ति। अतस्तस्यां वेलायां निर्वापेण प्रचारवन्त्येवैनानि रक्षांसि हन्ति।

यागभूमेः परितो वेष्टनं विधत्ते —

‘परिश्रिते याजयेद्रक्षसामानन्ववचाराय’ (सं. का. ६ प्र. २ अ. २) इति।

अनुप्रवेशाभावायेत्यर्थः।

रक्षोहणं वाजिनं वि ज्योतिषेत्येतौ मन्त्रौ विधत्ते —

‘रक्षोघ्नी याज्यानुवाक्ये भवतो रक्षसा स्तृत्यै’ (सं. का. ६ प्र. २ अ. २) इति।

हिंसार्थमित्यर्थः।

अस्यामिष्टौ कृणुष्व पाज इत्यनुवाकः कृत्स्नो विनियुक्तः। तस्मिन्नृचोष्टादश। तासु पञ्चदश सामिधेन्यः। एका पुरोनुवाक्या, द्वे याज्ये विकल्पिते।

तत्रेयं प्रथमा —

कृणुष्वेति। कृणुष्व कुरुष्व। पाजो बलम्। प्रसितिं न मृगबन्धनेहतुभूतपाश्यामिव पृथ्वीं प्रसारिताम्। अमवानमात्ययुक्तः। इभेन हस्तिना तृष्वीं शीघ्रगामिनीं प्रसितिं प्रकृष्टसेनां द्रूणानो हिंसन्। अस्ता क्षेप्ता धावयिता। रक्षसो रक्षसान्। तपिष्ठैरतिसंतापकैर्बाणैः। हेऽग्ने मृगबन्धनाय प्रसारितां पाश्यामिव रक्षोनिरोधाय प्रौढं बलं कुरु। अमात्ययुक्तो गजेन सहितो राजेव रक्षसामुपरि याहि। क्षिप्रगामिनीं परकीयसेनामनु पृष्ठतो गत्वा मारयन्नवशिष्टाया धावयिता भव। पलायमानानपि राक्षसान्बाणैस्तीक्ष्णैर्विध्य॥१॥

अथ द्वितीया —

तव भ्रमास इति। भ्रमासो भ्रमणशालिनो विस्फुलिङ्गाः। असंदितोऽखण्डितः। [आशुया शीघ्रगामिनः(णः)। धृषता धार्ष्ट्येन। शोशुचानो भृशं दीप्यमानः। तपूंषि संतापान्। पतङ्गान्पतनशीलान्)। विसृज विशेषेणोत्पादय।

विष्वक्सर्वतः। उल्का महाज्वालाः। हेऽग्ने तव सबन्धिनो विस्फुलिङ्गाः शीघ्रगामिनः(णः) सर्वतः पतन्ति। त्वमपि भृशं दीप्यमानस्तैर्विस्फुलिङ्गैस्तानसुरान्धार्ष्ट्येनात्यन्तगाढमनु स्पृश। पुनरपि जुह्वा हुतेन हविषा त्वमविच्छिन्नः सन्संतापान्विस्फुलिङ्गान्महाज्वालाश्चासुरबाधनाय सर्वतो बाहुल्येनोत्पादय॥२॥

अथ तृतीया —

प्रति स्पश इति। स्पशः पाशान्। तूर्णितमोऽतित्वरितः। पायुः पालयिता। विशः प्रजायाः। अदब्धः केनाप्यहिंसितः। अघशंसो विचित्रवधकारी। अन्ति समीपे। माकिर्मा। व्यथिर्व्यथाकरी। आदधर्षीत्सर्वतो धृष्टो भवतु। हेऽग्ने चित्रवधकारी राक्षसो योऽस्माकं वैरी दूरे वर्तते, यश्चान्तिके वर्तते तं प्रति त्वमतित्वरितो बन्धनहेतून्पाशान्विविधान्सृज। केनाप्यहिंसितस्त्वमस्मदादिकाया अस्याः प्रजायाः पालको भव। कोऽपि व्यथयिता राक्षसस्ते समीपे सर्वत्र धृष्टो मा भवतु॥३॥

अथ चतुर्थी —

उदग्न इति। हेऽग्ने त्वमुत्तिष्ठ शत्रून्प्रति सर्वतः प्रवर्तस्व। हे तीक्ष्णायुध त्वमित्रान्नितरां दह। हे सामिध्यामान वह्ने योऽस्माकं शत्रुत्वं चक्रे तं नीचं कृत्वा शुष्कमतसमिव काष्ठमिव भस्मी कुरु॥४॥

अथ पञ्चमी —

ऊर्ध्व इति। हेऽग्ने त्वमूर्ध्वो भवोद्युक्तो भव। अस्मदधि अस्माकमुपरि ये शत्रवः संवृत्तास्तान्प्रति विध्य। हेऽग्ने दैव्यानि वीर्याण्याविष्कुरु। यातुजूनां यातुधानानां स्थिराणि वीर्याणि अवमतानि यथा भवन्ति तथा तनुहि कुरु। जामिः पुनः पुनस्ताडितः, अजामिरताडितस्तादृशान्सर्वान्प्रमृणीहि मारय॥ ५॥

अथ षष्ठी —

स त इति। हे यविष्ठ युवतम यो यजमान ईवते स्वगृहं प्रति गमनवते ब्रह्मणे परिवृढाय तुभ्यं गातुं हविर्लक्षणमन्नमैरत्प्रददाति स एव यजमानस्त्वदनुग्रहयुक्तां सुमतिं जानाति। त्वमपि अर्यः स्वामी भूत्वा रायो धनानि द्युम्नानि यशांसि धुरो गृहांश्चाभिलक्ष्यास्मै यजमानाय विश्वानि सुदिनानि यथा भवन्ति तथा द्यौत्प्रकाशयानुगृहाण॥६॥

अथ सप्तमी —

सेदग्न इति। हेऽग्ने यो यजमानः स्व आयुषि यावज्जीवं दुरोणे स्वगृहे नित्येन प्रतिदिनमनुष्ठेयेन हविषा त्वां पिप्रीषति प्रीणयितुमिच्छति यश्चोक्थैः शस्त्रैः पिप्रीषति स एव सुभगः सौभाग्यवान्सुदानुः शोभनदानवानप्यस्तु। अस्मै अस्य यजमानस्य सा सर्वाऽपीष्टिः सुदिनैवासद्भवति॥ ७॥

अथाष्टमी –

अर्चामीति। हेऽग्ने तव सुमितिमनुग्रहरूपामर्चामि मनसा पूजयामि। अर्वागर्वाचीनाऽपि घोषि घोषवतीयं स्तुतिरूपा मदीया गीर्वावाता पौनःपुन्येन प्रसृता ते त्वयि सम्यग्जरतां जीर्यतां त्वां विहायान्यत्र मा गच्छतु। वयं तु त्वत्प्रसादाच्छोभनैरश्वै रथैश्च युक्ताः सन्तस्त्वा मर्जयेम सेवेमहि। त्वमप्यनुद्यूननुदिनमस्मे अस्मासु क्षत्र्राणि सामर्थ्यानि धारयेर्धारय॥ ८॥

अथ नवमी —

इह त्वेति। हेऽग्न इहास्मिँल्लोके श्रेयोर्थी पुरुषस्त्वामेव भूरि बाहुल्येन सर्वत उपचरेत्त्मन्नात्मनि स्वनिमित्तम्। कीदृशं त्वां, दोषावस्तर्दीदिवांसं रात्रिंदिवं दीप्यमानम्। कियन्तं कालमुपचारः, अनुद्यूननुदिनम्। तस्माद्वयं क्रीडन्तो हृष्टमनसस्त्वां सपेम संगच्छेम भजेम। किं कुर्वन्तः, जनानां मध्ये द्युम्नानि धनानि अभितस्थिवांसस्त्वत्प्रसादादधिष्ठितवन्तः॥९॥

अथ दशमी —

यस्त्वेति। हेऽग्ने त्वत्प्रसादाच्छोभनैरश्वैः समीचीनेन हिरण्येन च युक्तो यो यजमानो हविःस्वरूपधनवता रथेन सह त्वामुपयाति तस्य त्वं त्राता भवसि। किंच यस्तवातिथिसत्कारमानुषक्प्रतिदिनं जुजोषत्प्रीतिपुरःसरं करोति तस्य त्वं सखिवत्स्वाधीनो भवति॥१०॥

अथैकादशी —

मह इति। हेऽग्ने बन्धुता त्वदीयेन बन्धुत्वेन महोऽसुराणां तेजोऽधिक्षेपरूपैर्वचोभिरेव रुजामि भञ्जयामि। तत्त्वदीयं बन्धुत्वं गोतमाद्गोतमसदृशादध्यापकात्पितुर्मामनुप्राप। हे होतर्देवानामाहा(हो)तर्यविष्ट युवतम सुक्रतो शोभनक्रतो याग-

निष्पादक दमूना दान्तमनास्त्वं नोऽस्मदीयस्य वचसोऽधीतवेदस्य रहस्यं चिकिद्धि जानासि॥११॥

अथ द्वादशी —

अस्वप्नज इति। हेऽग्ने तव ते नः पान्तु त्वतीयास्तथाविधा रश्मयोऽस्मान्पालयन्तु। अमूरेत्यग्निविशेषणम्। मूर्मूर्छा तद्वान्मूरस्ततोऽन्यत्वादमूरस्तस्य संबोधनम्। कीदृशास्ते रश्मयः, स्वप्नजन्मानो मिथ्याभूता न भवन्तीति अस्वप्नजः। व्यत्ययेनैकवचनम्। तरणयो दुरितरूपं तमस्तारयन्ति। सुशेवाः सुखेन सेवितुं योग्याः। अतन्द्रासोऽप्रमत्ताः। अवृका अहिंसकाः। अश्रमिष्ठाः श्रमरहिताः। पायवः पालकाः। सध्रियञ्चः सह प्रवर्तमानाः। निषद्य यागप्रदेशे स्थित्वा॥१२॥

