पदपाठः (Word-by-word)
सायणभाष्यम् (Sayana Commentary)
(अथ प्रथमकाण्डे द्वितीयप्रपाठके चतुर्दशोऽनुवाकः)
त्रयोदशेऽनुवाके हविर्धानमण्डपनिर्माणमुक्तम्। यद्यपि नैतावता किंचित्प्रमेयं परिसमाप्तं तथाऽप्यध्यापकसंप्रदायपरम्परया प्रपाठक उत्तरानुवाके समाप्यत इत्यन्तिमानुवाकत्वाञ्चतुर्दशे काम्याः सामिधेन्यः पुरोनुवाक्या याज्यश्वोच्यन्ते। तत्रेष्टिकाण्डे व्रातपत्येष्टेरूर्ध्वं राक्षोघ्नेष्टिरेवमाम्नायते —
‘अग्नये रक्षोघ्ने पुरोडाशमष्टाकपालं निर्वपेद्य रक्षासि सचेरन्नग्निमेव रक्षोहण स्वेन भागाधेयेनोप धावति स एवास्माद्रक्षास्यप हन्ति” [सं. का. २ प्र. २ अ. २] इति।
सचेरन्समवेयुर्बाधेरन्नित्यर्थः।
मध्यरात्रिकालं विधत्ते —
‘निशितायां निर्वपेन्निशिताया हि रक्षासि प्रेरते संप्रेर्णान्येवैनानि हन्ति’ (सं. का. २ प्र. २ अ. २) इति।
प्रेरते प्रकर्षेण चरन्ति। अतस्तस्यां वेलायां निर्वापेण प्रचारवन्त्येवैनानि रक्षांसि हन्ति।
यागभूमेः परितो वेष्टनं विधत्ते —
‘परिश्रिते याजयेद्रक्षसामानन्ववचाराय’ (सं. का. ६ प्र. २ अ. २) इति।
अनुप्रवेशाभावायेत्यर्थः।
रक्षोहणं वाजिनं वि ज्योतिषेत्येतौ मन्त्रौ विधत्ते —
‘रक्षोघ्नी याज्यानुवाक्ये भवतो रक्षसा स्तृत्यै’ (सं. का. ६ प्र. २ अ. २) इति।
हिंसार्थमित्यर्थः।
अस्यामिष्टौ कृणुष्व पाज इत्यनुवाकः कृत्स्नो विनियुक्तः। तस्मिन्नृचोष्टादश। तासु पञ्चदश सामिधेन्यः। एका पुरोनुवाक्या, द्वे याज्ये विकल्पिते।
तत्रेयं प्रथमा —
कृणुष्वेति। कृणुष्व कुरुष्व। पाजो बलम्। प्रसितिं न मृगबन्धनेहतुभूतपाश्यामिव पृथ्वीं प्रसारिताम्। अमवानमात्ययुक्तः। इभेन हस्तिना तृष्वीं शीघ्रगामिनीं प्रसितिं प्रकृष्टसेनां द्रूणानो हिंसन्। अस्ता क्षेप्ता धावयिता। रक्षसो रक्षसान्। तपिष्ठैरतिसंतापकैर्बाणैः। हेऽग्ने मृगबन्धनाय प्रसारितां पाश्यामिव रक्षोनिरोधाय प्रौढं बलं कुरु। अमात्ययुक्तो गजेन सहितो राजेव रक्षसामुपरि याहि। क्षिप्रगामिनीं परकीयसेनामनु पृष्ठतो गत्वा मारयन्नवशिष्टाया धावयिता भव। पलायमानानपि राक्षसान्बाणैस्तीक्ष्णैर्विध्य॥१॥
तव भ्रमास इति। भ्रमासो भ्रमणशालिनो विस्फुलिङ्गाः। असंदितोऽखण्डितः। [आशुया शीघ्रगामिनः(णः)। धृषता धार्ष्ट्येन। शोशुचानो भृशं दीप्यमानः। तपूंषि संतापान्। पतङ्गान्पतनशीलान्)। विसृज विशेषेणोत्पादय।
विष्वक्सर्वतः। उल्का महाज्वालाः। हेऽग्ने तव सबन्धिनो विस्फुलिङ्गाः शीघ्रगामिनः(णः) सर्वतः पतन्ति। त्वमपि भृशं दीप्यमानस्तैर्विस्फुलिङ्गैस्तानसुरान्धार्ष्ट्येनात्यन्तगाढमनु स्पृश। पुनरपि जुह्वा हुतेन हविषा त्वमविच्छिन्नः सन्संतापान्विस्फुलिङ्गान्महाज्वालाश्चासुरबाधनाय सर्वतो बाहुल्येनोत्पादय॥२॥
