अनुवाकः 12 TS 1.2.12

(A12)

(नाम॑-सुप्रजा॒वनिः॒ स्वाहा॑ सिꣳ॒॒ह॑007आ;ः-पञ्च॑त्रिꣳशच्च )

अनुवाकः 12 - Complete Audio

TS 1.2.12 - स्वरानुगामी

0:00 0:00
PS1.1 वि॒त्ताय॑नी मेऽसि ति॒क्ताय॑नी मे॒ऽस्यव॑तान्मा
PS1.2 नाथि॒तमव॑तान्मा व्यथि॒तं ॅवि॒देर॒ग्निर्नभो॒ नामाग्ने॑
PS1.3 अङ्गिरो॒ यो᳚ऽस्यां पृ॑थि॒व्यामस्यायु॑षा॒ नाम्नेहि॒
PS1.4 यत्तेऽना॑धृष्टं॒ नाम॑ य॒ज्ञियं॒ तेन॒
PS1.5 त्वाऽऽ*द॒धेऽग्ने॑ अङ्गिरो॒ यो द्वि॒तीय॑स्यां
PS1.6 तृ॒तीय॑स्यां पृथि॒व्या-मस्यायु॑षा॒ नाम्नेहि॒ यत्तेऽना॑धृष्टं॒
PS1.7 नाम॑-[ ]
PS2.1 य॒ज्ञियं॒ तेन॒ त्वाऽऽ*द॑धे सिꣳ॒॒हीर॑सि
PS2.2 महि॒षीर॑स्यु॒रु प्र॑थस्वो॒रु ते॑ य॒ज्ञ्प॑तिः
PS2.3 प्रथतां ध्रु॒वाऽसि॑ दे॒वेभ्यः॑ शुन्धस्व
PS2.4 दे॒वेभ्यः॑ शुंभस्वेन्द्रघो॒षस्त्वा॒ वसु॑भिः पु॒रस्ता᳚त्
PS2.5 पातु॒ मनो॑जवास्त्वा पि॒तृभि॑र् दक्षिण॒तः
PS2.6 पा॑तु॒ प्रचे॑तास्त्वा रु॒द्रैः प॒श्चात्
PS2.7 पा॑तु वि॒श्वक॑र्मा त्वाऽऽदि॒त्यैरु॑त्तर॒तः पा॑तु॒
PS2.8 सिꣳ॒॒हीर॑सि सपत्नसा॒ही स्वाहा॑ सिꣳ॒॒हीर॑सि
PS2.9 सुप्रजा॒वनिः॒ स्वाहा॑ सिꣳ॒॒ही-[ ]
PS3.1 र॑सि रायस्पोष॒वनिः॒ स्वाहा॑ सिꣳ॒॒हीर॑स्यादित्य॒वनिः॒
PS3.2 स्वाहा॑ सिꣳ॒॒हीर॒स्या व॑ह दे॒वान्दे॑वय॒ते
PS3.3 यज॑मानाय॒ स्वाहा॑ भू॒तेभ्य॑स्त्वा वि॒श्वायु॑रसि
PS3.4 पृथि॒वीं दृꣳ॑ह ध्रुव॒क्षिद॑स्य॒न्तरि॑क्षं दृꣳहाच्युत॒क्षिद॑सि॒
PS3.5 दिवं॑ दृꣳहा॒ग्नेर् भस्मा᳚स्य॒ग्नेः पुरी॑षमसि