अथ त्रयोदशी —

ये पायव इति। हेऽग्ने तव संबन्धिनः पालका ये रश्मयो ममताख्यायाः कस्याश्चिद्योषितोऽपत्यं क्वचिदन्धं पश्यन्तो दुरितादान्ध्यलक्षणादरक्षन्। इयं त्वाख्यायिका क्वापि ब्राह्मणान्तरे द्रष्टव्या। विश्वं वेत्तीति विश्ववेदाः। तादृशो भवान्सुकृतः सोभनकर्मकारिणस्तान्रश्मीन्रक्ष। ते रिपवो राक्षसास्तान्दिप्सन्त इदिव परिभवितुमिच्छन्तोऽपि ना(न) ह देभुर्नैव परिबभूवुः॥१३॥

अथ चतुर्दशी —

त्वयेति। हेऽग्ने वयं तव प्रणीती प्रेरणया वाजानन्नान्पश्याम। कीदृशा वयं, त्वया सधन्याः। सह यज्ञकर्म नयन्तीति सधन्याः। त्वोतास्त्वया रक्षिताः। हे सत्यताते सत्यविस्तार, उभा शंसा त्वदग्नेऽस्माभिः शंसनीयावैहिकामुष्मिकौ पुरुषार्थावुभौ सूदय [क्षर देहि] हेऽह्रयाण भक्तानामलज्जाकरानुष्ठुया कृणुहि साधनानुष्ठापनेन तावुभौ कुरु॥१४॥

अथ पञ्चदशी —

अयात इति। हेऽग्नेऽया समिधाऽनया सामिधेन्या ते त्वां विधेम परिचरेम। अस्माभिः शस्यमानं स्तोमं स्तोत्रं प्रतिगृभाय प्रतिगृहाण। अशसोऽप्रशस्तान्रक्षसो राक्षसान्दह। मित्रमुपकारकं महस्तेजो यस्यासौ मित्रमहा हे मित्रमहो द्रुहो वैरिकृतद्रोहान्निदो निन्दाया अवद्यादनुष्ठानदोषाच्चास्मान्पाहि॥१५॥

अथ षोडशी। सा तु पुरोनुवाक्या —

रक्षोहणमिति। रक्षसां हन्तारमन्नवन्तमग्निमाभिमुख्येन दीपयामि। जगतां मित्रं प्रथिष्ठं विस्तीर्णतमं शर्म शरणमुपयामि भजामि। एतदादिभिः ऋतुभिः समिद्धः संज्वलितः शिशानस्तीक्ष्णः सोऽग्निर्दिवा रिषो हिंसकादस्मान्पातु। स एव नक्तमपि पातु॥१६॥

अथ सप्तदशी। सा तु याज्या —

वि ज्योतिषेति। अयमग्निर्बृहता ज्योतिषा विभाति। विश्वानि महित्वा माहात्म्येनाऽऽविष्कुरुते। अदेवीरासुरीर्दुरेवा दुरत्यया मायाः प्रसहते विनाशयति। रक्षसे राक्षसान्विनिक्षे विनाशयितुं शृङ्गे द्वे ज्वाले शिशीते तीक्ष्णी करोति॥१७॥

अथाष्टादशी। सा तु विकल्पिता याज्या —

उतेति। तिग्मं तीक्ष्णत्वमेवाऽऽयुधं येषां रश्मीनां ते तिग्मायुधास्ते तव स्वानासोऽनेन पुरोडाशेन ध्वनिं कुर्वन्तः। तादृशा अग्ने रश्मय उत दिवि षन्तु द्युलोकेऽपि प्रसरन्तु। किमर्थं, रक्षसे हन्तवा उ राक्षसान्हन्तुमेव। अस्याग्नेर्भामा भासो रश्मयो मदे चिदस्मद्धर्षायैव प्ररुजन्ति प्रतिपक्षिणो भञ्जन्ति। अदेवीरासुर्यः परिबाधः सर्वतः कृता बाधा न वरन्ते नैवास्मानावृण्वन्ति। अत्र षोडशी विकल्पिता सामिधेनी। उत्तरे याज्यानुवाक्ये इति केचित्। तथा वाऽस्तु॥१७॥

अत्र विनियोगसंग्रहः —

“कृणु राक्षोघ्नके यागे सामिधेन्यस्तु षोडश।

याज्यानुवाक्ये द्वे अष्टादश मन्त्रा इहेरिताः॥१॥” इति।

मीमांसा तु उभा वामिन्द्राग्नी इत्यत्रेव सर्वत्र याज्याकाण्डे योजनीया। छन्दोऽपि सर्वासामृचामत्र त्रिष्टुबेव॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये प्रथमकाण्डे द्वितीयप्रपाठके चतुर्दशोऽनुवाकः॥१४॥

वेदार्थस्य प्रकाशेन तमो हार्दं निवारयन्।

पुमर्थांश्चतुरो देयाद्विद्यातीर्थमहेश्वरः॥१॥

इति श्रीमद्विद्यातीर्थमहेश्वरापरावतारस्य श्रीमद्राजाधिराजपरमेश्वरस्य श्रीवीरबुक्कमहाराजस्याऽऽज्ञापरिपालकेन माधवाचार्येण विरचिते वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये प्रथमकाण्डे द्वितीयः प्रपाठकः॥२॥