प्रति स्पश इति। स्पशः पाशान्। तूर्णितमोऽतित्वरितः। पायुः पालयिता। विशः प्रजायाः। अदब्धः केनाप्यहिंसितः। अघशंसो विचित्रवधकारी। अन्ति समीपे। माकिर्मा। व्यथिर्व्यथाकरी। आदधर्षीत्सर्वतो धृष्टो भवतु। हेऽग्ने चित्रवधकारी राक्षसो योऽस्माकं वैरी दूरे वर्तते, यश्चान्तिके वर्तते तं प्रति त्वमतित्वरितो बन्धनहेतून्पाशान्विविधान्सृज। केनाप्यहिंसितस्त्वमस्मदादिकाया अस्याः प्रजायाः पालको भव। कोऽपि व्यथयिता राक्षसस्ते समीपे सर्वत्र धृष्टो मा भवतु॥३॥
उदग्न इति। हेऽग्ने त्वमुत्तिष्ठ शत्रून्प्रति सर्वतः प्रवर्तस्व। हे तीक्ष्णायुध त्वमित्रान्नितरां दह। हे सामिध्यामान वह्ने योऽस्माकं शत्रुत्वं चक्रे तं नीचं कृत्वा शुष्कमतसमिव काष्ठमिव भस्मी कुरु॥४॥
ऊर्ध्व इति। हेऽग्ने त्वमूर्ध्वो भवोद्युक्तो भव। अस्मदधि अस्माकमुपरि ये शत्रवः संवृत्तास्तान्प्रति विध्य। हेऽग्ने दैव्यानि वीर्याण्याविष्कुरु। यातुजूनां यातुधानानां स्थिराणि वीर्याणि अवमतानि यथा भवन्ति तथा तनुहि कुरु। जामिः पुनः पुनस्ताडितः, अजामिरताडितस्तादृशान्सर्वान्प्रमृणीहि मारय॥ ५॥
स त इति। हे यविष्ठ युवतम यो यजमान ईवते स्वगृहं प्रति गमनवते ब्रह्मणे परिवृढाय तुभ्यं गातुं हविर्लक्षणमन्नमैरत्प्रददाति स एव यजमानस्त्वदनुग्रहयुक्तां सुमतिं जानाति। त्वमपि अर्यः स्वामी भूत्वा रायो धनानि द्युम्नानि यशांसि धुरो गृहांश्चाभिलक्ष्यास्मै यजमानाय विश्वानि सुदिनानि यथा भवन्ति तथा द्यौत्प्रकाशयानुगृहाण॥६॥
सेदग्न इति। हेऽग्ने यो यजमानः स्व आयुषि यावज्जीवं दुरोणे स्वगृहे नित्येन प्रतिदिनमनुष्ठेयेन हविषा त्वां पिप्रीषति प्रीणयितुमिच्छति यश्चोक्थैः शस्त्रैः पिप्रीषति स एव सुभगः सौभाग्यवान्सुदानुः शोभनदानवानप्यस्तु। अस्मै अस्य यजमानस्य सा सर्वाऽपीष्टिः सुदिनैवासद्भवति॥ ७॥
अथाष्टमी –
अर्चामीति। हेऽग्ने तव सुमितिमनुग्रहरूपामर्चामि मनसा पूजयामि। अर्वागर्वाचीनाऽपि घोषि घोषवतीयं स्तुतिरूपा मदीया गीर्वावाता पौनःपुन्येन प्रसृता ते त्वयि सम्यग्जरतां जीर्यतां त्वां विहायान्यत्र मा गच्छतु। वयं तु त्वत्प्रसादाच्छोभनैरश्वै रथैश्च युक्ताः सन्तस्त्वा मर्जयेम सेवेमहि। त्वमप्यनुद्यूननुदिनमस्मे अस्मासु क्षत्र्राणि सामर्थ्यानि धारयेर्धारय॥ ८॥
इह त्वेति। हेऽग्न इहास्मिँल्लोके श्रेयोर्थी पुरुषस्त्वामेव भूरि बाहुल्येन सर्वत उपचरेत्त्मन्नात्मनि स्वनिमित्तम्। कीदृशं त्वां, दोषावस्तर्दीदिवांसं रात्रिंदिवं दीप्यमानम्। कियन्तं कालमुपचारः, अनुद्यूननुदिनम्। तस्माद्वयं क्रीडन्तो हृष्टमनसस्त्वां सपेम संगच्छेम भजेम। किं कुर्वन्तः, जनानां मध्ये द्युम्नानि धनानि अभितस्थिवांसस्त्वत्प्रसादादधिष्ठितवन्तः॥९॥
यस्त्वेति। हेऽग्ने त्वत्प्रसादाच्छोभनैरश्वैः समीचीनेन हिरण्येन च युक्तो यो यजमानो हविःस्वरूपधनवता रथेन सह त्वामुपयाति तस्य त्वं त्राता भवसि। किंच यस्तवातिथिसत्कारमानुषक्प्रतिदिनं जुजोषत्प्रीतिपुरःसरं करोति तस्य त्वं सखिवत्स्वाधीनो भवति॥१०॥