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 1.2.12.1 TS 1.2.12.1
वि॒त्ताय॑नी मेऽसि ति॒क्ताय॑नी मे॒ऽस्यव॑तान्मा नाथि॒तमव॑तान्मा व्यथि॒तं ॅवि॒देर॒ग्निर्नभो॒ नामाग्ने॑ अङ्गिरो॒ यो᳚ऽस्यां पृ॑थि॒व्यामस्यायु॑षा॒ नाम्नेहि॒ यत्तेऽना॑धृष्टं॒ नाम॑ य॒ज्ञियं॒ तेन॒ त्वाऽऽ*द॒धेऽग्ने॑ अङ्गिरो॒ यो द्वि॒तीय॑स्यां तृ॒तीय॑स्यां पृथि॒व्या-मस्यायु॑षा॒ नाम्नेहि॒ यत्तेऽना॑धृष्टं॒ नाम॑-[ ]
पदपाठः (Word-by-word)
वि॒त्ताय॒नीति॑ वित्त - अय॑नी । मे॒ । अ॒सि॒ । ति॒क्ताय॒नीति॑ तिक्त - अय॑नी । मे॒ । अ॒सि॒ । अव॑तात् । मा॒ । ना॒थि॒तम् । अव॑तात् । मा॒ । व्य॒थि॒तम् । वि॒देः । अ॒ग्निः । नभः॑ । नाम॑ । अग्ने᳚ । अ॒ङ्गि॒रः॒ । यः । अ॒स्याम् । पृ॒थि॒व्याम् । असि॑ । आयु॑षा । नाम्ना᳚ । एति॑ । इ॒हि॒ । यत् । ते॒ । अना॑धृष्ट॒मित्यना᳚ - धृ॒ष्ट॒म् । नाम॑ । य॒ज्ञिय᳚म् । तेन॑ । त्वा॒ । एति॑ । द॒धे॒ । अग्ने᳚ । अ॒ङ्गि॒रः॒ । यः । द्वि॒तीय॑स्याम् । तृ॒तीय॑स्याम् । पृ॒थि॒व्याम् । असि॑ । आयु॑षा । नाम्ना᳚ । एति॑ । इ॒हि॒ । यत् । ते॒ । अना॑धृष्ट॒मित्यना᳚ - धृ॒ष्ट॒म् । नाम॑ ।
पदसंख्या: 50
सायणभाष्यम् (Sayana Commentary)

(अथ प्रथमाष्टके द्वितीयप्रपाठके द्वादशोऽनुवाकः)।

एकादशेऽनुवाक उपसदोऽभिहिताः। तत्र मध्यमोपसद्दिने षट्त्रिंशत्पदपरिमितो योऽयं वेदिप्रदेशः स्वीकृतस्तस्य पूर्वभाग उत्तरवेदिर्द्वादशेऽनुवाकेऽभिधीयते।

वित्तायनीति। बौधायनः — ‘उत्तरेण वेदिं द्वयोर्वा त्रिषु वा प्रक्रमेषु स्फ्येनोद्धत्यावोक्ष्य शम्यया चात्वालं परिमिमीते वित्तायनी मेऽसीति पुरस्तादुदीचीनकुम्बयाऽन्तरितस्फ्येनोल्लिखति, तिक्तायनी मेऽसीति दक्षिणतः प्राक्कुम्बयाऽन्तरितस्फ्येनोल्लिखति, अवतान्मा नाथितमिति पश्चादुदीचीनकुम्बयाऽन्तरितस्फ्येनोल्लिखति, अवतान्मा व्यथितमित्युत्तरतः प्राचीनकुम्बयाऽन्तरितस्फ्येनोल्लिखति’ इति।

आपस्तम्बः — ‘अपरेण यूपावटदेशं संचरमवशिष्य वेद्यामुत्तरवदिं दशपदां सोमे करोत्यंहीयसीं पुरस्तादित्येके तां युगेन यजमानस्य वा पदैर्विभाय शम्यया परिमिमीते शम्यामात्री निरूढपशुबन्धस्योत्तरवेदिः शम्यां पुरस्तादुदगग्रां निधाय स्फ्येनोदीचीमभ्यन्तरमुपलिखति वित्तायनी मेऽसीत्येवं दक्षिणतः प्राचीं तिक्तायनी मेऽसीति पश्चादुदीचीमवतान्मा नाथितमित्युतरतः प्राचीमवतान्मा व्यथितमित्युतरस्माद्वेद्यंसादुदक्प्रक्रमे चात्वालस्तमुत्तरवेदिवत्तूष्णीं शम्यया परिमित्य’ इति।

अत्रोत्तरवेदेर्द्वावाकारौ महावेद्याः प्राग्भागे मृत्तिकाप्रक्षेपेण निष्पाद्यमान एक आकारः। आपस्तम्बमते तद्विषया मन्त्रा उक्ताः। मृत्तिका चात्वालगतेति तद्रूपोऽपर आकारः। तद्विषया बौधायनमते मन्त्राः। हे उत्तरवेदे त्वं मम वित्तायनी वह्निरूपस्य वित्तस्य प्रापिकाऽसि। तिक्तस्य वह्नितेजसो ज्वालारूपस्य प्रापिकाऽसि। नाथितं वह्नियाचकं मामवतात्, रक्ष। व्यथितं वह्न्यलाभाद्भीतं मां रक्ष।