—-----------------------------

भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
14 'अग्नये रक्षोघ्ने पुरोडाशमष्टाकपालं निर्वपेद्यं रक्षांसि सचेरन्' इत्यस्या इष्टेः पञ्चदश सामिधेन्यः । ततः परे याज्यानुवाक्ये । उपहोमार्था ततः परा याज्याविकल्पो वा । सर्वा अग्निदेवत्याः, 'तपूष्यग्ने' इत्यादिदर्शनात् । वैश्वदेवं काण्डम् । त्रैष्टुभस्सर्वोनुवाकः । तत्र प्रथमा - कृणुम्ष्व पाज इति ॥ हे अग्ने कृणुष्व कुरुष्व । कृवि हिंसाकरणयोः व्यत्ययेनात्मनेपदम् ' धिन्विकृण्व्योरच' इत्युप्रत्ययः, अकारोन्तादेशः । करोतेर्विकरणव्यत्ययेन वा श्नुः । सतिशिष्टो विकरणस्वरो लसार्वधातुकस्वरेण बाध्यते । पाजः बलम् । 'पातेर्जुक्च' इत्यसुन् । बलेन हि पाल्यते जनः । प्रसितिं न प्रसितिमिव । उपरिष्टादुपचारत्वान्नकार उपमार्थीयः । प्रसितिः प्रसयनात् । प्रकर्षेण सीयते बध्यत इति प्रसितिः बहुसूत्रनिर्मिता मृगग्राहिणी पाश्यानाम, मत्स्यग्रहणं जालं नाम, पक्षिग्रहणं च विसरो नाम प्रसितिरुच्यते । 'तादौ च निति कृत्यतौ' इति गतेः प्रकृतिस्वरत्वम् । पृथ्वीं विस्तीर्णाम् । यथा लुब्धको मृगग्रहणार्थं पाश्यां करोति वनगहनेषु स्थापयति, यथा वा मत्स्यग्रहणार्थं जालं करोति जले प्रसारयति, यथा पक्षिग्राही तद्ग्रहणार्थं विसरं करोति नदीपुळिनादौ विसारयति, तथा त्वमपि महद्बलं रक्षांसि हन्तुं कृणुम्ष्व अग्रतो विस्तारयेत्यर्थः । अथ तथा कुर्वन्याहि राजेव । केचिदाहुः - आङ्पूर्वो यातिर्द्रष्टव्यः, यागसाधनार्थमागमनस्याभिप्रेतत्वात्, यागोत्तरकालं हि रक्षोहननार्थं गन्तव्यमिति । अत्र ब्रूमः - याहीत्येव समीचीनम् । ननु यागोत्तरकालं गन्तव्यं तेन रक्षोहननार्थम् । मैवं वोचः, न हि देवो विश्वात्मा कुतश्चिदायाति । न क्वचिद्याति । स्तुतिः खल्वियं क्रियते स्वाभिलषितसम्पादनानुरूपा 'याहि, आयाहि, उत्तिष्ठ, प्रत्यातनुष्व, ऊर्ध्वो भव' इत्यादि स्वरूपा । एतैश्च स्तुतिपदैस्तुष्टा देवता पुरुषमभिलषितेन फलेन योजयति । तस्माद्रक्षोहननार्थं त्वरितं यातव्यमायातव्यं वा, यागो निर्वर्तित एव मन्तव्य इत्येवं रूपा स्तुतिर्भवत्येवेति किमश्रुतपदाध्याहारेणेति । किञ्च - यागमागच्छतो देवस्य किं बलादिपरिग्नहणेन । हन्तव्यसकाशं गच्छतो हि बलादिना कार्यम् । तस्माद्यथोक्तं बलमादाय हन्तव्यसकाशं गच्छ राजेव, राजा यथा महतीं सेनां कर्षन् शत्रुदेशं गच्छति । राजा विशेष्यते - अमवानमात्यवान् । अमा वर्तन्त इत्यमाः । अप्रत्ययश्छान्दसः । 'तद्धिताः' इति बहुवचननिर्देशाद्वा । यद्वा - शत्रूणां मनआदिभञ्जनान्यायुधानि अमशब्देनोच्यन्ते । अमवानिति वृद्ध्यभावश्छान्दसः 'न कम्यमिचमाम्' इति वचनात् । पचाद्यचि वा वृषादिर्द्रष्टव्यः । अमनशब्दस्यैव वान्त्याक्षरलोपः । यथाहुः - 'द्वौ चापरौ वर्णविकारनाशौ' इति । इभेन । अत्र नैरुक्ता बहुधा वदन्ति - "इरयान्नेनेडोभयेन भयनिवृत्त्यर्थं प्राप्त इभः इतमपगतं भयमस्येति वा इभः वीतभयः हस्ती वा" इति । एतदुक्तं भवति; - यथा राजा अमात्ययुक्तश्शत्रूणां भञ्जनैरायुधादिभिस्तद्वान् इभेन हस्तिना शत्रुवधादिकं साधयितुं युक्तो गच्छति, तथा त्वं महद्बलमादाय शत्रुबलनाशनसमर्थेन रोगादिना तद्वान् इभेन इरापुष्टेन वीतभयेन तद्वान् गजेन वा सह रक्षांसि हन्तुं याहीति । अमवानिति संहितायां नकारस्य यत्वानुनासिकौ पूर्ववत् । तृष्वीं क्षिप्रनामैतत् । प्रकृष्टा सितिस्सेना प्रसितिः । अव्ययपूर्वपदप्रकृतिस्वरत्वम् । अनुद्रूणानः अनुद्रवन्ननुधावन् । एतदुक्तं भवति - मन्त्रिभिर्बहुलं समस्तं बलमग्रतः प्रसारयेतीरितां क्षिप्रगामिनीं प्रकृष्टां सेनामग्रतः प्रसारितां द्रवन्तीमनुद्रवन् राजेव यहीति । यद्वा - तृष्वीं क्षिप्रमागच्छन्तीं प्रसितिं परसेनां अनुद्रूणानः अनुक्रमेण हिंसन् याहीति । द्रूञ् हिंसायां क्रैयादिकः, पूर्वस्मिन्पक्षे द्रवतेस्ताच्छीलिकश्चानश्, व्यत्ययेन श्ना धातोश्च दीर्घत्वम् । अथैवं यात्वा रक्षसः राक्षसान् विध्य ताडय । तपिष्ठैः तप्तृतमैः तप्तृशब्दादिष्ठनि 'तुरिष्ठेमेयस्सु' इति तृशब्दस्य लोपः । कस्मादित्थमुच्यत इति चेत्, अस्तासि साधु निरसितासि शत्रूणाम्। यद्वा - शत्रुसम्बन्धिनाममोघानां शस्त्राणामस्ता निरसिता निवारयिता त्वमसि । तस्मात्तपिष्ठैस्त्वदीयैरायुधैः तान्विध्येति । अस्यतेस्साधुकारिणि तृन् । रधादित्वादिड्विकल्प्यते । विध्येति तिङः परत्वान्न निहन्यते । रक्षश्शब्दोयमसुनन्तः । रक्षाहेतुत्वादपादानेऽसुन् । क्षरेर्वा हिंसार्थात्कर्तर्यसुन्याद्यन्तविपर्ययः; यथोक्तं 'वर्णागमो वर्णविपर्ययश्च' इति । अयं चार्धर्चादित्वादुभयलिङ्गः । तत्र नपुंसकत्वे 'नब्विषयस्यानिसन्तस्य' इत्याद्युदात्तत्वम् । यथा - 'रक्षसामपहत्यै' 'रक्षांसि जिघांसन्ति' इति । पुल्लिङ्गे अस्य त्वन्तोदात्तत्वं भवति; यथा - 'रक्षसः पाह्यस्मान्' इत्यादौ । एवमस्यापि पुल्लिङ्गत्वादन्तोदात्तत्वम् । 'नब्विषयस्य' इति नियमेन नित्स्वरो बाध्यते, यथा - 'दक्षेरिनन्विधीयत' इति दक्षिणशब्देनान्तोदात्तेन भवितव्यम् । यथा - 'दक्षिणा दिक् । इन्द्रो देवता' इत्यादौ 'दक्षिणस्या दिगाख्यायाम्' इति नियमाद्दिगाख्याया अन्यत्राद्युदात्तत्वम् । यथा 'दक्षिणां प्रतिग्रहीष्यन्' 'आ प्र यच्छ दक्षिणात्' इत्यादिषु । एवमत्रापि द्रष्टव्यम् ॥
2 अथ द्वितया - तवेति ॥ हे अग्ने तव भ्रमासः भ्रमणशीलाः विष्फुलिङ्गाः । पचाद्यच् 'आज्जसेरसुक्' । आशुया आशवः । 'सुपां सुलुक्' इत्यादिना जसो याजादेशः । पतन्ति निष्पतन्ति । यद्वा - आशु निष्पतन्ति, क्रियाविशेषणत्वान्नपुंसकत्वम् । द्वितीयैकवचनस्य लुगपवादो याजादेशः । अनुस्पृश ये निष्पतन्ति तैर्भ्रमैः रक्षश्शरीराण्यनुक्रमेण स्पृश दहेति यावत् । धृषता अभिभवित्रा । धृष प्रसहने चुरादिराधृषीयः, व्यत्ययेन शः, 'शतुरनुमः' इति विभक्तेरुदात्तत्वम् । भावप्रधानोयं, धर्षकत्वेनेत्यर्थः । शोशुचानः भृशं दीप्यमानः । यङ्लुगन्ताद्व्यत्ययेनात्मनेपदम्, 'अभ्यस्तानामादिः' इत्याद्युदात्तत्वम् । इदानीं दहनोपाय उच्यते - तपूंषि तापानौष्ण्यलक्षणान् तपनशीलान् । तपेरुसि प्रत्ययः । पतङ्गान् पतनशीलान् । पतेरङ्गच्प्रत्ययः । उल्काः उज्ज्वलाः महाज्वालाः । पृषोदरादिः । एवमेतत्त्रितयं विष्वग्विसृज इतश्चेतश्च निस्सारय । विषु नाना अञ्चतीति ऋत्विगादिना क्विन्प्रत्ययः । 'न्यधी च' इति चकारस्यानुक्तसमुच्चयार्थत्वात् पूर्वपदप्रकृतिस्वरत्वम् । व्यत्ययेन वाव्ययपूर्वपदप्रकृतिस्वरत्वम् । जुह्वा असन्दितः अयन्त्रितः; अग्निर्हि जुहूं दृष्ट्वा यन्त्रित इव भवति न क्वचिद्याति, न चान्यत्करोति, तामेवाज्यवतीं व्याप्रियमाणां पश्यन्तया बद्ध इव भवति, तस्मात्तथा माभूरिति प्रार्थयते । जुह्वा विभक्तेः 'उदात्तयणो हल्पूर्वात्' इत्युदात्तस्य 'नोङ्धात्वोः' इति प्रतिषेधे 'उदात्तस्वरितयोर्यणः' इति स्वरितत्वं प्रवर्तते । सर्म्पूवाद्द्यतेः निष्ठायां 'द्यतिस्यतिमास्थामित्तिकिति' इतीत्वम्, अव्ययपूर्वपदप्रकृतिस्वरत्वम् । अन्य आह - असन्दितः केनचिदप्यखण्डितप्रसरस्सन् इत्थं कुरु । तत्र कारणमाह - जुह्वा जुहूस्थेनाज्येनेत्यर्थः ॥

अथ तृतीया - प्रतीति ॥ अग्न इति चतुर्थपादादिः, अत एव न निहन्यते । हे अग्ने नः अस्माकं यो दूरे स्थितः अघशंसः यो वा अन्ति अन्तिके । 'कादिलोपो बहुळम्' इति कलोपः । अघं पापात्मकं शंसनमभिलाषः कीर्तनं वा यस्य सोघशंसः, बधादिकारी, दुरुक्तवदी वोच्यते । तथा प्रतिस्पशः पाशान् विसृज विस्तारय पाशैस्तं बधानेत्यर्थः । स्पश ग्रहणशोषणयोः, करणे सम्पदादिलक्षणः क्विप् । यद्वा - स्पश बाधने, बाधकान्यायुधादीनि तं प्रति विसृज । तूर्णितमः त्वरिततमस्सन् । त्वरतेः क्तिनि निष्ठावद्भावेन निष्ठानत्वे 'ज्वरत्वरस्रव्यविमवामुपधायाश्च' इत्यूठ् । किञ्च - भव पायुः पालयिता अस्या विशः प्रजायाः । कस्याः? त्वामनुगतायाः अस्मदादिकायाः न पुनः प्रकृतायाः । अत एवान्वादेशाभावात् 'ऊडिदम्' इति विभक्तेरुदात्तत्वं प्रवर्तते । 'सावेकाचः' इति विशो विभक्तेरुदात्तत्वम् । 'द्व्यचोतस्तिङः' इति संहितायामाख्यातस्य दीर्घत्वम् । 'कृवापाजिमि' इत्युण्प्रत्ययः । अदब्धः अनुपहिंसितः केनापि । किञ्च - माकिः मा कश्चिदपि ते त्वामादधर्षीत् आधर्षयतु तव कश्चिदपि परिभवं माकार्षीदित्यर्थः । धृष प्रसहने चुरादिराधृषीयः द्विविकरणता, शपश्श्लुः, ततः परं सिच्, 'नेटि' इति वृद्धिप्रतिषेधः । सिच्येव वा व्यत्ययेन द्विर्वचनम् । व्यथिः व्यथयिता । व्यथेरन्तर्भावितण्यर्थात् 'इन् सर्वधातुभ्यः' इतीन् । ण्यन्तादेव वा 'अच इः' इतीप्रत्यये 'बहुळमन्यत्रापि संज्ञाच्छन्दसोः' इति णिलोपः । यथा - 'वर्धन्तु त्वा सुष्टुतयः' इति वृषादिर्द्रष्टव्यः । ते इति 'क्रियाग्रहणं कर्तव्यम्' इति सम्प्रदानत्वाच्चतुर्थी । 'चतुर्थ्यर्थे बहुळं छन्दसि' इति षष्ठी चतुर्थ्यर्थे वा । कर्मणि षष्ठी वा, तेव्यथिरिति सम्बन्धात् । 'युष्मत्तत्तक्षुष्वन्तः पादम्' इति ते इत्यस्मिन् परतः पूर्वस्य सकारस्य षत्वम् ॥