अथैकादशी —
मह इति। हेऽग्ने बन्धुता त्वदीयेन बन्धुत्वेन महोऽसुराणां तेजोऽधिक्षेपरूपैर्वचोभिरेव रुजामि भञ्जयामि। तत्त्वदीयं बन्धुत्वं गोतमाद्गोतमसदृशादध्यापकात्पितुर्मामनुप्राप। हे होतर्देवानामाहा(हो)तर्यविष्ट युवतम सुक्रतो शोभनक्रतो याग-
निष्पादक दमूना दान्तमनास्त्वं नोऽस्मदीयस्य वचसोऽधीतवेदस्य रहस्यं चिकिद्धि जानासि॥११॥
अस्वप्नज इति। हेऽग्ने तव ते नः पान्तु त्वतीयास्तथाविधा रश्मयोऽस्मान्पालयन्तु। अमूरेत्यग्निविशेषणम्। मूर्मूर्छा तद्वान्मूरस्ततोऽन्यत्वादमूरस्तस्य संबोधनम्। कीदृशास्ते रश्मयः, स्वप्नजन्मानो मिथ्याभूता न भवन्तीति अस्वप्नजः। व्यत्ययेनैकवचनम्। तरणयो दुरितरूपं तमस्तारयन्ति। सुशेवाः सुखेन सेवितुं योग्याः। अतन्द्रासोऽप्रमत्ताः। अवृका अहिंसकाः। अश्रमिष्ठाः श्रमरहिताः। पायवः पालकाः। सध्रियञ्चः सह प्रवर्तमानाः। निषद्य यागप्रदेशे स्थित्वा॥१२॥
ये पायव इति। हेऽग्ने तव संबन्धिनः पालका ये रश्मयो ममताख्यायाः कस्याश्चिद्योषितोऽपत्यं क्वचिदन्धं पश्यन्तो दुरितादान्ध्यलक्षणादरक्षन्। इयं त्वाख्यायिका क्वापि ब्राह्मणान्तरे द्रष्टव्या। विश्वं वेत्तीति विश्ववेदाः। तादृशो भवान्सुकृतः सोभनकर्मकारिणस्तान्रश्मीन्रक्ष। ते रिपवो राक्षसास्तान्दिप्सन्त इदिव परिभवितुमिच्छन्तोऽपि ना(न) ह देभुर्नैव परिबभूवुः॥१३॥
त्वयेति। हेऽग्ने वयं तव प्रणीती प्रेरणया वाजानन्नान्पश्याम। कीदृशा वयं, त्वया सधन्याः। सह यज्ञकर्म नयन्तीति सधन्याः। त्वोतास्त्वया रक्षिताः। हे सत्यताते सत्यविस्तार, उभा शंसा त्वदग्नेऽस्माभिः शंसनीयावैहिकामुष्मिकौ पुरुषार्थावुभौ सूदय [क्षर देहि] हेऽह्रयाण भक्तानामलज्जाकरानुष्ठुया कृणुहि साधनानुष्ठापनेन तावुभौ कुरु॥१४॥
अयात इति। हेऽग्नेऽया समिधाऽनया सामिधेन्या ते त्वां विधेम परिचरेम। अस्माभिः शस्यमानं स्तोमं स्तोत्रं प्रतिगृभाय प्रतिगृहाण। अशसोऽप्रशस्तान्रक्षसो राक्षसान्दह। मित्रमुपकारकं महस्तेजो यस्यासौ मित्रमहा हे मित्रमहो द्रुहो वैरिकृतद्रोहान्निदो निन्दाया अवद्यादनुष्ठानदोषाच्चास्मान्पाहि॥१५॥
रक्षोहणमिति। रक्षसां हन्तारमन्नवन्तमग्निमाभिमुख्येन दीपयामि। जगतां मित्रं प्रथिष्ठं विस्तीर्णतमं शर्म शरणमुपयामि भजामि। एतदादिभिः ऋतुभिः समिद्धः संज्वलितः शिशानस्तीक्ष्णः सोऽग्निर्दिवा रिषो हिंसकादस्मान्पातु। स एव नक्तमपि पातु॥१६॥
वि ज्योतिषेति। अयमग्निर्बृहता ज्योतिषा विभाति। विश्वानि महित्वा माहात्म्येनाऽऽविष्कुरुते। अदेवीरासुरीर्दुरेवा दुरत्यया मायाः प्रसहते विनाशयति। रक्षसे राक्षसान्विनिक्षे विनाशयितुं शृङ्गे द्वे ज्वाले शिशीते तीक्ष्णी करोति॥१७॥
अथाष्टादशी। सा तु विकल्पिता याज्या —