मन्त्रान्व्याचिख्यासुः शम्यया वेदिपरिमाणं विधातुमाख्यायिकया वेदिं प्रस्तुवन्प्रसङ्गाद्व्याघारणमभिधत्ते —

“तेभ्य उत्तरवेदिः सिही रूपं कृत्वोभयानन्तरराऽपक्रम्यातिष्ठत्ते देवा अमन्यन्त यतरान्वा इयमुपावर्त्स्यति त इदं भविष्यन्तीति। तामुपामन्त्रयन्त साऽब्रवीद्वरं वृणै सर्वान्मया कामान्व्यश्नवथ पूर्वां तु माऽग्नेराहुतिरश्नवता इति तस्मादुत्तरवेदिं पूर्वामग्नेर्व्याघारयन्ति वारेवृत ह्यस्यौ” (सं. का. ६ प्र. २ अ. ७) इति।

अत्रोभयोरन्तरेणेत्यभिधानात्तेभ्यो देवासुरेभ्य इति लभ्यते। ते देवास्तामुपामन्त्रयन्त प्रार्थितवन्तः। मया मदनुग्रहेण भ्रातृव्याभिभवात्सर्वान्कामान्यूयं व्यश्नवथ विशेषेण प्राप्स्यथ। तदर्थं त्वाद्याऽऽहुतिर्व्याघारणरूपा युष्माभिर्हुता प्रणेष्यमाणादग्नेः पूर्वभाविनीं मां व्यश्नवदै विशेषेण व्याप्नोतु मामेवोद्दिश्य हूयताम्। सोऽयं वरः। यस्माद्वरो वृतस्तस्मात्तथा व्याघारयेयुः। तत्प्रकरस्तु सिहीरसि महिषीरसीत्यादिमन्त्रव्याख्यानावसरे वक्ष्यते।

विधत्ते —

“शम्यया परि मिमीते मात्रैवास्यै साऽथो युक्तेनैव युक्तमव रुन्धे” (सं. का. ६ प्र. २ अ. ७) इति।

गदया सदृशी बाहुपरिमिता शम्या तया चतुर्दिक्षूत्तरवेदिं परिमिमीते। अस्या उत्तरवेदेः सेयं भूमिः शम्यया निर्णीता मात्रैव न न्यूना ग्रहचमसादिप्रचारस्य पर्याप्तत्वात्। नाप्यधिका यथोक्तप्रचारानुपयुक्तभागस्याभावात्। किंच युक्तेनैव योग्येनैवोत्तरवेदिप्रमाणेन योग्यफलं प्राप्नोति।

मन्त्रान्व्याचष्टे —

“वित्तायनी मेऽसीत्याह वित्ता ह्येनानावत्तिक्तायनी मेऽसीत्याह तिक्तान्ह्येनानावदतान्मा नाथितमित्याह नाथितान्ह्येनानावदवतान्मा व्यथितमित्याह व्यथितान्ह्येनानावत्” (सं. का. ६ प्र. २ अ. ७) इति।

वित्तं वह्निरूपम्। वित्तार्थिन एतान्यज्ञक्रतून्वह्निप्रापणेनेयमुत्तरवेदिररक्षत्। तिक्तं वह्निज्वालारूपं तेजनं तदर्थिन एतान्यागकर्तॄन्।

विदेरग्निरिति। बौधायनः — “अथ चात्वाले बर्हिर्निधाय तस्मिन्स्फ्येन प्रहरति विदेरग्निर्नभो नामाग्ने अङ्गिरो योऽस्यां पृथिव्यामस्यायुषा नाम्नेहीति तद्धृत्वोत्तरवेद्यां निवपति यतेनाऽधृष्टं नाम यज्ञियं तेन त्वाऽदध इति” इति।

आपस्तम्बस्त्वेकमन्त्रतामाह —

“तूष्णीं जानुदघ्नं त्रिवितस्तिं वा खात्वोत्तरवेद्यर्थान्पांसून्हरति विदेरग्निरिति” इति।