4 अथ चतुर्थी - उदग्न इति ॥ हे अग्ने उत्तिष्ठ उत्थाय प्रत्यातनुष्व शत्रून्प्रत्यात्ततेजा भव । तथा च भूत्वा, हे तिग्महेते तीक्ष्णायुध अमित्रानस्मच्छत्रून् न्योषतात् नियमेन दह । उष दाहे । अमेरित्रप्रत्ययः । किञ्च - यो नः अस्माकं अरातिं अरातित्वं अस्मभ्यं वा अरातिं अदानं चक्रे कुरुते, योस्मभ्यं न किञ्चिदपि ददाति तं नीचा न्यग्भूतं धक्षि दह, अतसन्न काष्ठमिव शुष्कम् । दहेर्लेटि 'बहुळं छन्दसि' इति शपो लुक् । न्यक्शब्दाद्व्यत्ययेन तृतीया 'अञ्चेश्छन्दस्यसर्वनामस्थानम्' इति तस्या उदात्तत्वम् । हे समिधान सामिधेनीसमिद्भिर्दीप्यमान । पूर्ववच्छपो लुक् ॥
5 अथ पञ्चमी - ऊर्ध्व इति ॥ हे अग्ने ऊर्ध्वः उत्थितो भव । उत्थाय च प्रतिविध्य प्रत्येकं ताडय । यद्वा - प्रतियोद्धा भव । कस्यार्थे? अध्यस्मत् अस्मत्त उपरि अस्मत्पक्षे तिष्ठन् अस्मदर्थमित्यर्थः । यद्वा - अस्मत्त उपरि ये तिष्ठन्त्यस्मान्न्यग्भावयन्तः । तान् प्रतिविध्य प्रत्येकं ताडय । यद्वा - सप्तम्या लुक् । अस्मास्वधि प्रतिविध्य अस्मन्निमित्तं प्रतियोद्धा भव । अधिशब्देनापि सप्तम्यर्थ एव द्योत्यते । तदर्थं किं कर्तव्यमिति चेत् आविष्कृणुष्व प्रकाशय दैव्यानि देवस्थ तव स्वभूतानि वीर्याणि यानि तवैव सन्ति तानि प्रकाशय । 'देवाद्यञञौ' इति यञ् । 'इदुदुपदस्य चाप्रत्ययस्य' इति षत्वम् । किञ्च - यातुजूनां यातयितुं क्लेशयितुं प्राणिनो ये जवं कुर्वन्ति ते यातुजुवः । 'क्विब्वचि' इत्यादिना क्विब्दीर्घौ । आमि छान्दसो नुट् । तेषां यातुधानानां स्थिराणि वीर्याणि अवतनुहि अवाचनिं कुरु नाशय । 'शेश्छन्दसि बहुळम्' इति लुक् । 'उतश्च प्रत्ययाच्छन्दो वा वचनम्' इति हेर्लोपो न क्रियते । एवं त्वदीयानि वीर्याण्याविष्कृत्य यातुधानानां च वीर्याणि शिथिलीकृत्य पश्चादित्थं प्रवर्तितव्यमित्याह - जामिं चाजामिं च शत्रून्प्रमृणीहि प्रकर्षेण मारय । म्रियतेरन्तर्भावितण्यर्थात् लोटि[टः] व्यत्ययेन श्ना, हेः पित्त्वाभावे ङित्त्वादीत्वम् । यद्वा - मृण हिंसायाम्, लोटि हेश्छान्दस ईडागमः, विकरणस्य लुक् । यत्कृतमेव क्रियते तज्जामि । अत्र प्रमृणीहीत्याख्यातसन्निधेर्मरणविषयं पौनरुक्त्यं विज्ञायते, उपचारेण तद्वति वृत्तिः । एतदुक्तं भवति; - शत्रून् प्रमृणीहि । किं विशेषेण? जामिं चाजामिं च शत्रुं मारय यः पूर्वं प्रहृतस्तमपि प्रहर, हतो यमिति मोपेक्षिष्ठाः, यश्च न प्रहृतः कुतश्चित्कारणात्तमपि प्रहर, वराकोयं न हन्तव्य इत्यादि चेतसि माकृथाः । इदमेव कार्त्स्न्यं प्रतिपादयितुं बहुवचनं प्रयुक्तम् । एकेन जामि मारणेन एकेनाजामिमारणेन देवस्य कृतार्थता माविज्ञायीति । यद्वा - द्वे अप्येते क्रियाविशेषणे, व्यत्ययने 'स्वमोर्नपुंसकात्' इति न क्रियते । पुनरुक्तमपुनरुक्तं च शत्रून् मारयेति ॥
6 अथ षष्ठी - स त इति ॥ हे अग्ने यविष्ठ युवतम । यद्वा - हविर्देवानाम्मिश्रयितृतम । यौतेः तृजन्तादिष्ठन् । स ते तव जानाति सुमतिं शोभनां कल्याणकारिणीं मतिं स एव तवानुग्रहबुद्धिं यथावत् भजत इति यावत् । यद्वा - स एव त्वत्प्रसादात्सुमतिमात्महितं जानाति, स एवात्महिते प्रवर्तत इति यावत् । कृदुत्तरपदप्रकृतिस्वरत्वम्, 'मन्त्रे वृष' इति मतिशब्दोन्तोदात्तः । क इत्याह - य ईवते गमनवते प्रशस्तगतये कल्याणहेतुभूतागमनाय । यद्वा - गृहमागताय ब्रह्मणे परिबृढाय । तुभ्यं गातुमन्नं हविर्लक्षणं ऐरत् ईरयति ददाति । ईर क्षेपे, चुरादिराधृषीयः, छान्दसो लुङ् । इङ् गतौ, क्विबन्तात्प्रशंसायां मतुप्, 'छन्दसीरः' इति मतुपो वत्वम् । यद्वा - ईवते गमनवते गमनकारिणे तुभ्यं यो गातुम्मार्गमैरत् करोति, मार्गं हविरादिसम्पन्नं प्रवर्तयति अलङ्कृतमिव राजमार्गम् । स एव सुमतिं जानाति । तस्मात्त्वया इत्थमस्यैवोपकर्तव्यमित्याह - अस्मै इत्थं त्वयि श्रद्धां कुर्वते यजमानाय यजमानार्थम् । अन्वादेशविषयत्वादनुदात्तत्वम् । रायो धनानि द्युम्नानि यशांसि दुरो गृहान्, एतानि विश्वान्यपि सुदिनानि शोभनानि दिनान्यभिलक्षीकृत्य, त्वं विद्यौत् विशेषेण द्योतस्व । यैर्द्युम्नादिभिश्शोभनानि दिनानि क्रियन्ते तानि सुदिनानि । 'आद्युदात्तं द्व्यच्छन्दसि' इत्युत्तरपदाद्युदात्तत्वम्, 'नपुंसकमनपुंसकेन' इति नपुंसकस्यैकशेषः । 'ऊडिदम्' इति रायो विभक्तेरुदात्तत्वम् । दुर्वेर्हिंसाकर्मणः क्विपि वलोपः । द्योततेश्छान्दसो लुङ्, 'द्युद्भ्यो लुङि' इति परस्मैपदम्, सिचि वृद्धिः, 'बहुळं छन्दसि' इतीडभावः, 'बहुळं छन्दस्यमाङ्योगेपि' इत्यडभावः । यथैतानि विश्वान्यपि सुदिनानि भवन्ति इष्टदिनानि भवन्ति तथा विद्योतस्व अर्यस्त्वम् । अर्यस्स्वामी, 'अर्यस्स्वामिवैश्ययोः' इति यत्प्रत्ययान्तो निपात्यते । अपरा योजना - विश्वानि द्युम्नानि दीप्तिमन्ति सुदिनानि शोभनदिनानि । अत्यन्तसंयोगे द्वितीया । यथा शोभनानि विश्वानि दिनानि भवन्ति, तथा तेषु विद्योतस्व । 'परादिश्छन्दसि बहुळम्' इत्युत्तरपदाद्युदात्तत्वम् । दुरोभि गृहानभिलक्षीकृत्य विश्वानि दिनानि द्योतस्व । रायो धनस्य स्वामी त्वम् । अन्ये तु वाक्यभेदेन व्याचक्षते - विश्वान्यपि सुदिनान्यस्मै भवन्ति । द्युम्नानि यशांसि च भवन्ति । रायो धनस्य स्वामी भवति । गृहानभि विद्योतते, गृहस्थश्च भवतीति ॥
7 अथ सप्तमी - सेदिति ॥ हे अग्ने स इत् स एव सुभगोस्तु सौभाग्यवान् भवतु, सुदानुः शोभनदानश्च । उभयत्रापि 'आद्युदात्तं द्व्यश्छन्दसि' इत्युत्तरपदाद्युदात्तत्वम् । 'सोचि लोपे चेत्' इति स इत्यस्य संहितायां सोर्लोपः । क इत्याह – यस्त्वा नित्येन अविच्छिन्नेन यावज्जीवसङ्कल्पनां परिपालयन् हविषा पिप्रीषति प्रीणयितुमिच्छति; न कदाचिदपीमां हित्वा यजमानो भवति । मीञ् तर्पणे । यश्चोक्थैश्शस्त्रैस्त्वां पिप्रीषति स एव । कस्मिन्निमित्त इत्याह - स्वायुषि आत्मीये जीवितेग्नौ वा निमित्ते । निमित्तात्कर्मसंयोगे सप्तमी । आत्मार्थं न परार्थमिति स्वग्रहेण दर्शयति । कुत्र स्थित इत्यत आह - दुरोणे गृहे स्व इत्येव । आत्मीये ग्रहे स्थितं त्वां पिप्रीषति, न तु ऋत्विजाम् । दुःखेन रक्ष्यत इति दुरोणम् । अवतेरौणादिको नप्रत्ययः, ज्वरत्वरादिना ऊठि गुणः, 'पूर्वपदात्संज्ञायामगः' इति णत्वम्, कृदुत्तरपदप्रकृतिस्वरत्वम् । किञ्चेत्याह - सा तादृशीत्थंभूतेन क्रियमाणा विश्वेत् विश्वैव न पुनरेकैव । इष्टिर्यागः सुदिना शोभनदिना असद्भवति । अस्मै अस्य । षष्ठ्यर्थे चतुर्थी, पूर्ववदुत्तरपदाद्युदात्तत्वम् । यद्वा - अस्य यजमानस्य विश्वान्यपि सुदिनानि भवन्ति । किञ्च - सा तादृशेन क्रियमाणा इष्टिरसद्भवेत् । अतादृशेन क्रियमाणा इष्टिरेव न भवति । तस्मात्स एव सुभस्सुदानुश्चास्तु । भगो रूपमैश्वर्यं वा । दानुर्दानशीलः दातृत्वं वा । अस्तेर्लेटि 'लेटोडाटौ' इत्यडागमः, 'इतश्च लोपः' ॥