उतेति। तिग्मं तीक्ष्णत्वमेवाऽऽयुधं येषां रश्मीनां ते तिग्मायुधास्ते तव स्वानासोऽनेन पुरोडाशेन ध्वनिं कुर्वन्तः। तादृशा अग्ने रश्मय उत दिवि षन्तु द्युलोकेऽपि प्रसरन्तु। किमर्थं, रक्षसे हन्तवा उ राक्षसान्हन्तुमेव। अस्याग्नेर्भामा भासो रश्मयो मदे चिदस्मद्धर्षायैव प्ररुजन्ति प्रतिपक्षिणो भञ्जन्ति। अदेवीरासुर्यः परिबाधः सर्वतः कृता बाधा न वरन्ते नैवास्मानावृण्वन्ति। अत्र षोडशी विकल्पिता सामिधेनी। उत्तरे याज्यानुवाक्ये इति केचित्। तथा वाऽस्तु॥१७॥
अत्र विनियोगसंग्रहः —
“कृणु राक्षोघ्नके यागे सामिधेन्यस्तु षोडश।
याज्यानुवाक्ये द्वे अष्टादश मन्त्रा इहेरिताः॥१॥” इति।
मीमांसा तु उभा वामिन्द्राग्नी इत्यत्रेव सर्वत्र याज्याकाण्डे योजनीया। छन्दोऽपि सर्वासामृचामत्र त्रिष्टुबेव॥
वेदार्थस्य प्रकाशेन तमो हार्दं निवारयन्।
पुमर्थांश्चतुरो देयाद्विद्यातीर्थमहेश्वरः॥१॥
—-----------------------------
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
अथ तृतीया - प्रतीति ॥ अग्न इति चतुर्थपादादिः, अत एव न निहन्यते । हे अग्ने नः अस्माकं यो दूरे स्थितः अघशंसः यो वा अन्ति अन्तिके । 'कादिलोपो बहुळम्' इति कलोपः । अघं पापात्मकं शंसनमभिलाषः कीर्तनं वा यस्य सोघशंसः, बधादिकारी, दुरुक्तवदी वोच्यते । तथा प्रतिस्पशः पाशान् विसृज विस्तारय पाशैस्तं बधानेत्यर्थः । स्पश ग्रहणशोषणयोः, करणे सम्पदादिलक्षणः क्विप् । यद्वा - स्पश बाधने, बाधकान्यायुधादीनि तं प्रति विसृज । तूर्णितमः त्वरिततमस्सन् । त्वरतेः क्तिनि निष्ठावद्भावेन निष्ठानत्वे 'ज्वरत्वरस्रव्यविमवामुपधायाश्च' इत्यूठ् । किञ्च - भव पायुः पालयिता अस्या विशः प्रजायाः । कस्याः? त्वामनुगतायाः अस्मदादिकायाः न पुनः प्रकृतायाः । अत एवान्वादेशाभावात् 'ऊडिदम्' इति विभक्तेरुदात्तत्वं प्रवर्तते । 'सावेकाचः' इति विशो विभक्तेरुदात्तत्वम् । 'द्व्यचोतस्तिङः' इति संहितायामाख्यातस्य दीर्घत्वम् । 'कृवापाजिमि' इत्युण्प्रत्ययः । अदब्धः अनुपहिंसितः केनापि । किञ्च - माकिः मा कश्चिदपि ते त्वामादधर्षीत् आधर्षयतु तव कश्चिदपि परिभवं माकार्षीदित्यर्थः । धृष प्रसहने चुरादिराधृषीयः द्विविकरणता, शपश्श्लुः, ततः परं सिच्, 'नेटि' इति वृद्धिप्रतिषेधः । सिच्येव वा व्यत्ययेन द्विर्वचनम् । व्यथिः व्यथयिता । व्यथेरन्तर्भावितण्यर्थात् 'इन् सर्वधातुभ्यः' इतीन् । ण्यन्तादेव वा 'अच इः' इतीप्रत्यये 'बहुळमन्यत्रापि संज्ञाच्छन्दसोः' इति णिलोपः । यथा - 'वर्धन्तु त्वा सुष्टुतयः' इति वृषादिर्द्रष्टव्यः । ते इति 'क्रियाग्रहणं कर्तव्यम्' इति सम्प्रदानत्वाच्चतुर्थी । 'चतुर्थ्यर्थे बहुळं छन्दसि' इति षष्ठी चतुर्थ्यर्थे वा । कर्मणि षष्ठी वा, तेव्यथिरिति सम्बन्धात् । 'युष्मत्तत्तक्षुष्वन्तः पादम्' इति ते इत्यस्मिन् परतः पूर्वस्य सकारस्य षत्वम् ॥
प्रथमकाण्डे द्वितीयप्रपाठकः समाप्तः ॥
—---------------------------------------