विदेरुत्तरवेदेः संबन्धी योऽग्निस्तस्य नभ इत्येतन्नाम। अङ्गानां रस इत्यङ्गिरःशब्दस्य निर्वचनम्।

तथा च च्छन्दोगाः प्राणोपास्तावामनन्ति – “एतमु एवाङ्गिरसं मन्यन्तेऽङ्गानां यद्रसस्तेन” इति।

वाजसनेयिनोऽप्यधीयते — “यं (?) अङ्गिरसोऽङ्गानां रसः” इति।

अयं चाग्निः सोमाहुत्याधारत्वाद्गार्हपत्यदक्षिणाग्न्यादीनां मध्ये सारः। हेऽङ्गिरो यस्त्वमस्यां चात्वालगतमृद्रूपायां पृथिव्यामसि वर्तसे स त्वमायुष्प्रदेन नभोनाम्ना सहित एहि उत्तरवेद्यामागच्छ। यत्तवानाधृष्टं केनाप्यतिरस्कृतं नाम यज्ञसंबद्धं तेन नाम्ना व्यवहृत्य त्वामुत्तरवेद्यामादधे।

अग्ने अङ्गिर इति। बौधायनः – “द्वितीयं प्रहरति विदेरग्निर्नभो नामाग्ने अङ्गिरो यो द्वितीयस्यां पृथिव्यामसीत्यादत्ते आयुषा नाम्नेहीति हृत्वोत्तरवेद्यां निवपति यत्तेऽनाधृष्टं नाम यज्ञियं तेन त्वाऽऽदध इति, तृतीयं प्रहरति विदेरग्निर्नभो नामाग्ने अङ्गिरो यस्तृतीयस्यां पृथिव्यामसीत्यादत्ते — आयुषा नाम्नेहीति हृत्वोत्तरवेद्यां निवपति यत्तेऽनाधृष्टं नाम यज्ञियं तेन त्वाऽऽदध इति, तूष्णीं चतुर्थं हरति सह बर्हिषा” इति।

आपस्तम्बः — “एतेनैव यो द्वितीयस्यामिति द्वितीयं यस्तृतीयस्यामिति तृतीयं तूष्णीं चतुर्थं हरति” इति।

अत्राग्ने अङ्गिरो यो द्वितीयस्यामित्याम्नातो द्वितीयमन्त्रस्तस्याऽऽदौ विदेरित्यादिरनुषज्यते। अवसाने च पृथिव्यामित्यादिरनुषज्यते। तृतीयस्यामित्यादिश्चरम

मन्त्रस्तस्य विदेरित्यादिरेवानुषज्यते। चात्वालस्थितायाः पृथिव्या अंशभेदेन द्वितीयत्वं तृतीयत्वं च द्रष्टव्यम्।

विधत्ते —

‘विदेरग्निर्नभो नामाग्ने अङ्गिर इति त्रिर्हरति य एवैषु लोकेष्वग्नयस्तानेवाव रुन्धे तूष्णीं चतुर्थं हरत्यनिरुक्तमेवाव रुन्धे” (सं. का. ६ प्र. २ अ. ७) इति।

लोकत्रयवर्तिनां त्रयाणामग्नीनामवरोधाय त्रिर्हरणमेतल्लोकवर्तीति निश्चित्य वक्तुमशक्यत्वेनानिरुक्तस्याग्निसामान्यस्यावरोधाय तूष्णीं हरणम्।

सिहीरिति। बौधायनः – ‘अथाध्वर्युरुत्तरवेद्यै पुरीषं संप्रयौति सिहीरसि महिषीरसीति’ इति।

संप्रयौति मिश्रयति।

आपस्तम्बः — ‘सिहीरसीत्युत्तरवेद्यां निवपति’ इति।

वेदेः सिंहमृगत्वं दर्शयति —

‘सिहीरसि महिषीरसीत्याह सिहीर्ह्येषा रूपं कृत्वोभयानन्तराऽपक्रम्यातिष्ठत्’ (सं. का. ६ प्र. २ अ. ७) इति।

महिषीर्महनीया। ब्राह्मणान्तरे वा महिषीजातित्वं द्रष्टव्यम्।

उर्विति। कल्पः — ‘उरु प्रथस्वोरु ते यज्ञपतिः प्रथतामिति प्रथयित्वा ध्रुवाऽसीति शम्यया संहत्य देवेभ्यः शुन्धस्वेत्यद्भिः प्रोक्ष्य देवेभ्यः शुम्भस्वेति सिकताभिरवकीर्य’ इति।