8 अठाष्टमी - अर्चामीति ॥ हे अग्ने ते तव सुमतिं शोभनां मतिमुपकर्त्रीं बुद्धिमर्चयामि पूजयामि मनसा बहुमन्ये । सुष्ठु मन्यतेनयेति सोपसर्गात्क्तिनि समासे कृदुत्तरपदप्रकृतिस्वरत्वम्, 'मन्त्रे वृष' इति क्तिन उदात्तत्वम् । इयं मदीया गीश्च ते त्वां सञ्जरतां सम्यक्स्तौतु । जरतिस्स्तुतिकर्मा छन्दसि । कीदृशी गीः? त्वामेव वावाता पुनःपुनस्त्वामेवोपगच्छन्ती क्षणमपि त्वां हातुमशक्नुवन्ती । वातेर्यङ्लुगन्तान्निष्ठा, व्यत्ययेन धातुस्वरः । त्वां संवावाता त्वां सङ्गच्छन्ती वान्वीयते । यद्वा - त्वामञ्चिता वा अवगच्छन्तीति वा । 'वष्टि वागुरिरल्लोपम्' इत्यवशब्दाकारो लुप्यते, 'अन्येषामपि' इति सांहितिकं दीर्घत्वम् । यद्वा - आद्यन्तविपर्ययो वा अवशब्दस्य; यथा - 'श्वात्रोसि' इत्याशुशब्दस्य । 'परादिश्छन्दसि बहुळम्' इत्युत्तरपदाद्युदात्तत्वम् । यद्वा - अतिशयेन वननीया । यङ्लुकि छान्दसी रूपसिद्धिः । स्तुस्तिर्विशेष्यते - घोषि घुष्यत इति घोषि । 'इन्सर्वधातुभ्यः' इतीन्, क्रियाविशेषणत्वान्नपुंसकत्वम् । अर्वाक् अर्वाचीनमस्मादृशजनोचितं, यथास्माभिर्घोषयितुं शक्यते तथा घोषयित्वा त्वद्गुणानियं स्तौतु । अथ कायिकीं परिचर्यामाह - स्वश्वास्सुरथाश्च सन्तः त्वत्प्रसादेन महाधनाः पुत्रपौत्रादिसहिताश्च सन्तस्त्वामर्चयेम अलङ्कुर्मः, परिचरेमेति यावत् । मृजू शौचालङ्करणयोः, वृद्ध्यभावश्छान्दसः । शुद्धिकर्मण एव वा शु[वृ?]द्ध्या भाव्यम् । 'आद्युदात्तं द्व्यच्छन्दसि' इति बहुव्रीहेरुत्तरपदाद्युदात्तत्वम् । अस्मे अस्मभ्यमेवं वर्तमानेभ्यः क्षत्राणि बलानि धारयेः देहि । यद्वा - अस्माकं क्षत्राणि धारय । यद्वा - अस्मदर्थं क्षत्राणि धारय । सुपां सुलुक्' इति शे आदेशः । अनुद्यून् दिनेदिने । लक्षणादिना कर्मप्रवचनीयत्वम् ॥
9 अथ नवमी - इहेति ॥ इहास्मिन्कर्मणि रक्षोवधलक्षणे त्वामेव भूरि भूयिष्ठं उपाचरेत् उपचरितुमर्हति पुरुषः त्मन् आत्मनि दोषावस्तर्दीदिवांसमनुद्यून् रात्रावहनि च सर्वेषां अन्तर्दीदिवांसं संदीप्यमानम् । 'आङोन्यत्रापि दृश्यते' इत्यात्मन आकारस्य लोपः । दीप्यतेः क्वसौ 'तुजादीनाम्' इत्यभ्यासस्य दीर्घत्वम् । छान्दसो वा दीदिविः दीप्तिकर्मा कृतद्विर्वचन एव । 'कार्तकौजपादयश्च' इति दोषावस्तरित्यस्य पूर्वपदप्रकृतिस्वरत्वम् । पदसमुदायात्मको वा एको निपातः । 'निपाता आद्युदात्ताः' इति तस्याद्युदात्तत्वम् । यद्वा - इहास्मिन् लोके त्वामेव भूरि उपाचरेत् पुरुषः आत्मनिमित्तमात्मनोभिमतसम्पादनार्थं दोषावस्तः दीप्यमानम् । अनुद्यूनित्युपचरणं विशेष्यते अनुदिनमुपाचरेदिति । तस्माद्वयं क्रीडन्तः तृप्यन्तस्सुमनसः अप्रतिकूलमनसः शोभनमनसो वा । त्वा त्वामेव सपेम भजेम । षप समवाये । 'सोर्मनसी इत्युत्तरपदाद्युदात्तत्वं सुमनश्शब्दस्य । जनानां द्युम्नानि धनानि यशांसि वा अभितस्थिवांसः अभितिष्ठन्तः त्वत्प्रसादेनात्मसात्कुर्वन्तः त्वत्सम्बन्धिन एव सर्वदा भवेमेति । 'शेश्छन्दसि बहुलम्' इति द्युम्नेत्यत्र शेर्लोपः' । 'वस्वेकाजाद्घसाम्' इति तिष्ठतेरिडागमः ॥
10 अथ दशमी - यस्त्वेति ॥ हे अग्ने स्वश्वः शोभनाश्वः महाधनः यागयोग्य इति यावत् । 'आद्युदात्तं द्व्यच्छन्दसि' इत्युत्तरपदाद्युदात्तत्वम् । सुहिरण्यः । 'नञ्सुभ्याम् इत्युत्तरपदान्तोदात्तत्वम् । य इदृशस्सन् वसुमता व्रीह्यादिधनवता रथेन त्वामुपयाति तस्य त्राता भवसि सर्वदुरितेभ्यः । किन्च - तस्य सखा भवसि । कस्य? यस्त्वामानुषक् अनुषक्तं नित्यं आतिथ्यमतिथिसत्कारम् । यद्वा - अनुषक्तं यथाभिलषितमातिथ्यं जुजोषत् जोषयति प्रापयति । जुषेरन्तर्भावितण्यर्थात् लेटि 'बहुलं च्छन्दसि' इति शपश्श्लुः । 'लेटोडाटौ' इत्यडागमः, 'अभ्यस्तानामादिः' इत्याद्युदात्तत्वम् । ते इति कर्मणस्सम्प्रदानत्वात् चतुर्थ्यर्थे षष्ठी । 'अतिथेर्ण्यः' ॥
11 अथैकादशी - महो रुजामीति ॥ हे अग्ने बन्धुता बन्धुतया बन्धुभावेन । 'सुपां सुलुक्' इति तृतीयाया आकारः । वचोभिस्तुतिभिरुपजातया त्वद्बन्धुतया महः महतः असुरान् ये धनादिना मामतिशेरते तान्रुजामि भञ्जयामि मत्तो न्यक्करोमि । महतेः क्विपि 'सावेकाचः' इति व्यत्ययेन विभक्तेरुदात्तत्वम् । तत्तादृशं ज्ञानं गोतमनाम्नः गोतमसदृशाद्वा मम पितुस्सकाशान्मामन्वियाय अन्वगच्छत् । येन त्वां वाग्भिर्बन्धुत्वाय [येनेमां वाचं त्वद्बन्धुत्वाय?] करोमि । यद्वा - वचोभिरिति व्यत्ययेन बहुवचनम् । स्तुतिवचसा उपजातेन तव बान्धवेन महो रुजामि प्रथमम् । तदनु तस्माद्गोतमात् त्वद्बान्धवहेतुभूतगोतमात् साधुतमात् स्तुतिवचसो हेतुभूतात् पितुरन्नमपि मामियाय एति उपगच्छति तेनैव बान्धवेन । यद्वा - तत्तादृशं वचो गातेमात् पितुस्सकाशान्मामन्वियाय सा स्तुतिशक्तिर्मामुपसङ्क्रान्ता इत्यर्थः । त्वमेव खल्वस्य स्तुतिवचसः अस्मदीयस्य चिकिद्धि जानासि एतत् ज्ञातुं शक्नोषि । कित ज्ञाने, जुहोत्यादिकः । अस्येति स्तोत्ररूपं निर्दिशति, न तु प्रकृतं वचः । तेनान्वादेशाभावः । यद्वा - प्रथमपक्षे एकवचनान्तस्य वचश्शब्दस्याप्रकृतत्वादस्येति प्रथमादेशत्वेनान्वादेशाभावः । तत्र 'ऊडिदम्' इति विभक्तेरुदात्तत्वम् । इतरयोस्तु पक्षयोर्व्यत्ययेनान्वादेशाभावः, कृते वानुदात्तत्वाभावः । कस्तव विशेष इत्याह – हे होतः देवानामाह्वातः यविष्ठ युवतम सुक्रतो शोभनप्रज्ञ । 'नामन्त्रिते समानाधिकरणे' इति प्रथमस्याविद्यमानत्वनिषेधात्परमामन्त्रितद्वयं निहन्यते । दमूनाः दान्तमना दानमना वा । पृषोदरादिः । इर्दृशस्त्वमेवैतच्चिकिद्धि किमन्येनाज्ञानिना इति ॥
12 अथ द्वादशी - अस्वप्नज इति ॥ अस्वप्नशीलः । 'स्वपितृषो र्नजिङ्' । पदकारानभिमतत्वात् अन्यथा व्याख्यायते - स्वप्नजन्मानो न भवन्तीत्यस्वप्नजाः । 'सुपां सुलुक् इति जसस्स्वादेश', सतिशिष्टत्वादव्ययपूवापदप्रकृतिस्वरत्वम् । तरणयः दुरिततरणहेतवः । तरतेरनिप्रत्ययः । सुशेवाः सुसुखाः । 'शेवायह्वा' इति निपात्यते । अतन्द्रासः अलसत्वरहिताः । 'आज्जसेरसुक्' । अवृकाः वृकत्वं हिंस्रत्वं तद्रहिताः । 'नञ्सुभ्याम्' इत्युत्तरपदान्तोदात्तत्वम् । अश्रमिष्ठाः अखेदयितृतमाः । श्रमु खेदे, तृजन्तात् 'तुश्छन्दसि' इतीष्ठन्, 'तुरिष्ठेमेयस्सु' इति लोपः । एवंस्वभावास्ते तादृशाः हे अग्ने तव पायवः जगत्पालनशीलाः रश्मयः । 'कृपावाजि' इत्युण्प्रत्ययः । सध्रियञ्चस्सहाञ्चन्तः सम्भूयकारिणः । 'सहस्य सध्रिः' । निषद्य अस्मद्यज्ञे निषीदन्तो भूत्वा सर्वे अस्मद्यज्ञमागत्य त्वयि निषण्णास्त्वामुद्दीपयन्तः नः अस्मान् पान्तु रक्षन्तु । हे अमूर अमोहनशील । मुर्छा मोहसमुच्छ्राययोः, क्विपि 'राल्लोपः', ततो मत्वर्थीयोऽप्रत्ययः । मोहनशीलो मूरः ततोन्योऽमूरः । यद्वा - मूङ् बन्धने, औणादिको रक् । अमूर अबन्धनीय अनिग्राह्य । यद्वा - अमतेरूरन् प्रत्ययः । अमूरः अप्रतिहतगतिः ॥