प्रथस्व प्रसर। ध्रुवा दृढा। शुन्धस्व शुद्धा भव। शुम्भस्व शोभिता भव।

व्याचक्षाणं क्रमेण विधत्ते —

“उरु प्रथस्वोरु ते यज्ञपतिः प्रथतामित्याह यजमानमेव प्रजया पशुभिः प्रथयति ध्रुवाऽसीति सहन्ति धृत्यै देवेभ्यः शुन्धस्व देवभ्यः शुम्भस्वेत्यव चोक्षति प्र च किरति शुद्ध्यै’ (सं. का. ६ प्र. २ अ. ७) इति।

इन्द्रघोष इति। कल्पः — प्रोक्षणीभिरुत्तरवेदिं प्रोक्षति। इन्द्रघोषस्त्वा वसुभिः पुरस्तात्पात्विति पुरस्तान्मनोजवास्त्वा पितृभिर्दक्षिणतः पात्विति दक्षिणतः प्रचे-

तास्त्वा रुद्रैः पश्चात्पात्विति पश्चाद्विश्वकर्मा त्वाऽऽदित्यैरुत्तरतः पात्वित्युत्तरतः’ इति।

इन्द्रघोषादिनामका देवाः परिवृढास्तदनुचरा वस्वादिगणास्तैर्गणैः सहितास्ते देवाः पान्तु।

पुरस्तादित्यादिदिग्वाचकशब्दप्रयोगेण दिग्देवतातुष्टिकरं प्रोक्षणमित्याह —

‘इन्द्रघोषस्त्वा वसुभिः पुरस्तात्पात्वित्याह दिग्भ्य एवैनां प्रोक्षति’ (सं. का. ६ प्र. २ अ. ७) इति।

प्रोक्षणं विधातुं प्रस्तौति —

देवा श्चेदुत्तरवेदिरुपावर्तीहैव वि जयामहा इत्यसुरा वज्रमुद्यत्य देवानभ्यायन्त तानिन्द्रघोषो वसुभिः पुरस्तादपानुदत मनोजवाः पितृभिर्दक्षिणतः प्रचेता रुद्रैः पश्चाद्विश्वकर्माऽऽदित्यैरुत्तरतः’ (सं. का. ६ प्र. २ अ. ७) इति।

अपक्रम्य देवासुरसेनयोर्मध्ये तिष्ठन्तीमुत्तरवेदिं यदा देवा उपामन्त्रयन्त तदानीमसुरा एवमचिन्तयन्। यद्येषा देवानुपावर्तेत तदा त एव विजयेरन्। तस्मादिहैवेदानीमेव तदुपावर्तनात्प्रागेव देवान्विजयामह इति विचिन्त्य वज्रमुद्यत्य देवानभिलक्ष्य प्रहर्तुमागताः। तानसुरानिन्द्रघोषादयो दिग्भ्योऽपाकुर्वन्।

विधत्ते —

‘यदेवमुत्तरवेदिं प्रोक्षति दिग्म्य एव तद्यजमानो भ्रातृव्यान्प्र णुदते’ (सं. का. ६ प्र. २ अ. ७) इति।

प्रोक्षणशेषस्य निनयनं विधत्ते —

इन्द्रो यतीन्त्सालावृकेभ्यः प्रायच्छत्तान्दक्षिणत उत्तरवेद्या आदन्यत्प्रोक्षणीनामुच्छिष्येत तद्दक्षिणत उत्तरवेद्यै नि नयेद्यदेव तत्र क्रूरं तत्तेन शमयति’ (सं. का. ६ प्र. २ अ. ७) इति।

(इन्द्रो) यतयो देवान्हन्तुं सर्वदा प्रयतमाना उत्तमाश्रयेण प्रच्छन्नवेषा असुरास्तान्हत्वा सालावृकेभ्यः श्वभ्यो दत्तवान्।