13 अथ त्रयोदशी - ये पायव इति ॥ हे अग्ने ते तव ये पायवो रश्मयः अन्धं चक्षुर्हीनं मामतेयं, ममता नाम काचिदृषिपत्नी तस्या अपत्यं मामतेयम् । 'स्त्रीभ्यो ढक्' । तमन्धं पश्यन्तः दुरितात् श्वभ्रपतनलक्षणात् अरक्षन् प्रकाशप्रदानेन दुरितहीनमकुर्वन् । दुरितशब्दः प्रवृद्धादिर्द्रष्टव्यः । तन्रश्मीन् सुकृतस्तथा शोभनं कर्म कृतवतः विश्ववेदास्त्वं विश्वस्य वेदयिता । 'गतिकारकयोरपि' इत्यसुन् । विश्वानि वेदांसि वा यस्य तादृशो भवान् तान्रक्ष, रक्षतेः परोक्षे लिट्, आदरेण परिगृह्य पालयेति । 'छन्दसि लुङ्लङ्लिटः' इति लिट् । परोक्ष एव ररक्ष विशेषेण परिजग्राहेत्यर्थः । कथं ररक्षेत्याह - यथा रिपवो राक्षसादयः दिप्सन्त इत् रिपुं दम्भितुमिच्छन्तः परिभवितुमिच्छन्त एव सन्तः नैव देभुः न परिबभूवुः । ततः प्रभृति तथा ररक्षेति । दम्भेस्सनि 'सनीवन्तर्ध' इतीडागमः । 'दम्भ इच्च' इतीकारः । भषभावश्छान्दसः । दम्भेर्हल्ग्रहणस्य जातिवाचित्वात् 'हलन्ताच्च' इति सनः कित्त्वम् । देभुरिति 'दम्भेश्चोति वक्तव्यम्' इति लिटः कित्त्वादुपधालोपः । दभिः प्रकृत्यन्तरं वा । 'अन्येषामपि दृश्यते' इति नशब्दस्य संहितायां दीर्घत्वम् ॥
14 अथ चतुर्दशी - त्वयेति ॥ हे अग्ने त्वया सधन्यस्सहनेतारो वयं त्वं च वयं च सहाभिमतानि नयाम इत्यर्थः । 'सधमादस्थयोः' इति विधीयमानस्सधादेशो व्यत्ययेनात्रापि भवति, 'एरनेकाचः' इति यणादेशः, 'उदात्तस्वरितयोर्यणः' इति विभक्तिस्स्वर्यते । त्वोताः त्वया ऊताः रक्षिताः । छान्दसी रूपसिद्धिः, 'तृतीया कर्मणि' इति पूर्वपदप्रकृतिस्वरत्वम्, बहुविकारत्वादनवग्रहः । तव प्रणीती प्रणीत्या प्रणयनेन अनुज्ञानेन परिचरणेन वा वयं वाजानन्नानि अश्याम भक्षीमहि । 'सुपां सुलुक्' इति प्रणीतिशब्दात्परस्यास्तृतीयायाः पूर्वसवर्णदीर्घत्वम्, 'तादौ च' इति गतेः प्रकृतिस्वरत्वम् । किञ्च - हे सत्यताते सत्य??रिन् । व्यत्ययेन तातिल्प्रत्ययः । यद्वा - तनोतेः क्तिनि छान्दसं दीर्घत्वम् । हे सत्यविस्तार । उभा शंसा उभौ शंस ?? आयौ अर्थावैहिकमामुष्मिकं च । 'सुपां सुलुक्' इत्यकारः । तौ सूदय आनय । षूद क्षरणे । अनुष्ठुया अनुक्रमेण स्थितौ कृणुहि कुरु । 'उतश्च प्रत्ययाच्छन्दो वा वचनम्' इति हेर्लुगभावः । अनुक्रमेण स्थापनमनुष्ठु । 'अपदुस्सुषु स्थः' इति विधीयमानः कुप्रत्ययो व्यत्ययेनानुपूर्वादपि भवति, सूषामादित्वात् षत्वम्, ततः परस्यास्तृतीयायाः 'सुपां सुलुक्' इति याजादेशः । अह्रयाण भक्तानां अह्रेपयितः, विजयकरत्वात् । जिह्रेतेर्व्यत्ययेन शपो लुक्, 'छन्दस्युभयथा' इति चानशः आर्धधातुकत्वात् ङित्त्वाभावः । व्यत्ययेन वा शपि मुगभावः ॥
15 ।अथ पञ्चदशी - अयेति ॥ हे अग्ने अया अनया समिधा समिन्धनेन समिधेनीकृत्येन । इदमस्तृतीयायाः 'सुपां सुलुक्' इति याजादेशः, त्यदाद्यत्वम्, 'अतो गुणे' इति पररूपत्वं, हलि लोपश्च, 'अनाप्यकः' इति व्तत्ययेन न प्रवर्तते । ते त्वां विधेम परिचरेम । पूर्ववत्कर्मणस्सम्प्रदानत्वम् । स्तोमं स्तोत्रं शस्यमानं प्रतिगृभाय प्रतिगृहाण । 'छन्दसि शायजपि' इति शायच्, 'हृग्रहोर्भः' इति भत्वम् । अशसः अशंसनान् अस्मद्द्वेष्यान् । बहुव्रीहिर्वा । अशेर्वा असुन् । व्यापकान् हिंसाद्वारा । रक्षसः राक्षसान् । पूर्ववन्नब्विषयत्वाभावादाद्युदात्तत्वाभावः । किञ्च - अस्मान् पाहि रक्ष । कस्मादित्याः - द्रुहः द्रोहात्परकर्तृकात् । निदः । निन्दतेः क्विप् । निन्दायाः परकर्तृकायाः । अवद्यात् परिवादात् परकर्तृकात् अस्मान्पाहि । उभयत्र 'सावेकाचः' इति विभक्तेरुदात्तत्वम्, तृतीयस्य तु 'अवद्यपण्य' इति निपातनात्, 'ययतोश्चादर्थे' इत्युत्तरपदान्तोदात्तत्वम् । हे मित्रमहः सर्वस्य मित्रवदुपकारकं महस्तेजो यस्य स तादृशः ॥
16 अथ पुरोनुवाक्या - रक्षोहणमिति ॥ 'रक्षोघ्नी याज्यानुवाक्ये भवतः' इति च ब्राह्मणम् । रक्षसां हन्तारं वाजिनमन्नवन्तं अन्नस्य दातारं आजिघर्मि अनेन हविषा आभिमुख्येन सन्दीपयामि । घृ क्षरणदीप्त्योः । जुहोत्यादिकः, 'बहुलं छन्दसि' इत्यभ्यासस्येत्वम् । मित्रं सर्वेषां सुहृद्रूपम् । मिदो दुःखात्त्रायकं प्रथिष्ठं पृथुतमम् । यद्वा - प्रथयितृतमम् । प्रथितृशब्दात् 'तुश्छन्दसि' इतीष्ठन्, 'तुरिष्ठेमेयस्सु' इति तृलोपः । इर्दृशं तं शर्म शरणमुपयामि रक्षकं भने । स च क्रतुभिः समिद्धः प्रज्ञाभिस्सन्दीप्तः अस्मदीयैर्वा यजनैः प्रवृद्धतेजाः । अग्निः अङ्गनादिगुणयुक्तः । शिशानस्तीक्ष्णीभवन् । श्यतेर्व्यत्ययेनात्मनेपदम्म् 'बहुलं छन्दसि' इति शपश्श्लुः, अभ्यासस्येत्वम्, 'अभ्यस्तानामादिः' आद्युदात्तत्वम् । इर्दृशस्स नः अस्मान् दिवा च नक्तं च रिषः पातु दुःखाद्रक्षतु । हिंस्राद्वा रक्षःप्रभृतेरस्मान्पातु । पूर्ववद्विभक्तेरुदात्तत्वम् 'सावेकाचः' इति ॥
17 अथ याज्या - वीति ॥ अयमग्निर्बृहता ज्योतिषा महता तेजसा इत्थंभूतस्सन् विभाति विशेषेणाभाति महाननेनास्मदीयेन हविषा । 'बृहन्महतोरुपसङ्ख्यानम्' इति तृतीयाया उदात्तत्वम् । किन्च - विश्वानि महित्वा माहात्म्यानि । 'शेश्छन्दसि' इति लोपः । आविष्कृणुते आविष्कुर्वीत । किन्च - अदेवीः अदेवनशीलाः आसुरीर्मायाः प्रसहते अभिभवेत् । दुरेवाः दुःखेनैतव्याः दुष्प्रधर्षा इति यावत् । एतेर्वः, कृदुत्तरपदप्रकृतिस्वरत्वम् । किञ्च - शृङ्गे शृङ्गस्थानीये प्रधाने आत्मीये ज्वाले शिशीते तीक्ष्णीकुरुते । श्यतेर्व्यत्ययेन आत्मनेपदम्, पूर्ववच्छपश्श्लुः, इत्वं चाभ्यासस्य, 'तास्यनुदात्तेत्' इति लसार्वधातुकानुदात्तत्वे 'अनुदात्ते च' इत्याद्युदात्तत्वम् । किमर्थं शिशीत इत्याह – रक्षसे विनिक्षे रक्षोविनाशार्थम् । पूर्ववत्कर्मणस्सम्प्रदानत्वम् । विनिक्षे - णिक्षि चुम्बने 'कृत्यार्थे तवैकेन्' इति केन्प्रत्ययः, कृदुत्तरपदप्रकृतिस्वरत्वम् । ज्वालाभ्यां रक्षसश्चुम्बनं दाह एव, रक्षसो दाहार्थं शृङ्गे तीक्ष्णीकरोत्विति । यद्वा - णिजेश्शोधनकर्मणः 'तुमर्थे सेसेनसे' इति क्सेप्रत्ययः, 'परादिश्छन्दसि बहुलम्' इत्युत्तरपदाद्युदात्तत्वम् । सनि वा व्यत्ययेन गुणाभावः । विनाशे बन्धनं विनाशनमेव ॥
18 अथ याज्याविकल्पः, उपहोमार्था वा - उतेति ॥ स्वानासः स्वनं कुर्वन्तः हवि प्रक्षेपसमुपजनितमहाशब्दाः । स्वनतेर्व्यत्ययेन कर्तरि घञ्, आज्जसेरसुक्, 'कर्षात्वतः' इत्यन्तोदात्तत्वम् । इर्दृशाः अग्नेः रश्मयः उत दिवि दिव्यपि सन्तु सर्वत्राकाशे विजृम्भन्ताम् । छान्दसं षत्वम् । 'ऊडिदम्' इति विभक्तेरुदात्तत्वम् । स्वाना इति रश्मिनामेति केचित् । तिग्मायुधाः तीक्ष्णायुधाः । तिग्मं तैक्ष्ण्यमेव आयुधस्थानीयं शत्रूणां वेधकत्वात् येषां ते तव रश्मयः दिव्यपि प्रकाशन्ताम् । किमर्थं । रक्षसे हन्तवै रक्षोवधार्थम् । हन्तेः कृत्यार्थे भावे तवैप्रत्ययः । प्ररुजन्तु प्रकर्षेण भक्षयन्तु हवींषि । रुजो भङ्गे तौदादिकः । यद्वा - भामाः क्रोधनशीलाः रुत्वा[क्त्वा?] अस्य रश्मयः प्ररुजन्तु प्रकर्षेण रक्षःप्रभृत्यपि भक्षयन्तु । मदेचित् मदायैवास्य । यद्वा - उपमानार्थश्चिच्छब्दः । महस्मे [मध्याह्ने] वर्तमानस्यास्य यथा रश्मयो विश्वं दहन्ति, एवमस्मद्रिपून् भक्षयन्त्यिति । एवमस्मद्विषये प्रवर्तमानमेनमग्निं अदेवीः अदेव्यः आसुर्यः परिबाधः पीडाः न वरन्ते न वृण्वन्तु न प्राप्नुवन्तु । वृञो वृङो वा व्यत्ययेन शप् । परिपूर्वाद्बाधतेस्सम्पदादिलक्षणस्स्त्रियां क्विप् कृदुत्तरपदप्रकृतिस्वरत्वम् ॥
इति श्रीभट्टभास्करमिश्रविरेचिते यजुर्वेदभाष्ये ज्ञानयज्ञाख्ये प्रथमे काण्डे द्वितीयप्रपाठके चतुर्दशोनुवाकः ॥

प्रथमकाण्डे द्वितीयप्रपाठकः समाप्तः ॥

—---------------------------------------

पञ्चशत् 2 #
TS 1.2.14.2 TS 1.2.14.2
यो अन्त्यग्ने॒ माकि॑ष्टे॒ व्यथि॒रा द॑धर्.षीत् ॥ उद॑ग्ने तिष्ठ॒ प्रत्या *ऽऽत॑नुष्व॒ न्य॑मित्राꣳ॑ ओषतात् तिग्महेते । यो नो॒ अरा॑तिꣳ समिधान च॒क्रे नी॒चा तं ध॑क्ष्यत॒सं न शुष्कं᳚ ॥ ऊ॒र्द्ध्वो भ॑व॒ प्रति॑वि॒द्ध्या-ऽद्ध्य॒स्मदा॒विष्कृ॑णुष्व॒ दैव्या᳚न्यग्ने । अव॑स्थि॒रा त॑नुहि यातु॒जूनां᳚ जा॒मिमजा॑मिं॒ प्रमृ॑णीहि॒ शत्रून्॑ ॥ स ते॑ - [ ]
पदपाठः (Word-by-word)
यः । अन्ति॑ । अग्ने᳚ । माकिः॑ । ते॒ । व्यथिः॑ । एति॑ । द॒ध॒र्.षी॒त् ॥ उदिति॑ । अ॒ग्ने॒ । ति॒ष्ठ॒ । प्रईति॑ । एति॑ । त॒नु॒ष्व॒ । नीति॑ । अ॒मित्रान्॑ । ओ॒ष॒ता॒त् । ति॒ग्म॒हे॒त॒ इति॑ तिग्म - हे॒ते॒ ॥ यः । नः॒ । अरा॑तिम् । स॒मि॒धा॒नेति॑ सम् - इ॒धा॒न॒ । च॒क्रे । नी॒चा । तम् । ध॒क्षि॒ । अ॒त॒सम् । न । शुष्क᳚म् ॥ ऊ॒र्द्ध्वः । भ॒व॒ । प्रतीति॑ । वि॒द्ध्य॒ । अधीति॑ । अ॒स्मत् । आ॒विः । कृ॒णु॒ष्व॒ । दैव्या॑नी । अ॒ग्ने॒ ॥ अवेति॑ । स्थि॒रा । त॒नु॒हि॒ । या॒तु॒जूना᳚म् । जा॒मिम् । अजा॑मिम् । प्रेति॑ । मृ॒णी॒हि॒ । शत्रून्॑ ॥ सः । ते॒ ।
पदसंख्या: 50
पञ्चशत् 3 #
TS 1.2.14.3 TS 1.2.14.3
जानाति सुम॒तिं ॅय॑विष्ठ॒य ईव॑ते॒ ब्रह्म॑णे गा॒तुमैर॑त् । विश्वा᳚न्यस्मै सु॒दिना॑नि रा॒यो द्यु॒म्नान्य॒र्यो विदुरो॑ अ॒भि द्यौ᳚त् ॥ सेद॑ग्ने अस्तु सु॒भगः॑ सु॒दानु॒-र्यस्त्वा॒ नित्ये॑न ह॒विषा॒य उ॒क्थैः । पिप्री॑षति॒ स्व आयु॑षि दुरो॒णे विश्वेद॑स्मै सु॒दिना॒ साऽस॑दि॒ष्टिः ॥ अर्चा॑मि ते सुम॒तिं घोष्य॒र्वाख्-सन्ते॑ वा॒ वा ता॑ जरता - [ ]
पदपाठः (Word-by-word)
जा॒ना॒ति॒ । सु॒म॒तिमिति॑ सु - म॒तिम् । य॒वि॒ष्ठ॒ । यः । ईव॑ते । ब्रह्म॑णे । गा॒तुम् । ऐर॑त् ॥ विश्वा॑नि । अ॒स्मै॒ । सु॒दिना॒नीति॑ सु - दिना॑नि । रा॒यः । द्यु॒म्नानि॑ । अ॒र्यः । वीति॑ । दुरः॑ । अ॒भीति॑ । द्यौ॒त् ॥ सः । इत् । अ॒ग्ने॒ । अ॒स्तु॒ । सु॒भग॒ इति॑ सु - भगः॑ । सु॒दानु॒रिति॑ सु - दानुः॑ । यः । त्वा॒ । नित्ये॑न । ह॒विषा᳚ । यः । उ॒क्थैः ॥ पिप्री॑षति । स्वे । आयु॑षि । दु॒रो॒ण इति॑ दुः - ओ॒ने । विश्वा᳚ । इत् । अ॒स्मै॒ । सु॒दिनेति॑ सु- दिना᳚ । सा । अस॑त् । इ॒ष्टिः ॥ अर्चा॑मि । ते॒ । सु॒म॒तिमिति॑ सु - म॒तिम् । घोषि॑ । अ॒र्वाक् । समिति॑ । ते॒ । वा॒वाता᳚ । ज॒र॒तां॒ ।
पदसंख्या: 50
पञ्चशत् 4 #
TS 1.2.14.4 TS 1.2.14.4
मि॒यंगीः । स्वश्वा᳚स्त्वा सु॒रथा॑ मर्जयेमा॒स्मे क्ष॒त्राणि॑ धारये॒रनु॒ द्यून् ॥ इ॒ह त्वा॒ भूर्या च॑रे॒ दुप॒त्मन् दोषा॑वस्तर् दीदि॒वाꣳस॒मनु॒ द्यून् । क्रीड॑न्तस्त्वा सु॒मन॑सः सपेमा॒भि द्यु॒म्ना त॑स्थि॒वाꣳसो॒ जना॑नां ॥ यस्त्वा॒-स्वश्वः॑ सुहिर॒ण्यो अ॑ग्न उप॒याति॒ वसु॑मता॒ रथे॑न । तस्य॑ त्रा॒ता-भ॑वसि॒ तस्य॒ सखा॒ यस्त॑ आति॒थ्यमा॑नु॒षग् जुजो॑षत् ॥ म॒हो रु॑जामि - [ ]
पदपाठः (Word-by-word)
इ॒यम् । गीः ॥ स्वश्वा॒ इति॑ सु - अश्वाः᳚ । त्वा॒ । सु॒रथा॒ इति॑ सु - रथाः᳚ । म॒र्ज॒ये॒म॒ । अ॒स्मे इति॑ । क्ष॒त्राणि॑ । धा॒र॒येः॒ । अन्विति॑ । द्यून् ॥ इ॒ह । त्वा॒ । भूरि॑ । एति॑ । च॒रे॒त् । उपेति॑ । त्‍मन्न् । दोषा॑वस्त॒रिति॒ दोषा᳚ - व॒स्तः॒ । दी॒दि॒वाꣳस᳚म् । अन्विति॑ । द्यून् ॥ क्रीड॑न्तः । त्वा॒ । सु॒मन॑स॒ इति॑ सु - मन॑सः । स॒पे॒म॒ । अ॒भीति॑ । द्यु॒म्ना । त॒स्थि॒वाꣳसः॑ । जना॑नाम् ॥ यः । त्वा॒ । स्वश्व॒ इति॑ सु - अश्वः॑ । सु॒हि॒र॒ण्य इति॑ सु - हि॒र॒ण्यः । अ॒ग्ने॒ । उ॒प॒यातीत्यु॑प - याति॑ । वसु॑म॒तेति॒ वसु॑ - म॒ता॒ । रथे॑न ॥ तस्य॑ । त्रा॒ता । भ॒व॒सि॒ । तस्य॑ । सखा᳚ । यः । ते॒ । आ॒ति॒थ्यम् । आ॒नु॒षक् । जुजो॑षत् ॥ म॒हः । रु॒जा॒मि॒ ।
पदसंख्या: 50
पञ्चशत् 5 #
TS 1.2.14.5 TS 1.2.14.5
ब॒न्धुता॒ वचो॑भि॒स्तन्मा॑ पि॒तुर्गोत॑मा॒द-न्वि॑याय । त्वन्नो॑ अ॒स्य वच॑स-श्चिकिद्धि॒ होत॑र्यविष्ठ सुक्रतो॒ दमू॑नाः ॥ अस्व॑प्नज स्त॒रण॑यः सु॒शेवा॒ अत॑न्द्रासोऽवृ॒का अश्र॑मिष्ठाः । ते पा॒यवः॑ स॒द्ध्रिय॑ञ्चो नि॒षद्याऽग्ने॒ तव॑नः पान्त्वमूर ॥ ये पा॒यवो॑ मामते॒यं ते॑ अग्ने॒ पश्य॑न्तो अ॒न्धं दु॑रि॒तादर॑क्षन् । र॒रक्ष॒तान्थ् सु॒कृतो॑ वि॒श्ववे॑दा॒ दिफ्स॑न्त॒ इद्रि॒पवो॒ ना ह॑ - [ ]
पदपाठः (Word-by-word)
ब॒न्धुता᳚ । वचो॑भि॒रिति॒ वचः॑ - भिः॒ । तत् । मा॒ । पि॒तुः । गोत॑मात् । अन्विति॑ । इ॒या॒य॒ ॥ त्वम् । नः॒ । अ॒स्य । वच॑सः । चि॒कि॒द्धि॒ । होतः॑ । य॒वि॒ष्ठ॒ । सु॒क्र॒तो॒ इति॑ सु - क्र॒तो॒ । दमू॑नाः ॥ अस्व॑प्नज॒ इत्यस्व॑प्न - जः॒ । त॒रण॑यः । सु॒शेवा॒ इति॑ सु-शेवाः᳚ । अत॑न्द्रासः । अ॒वृ॒काः । अश्र॑मिष्ठाः ॥ ते । पा॒यवः॑ । स॒द्ध्रिय॑ञ्चः । नि॒षद्येति॑ नि - सद्य॑ । अग्ने᳚ । तव॑ । नः॒ । पा॒न्तु॒ । अ॒मू॒र॒ ॥ ये । पा॒यवः॑ । मा॒म॒ते॒यम् । ते॒ । अ॒ग्ने॒ । पश्य॑न्तः । अ॒न्धम् । दु॒रि॒तादिति॑ दुः - इ॒तात् । अर॑क्षन्न् ॥ र॒रक्ष॑ । तान् । सु॒कृत॒ इति॑ सु - कृतः॑ । वि॒श्ववे॑दा॒ इति॑ वि॒श्व - वे॒दाः॒ । दिफ्स॑न्तः । इत् । रि॒पवः॑ । न । ह॒ ।
पदसंख्या: 50
पञ्चशत् 6 #
TS 1.2.14.6 TS 1.2.14.6
देभुः ॥ त्वया॑ व॒यꣳ स॑ध॒न्य॑-स्त्वोता॒-स्तव॒ प्रणी᳚त्यश्याम॒ वाजान्॑ । उ॒भा शꣳसा॑ सूदय सत्यताते-ऽनुष्ठु॒या कृ॑णुह्यह्रयाण ॥ अ॒या ते॑ अग्ने स॒मिधा॑ विधेम॒ प्रति॒स्तोमꣳ॑ श॒स्यमा॑नं गृभाय । दहा॒शसो॑ र॒क्षसः॑ पा॒ह्य॑स्मान् द्रु॒हो नि॒दो मि॑त्रमहो अव॒द्यात् ॥ र॒क्षो॒हणं॑ ॅवा॒जिन॒माजि॑घर्मि मि॒त्रं प्रथि॑ष्ठ॒-मुप॑यामि॒ शर्म॑ । शिशा॑नो अ॒ग्निः क्रतु॑भिः॒ समि॑द्धः॒सनो॒ दिवा॒ - [ ]
पदपाठः (Word-by-word)
दे॒भुः॒ ॥ त्वया᳚ । व॒यम् । स॒ध॒न्य॑ इति॑ सध - न्यः॑ । त्वोताः᳚ । तव॑ । प्रणी॒तीति॒ प्र - नी॒ती॒ । अ॒श्या॒म॒ । वाजान्॑ ॥ उ॒भा । शꣳसा᳚ । सू॒द॒य॒ । स॒त्य॒ता॒त॒ इति॑ सत्य - ता॒ते॒ । अ॒नु॒ष्ठु॒या । कृ॒णु॒हि॒ । अ॒ह्र॒या॒ण॒ ॥ अ॒या । ते॒ । अ॒ग्ने॒ । स॒मिधेति॑ सं - इधा᳚ । वि॒धे॒म॒ । प्रतीति॑ । स्तोम᳚म् । श॒स्यमा॑नम् । गृ॒भा॒य॒ ॥ दह॑ । अ॒शसः॑ । र॒क्षसः॑ । पा॒हि । अ॒स्मान् । द्रु॒हः । नि॒दः । मि॒त्र॒म॒ह॒ इति॑ मित्र - म॒हः॒ । अ॒व॒द्यात् ॥ र॒क्षो॒हण॒मिति॑ रक्षः - हन᳚म् । वा॒जिन᳚म् । एति॑ । जि॒घ॒र्मि॒ । मि॒त्रम् । प्रथि॑ष्ठम् । उपेति॑ । या॒मि॒ । शर्म॑ ॥ शिशा॑नः । अ॒ग्निः । क्रतु॑भि॒रिति॒ क्रतु॑ - भिः॒ । समि॑द्ध॒ इति॒ सं - इ॒द्धः॒ । सः । नः॒ । दिवा᳚ ।
पदसंख्या: 50
पञ्चशत् 7 #
TS 1.2.14.7 TS 1.2.14.7
सरि॒षः पा॑तु॒नक्तं᳚ ॥ विज्योति॑षा बृह॒ता भा᳚त्य॒ग्नि-रा॒विर् विश्वा॑नि कृणुते महि॒त्वा । प्रादे॑वीर् मा॒याः स॑हते-दु॒रेवाः॒ शिशी॑ते॒ शृङ्गे॒ रक्ष॑से वि॒निक्षे᳚ ॥ उ॒त स्वा॒नासो॑ दि॒विष॑न्त्व॒ग्ने स्ति॒ग्मायु॑धा॒ रक्ष॑से॒ हन्त॒वा उ॑ । मदे॑ चिदस्य॒ प्ररु॑जन्ति॒ भामा॒ न व॑रन्ते परि॒बाधो॒ अदे॑वीः ॥
पदपाठः (Word-by-word)
सः । रि॒षः । पा॒तु॒ । नक्त᳚म् ॥ वीति॑ । ज्योति॑षा । बृ॒ह॒ता । भा॒ति॒ । अ॒ग्निः । आ॒विः । विश्वा॑नि । कृ॒णु॒ते॒ । म॒हि॒त्वेति॑ महि - त्वा ॥ प्रेति॑ । अदे॑वीः । मा॒याः । स॒ह॒ते॒ । दु॒रेवा॒ इति॑ दुः - एवाः᳚ । शिशी॑ते । शृङ्गे॒ इति॑ । रक्ष॑से । वि॒निक्ष॒ इति॑ वि - निक्षे᳚ ॥ उ॒त । स्वा॒नासः॑ । दि॒वि । स॒न्तु॒ । अ॒ग्नेः । ति॒ग्मायु॑धा॒ इति॑ ति॒ग्म - आ॒यु॒धाः॒ । रक्ष॑से । हन्त॒वै । उ॒ ॥ मदे᳚ । चि॒त् । अ॒स्य॒ । प्रेति॑ । रु॒ज॒न्ति॒ । भामाः᳚ । न । व॒र॒न्ते॒ । प॒रि॒बाध॒ इति॑ परि - बाधः॑ । अदे॑वीः ॥
पदसंख्या: 41