निनयनकाले ध्यानं विधत्ते —

‘यं द्विष्यात्तं ध्यायेच्छुचैवैनमर्पयति’ (सं. का. ६ प्र. २ अ. ७) इति।

शुचा शोकेनार्पयति योजयति।

सिहीरसीति। कल्पः — ‘अथैनां हिरण्यमन्तर्धायाक्ष्णया पञ्चगृहीतेन व्याघारयति सिहीरसि सपत्नसाही स्वाहेति दक्षिणेऽसे, सिहीरसि सुप्रजावनिः स्वाहेत्युत्तरस्यां श्रोण्यां, सिहीरसि रायस्पोषवनिः स्वाहेति दक्षिणस्यां श्रोण्यां, सिहीरस्यादित्यवनिः स्वाहेति उत्तरेंऽसे सिहीरस्या वह देवान्देवयते यजमानाय स्वाहेति मध्ये’ इति।

हे उत्तरवेदे त्वं सिंहरूपधारिण्यसि। सपत्नसाही वैरिघातिनी। सुप्रजावनिः शोभनापत्यभृत्यप्रदा। रायस्पोषवनिः पश्वादिधनसमृद्धिदा। आदित्यवनिर्भूतिसंबन्धिप्रतिष्ठाप्रदा। देवयते देवानिच्छते यजमानाय तवेदं हुतमस्तु।

उत्तरवेदेर्वरवाक्यमनुसृत्यैकैकं काममेकैकाहुत्या प्राप्नुवन्नित्येतं मन्त्रसूचितमर्थं दर्शयति —

‘सोत्तरवेदिरब्रवीत्सर्वान्मया कामान्व्यश्नवथेति ते देवा अकामयन्तासुरान्भ्रातृव्यानभि भवेमेति तेऽजुहवुः सिहीरसि सपत्नसाही स्वाहेति तेऽसुरान्भ्रातृव्यानभ्यभवन्तेऽसुरान्भ्रातृव्यानभिभूयाकामयन्त प्रजां विन्देमहीति देऽजुहवुः सिहीरसि सुप्रजावनिः स्वाहेति ते प्रजामविन्दन्त ते प्रजां वित्त्वाऽकामयन्त पशून्विन्देमहीति तेजऽजुहवुः सिहीरसि रायस्पोषवनिः स्वाहेति ते पशूनविन्दन्त ते पशून्वित्त्वाऽकामयन्त प्रतिष्ठां विन्देमहीति तेऽजुहवुः सिहीरस्यादित्यवनिः स्वाहेति त इमां प्रतिष्ठामविन्दन्त त इमां प्रतिष्ठां वित्त्वाऽकामयन्त देवता आशिष उपेयामेति तेऽजुहवुः सिहीरस्या वह देवान्देवयते यजमानाय स्वाहेति ते देवता आशिष उपाऽयन्’ (सं. का. ६ प्र. २ अ. ८) इति।

आशिष इष्यमाणा हविःस्वीकारिणीर्देवता उपेयाम प्राप्नुयामेति कामयमाना यष्टारस्ते देवाश्चरमाहुत्या तथैव प्राप्नुवन्। कर्मफलानि वाऽत्राऽशीः शब्देनोच्यन्ते।

आहुतिसंख्यां विधत्ते —

‘पञ्च कृत्वो व्याघारयति पञ्चाक्षरा पङ्क्तिः पाङ्क्तो यज्ञो यज्ञमेवाव रुन्धे’ (सं. का. ६ प्र. २ अ. ८) इति।

गुणं विधत्ते —

‘अक्ष्णया व्याघारयति तस्मादक्ष्णया पशवोऽङ्गानि प्र हरन्ति प्रतिष्ठित्यै’ (सं. का. ६ प्र. २ अ. ८) इति।

अक्ष्णया वक्रगत्या। दक्षिणेंऽस उत्तरश्रोणिरित्यादिका वक्रगतिः। पशवः शयनकाले पादाद्यङ्गानि वक्रत्वेन प्रहरन्ति संकोचयन्ति। अत आहुतिवक्रत्वं प्रतिष्ठित्यै भवति।

भूतेभ्य इति। कल्पः — ‘भूतेभ्यस्त्वेति स्रुचमुद्गृह्य’ इति।

हे जुहूस्त्वां भूतेभ्यश्चिरंतनेभ्यो देवेभ्य उद्गृह्णामि।

विधत्ते —

“भूतेभ्यस्त्वेति स्रुचमुद्गृह्णाति य एव देवा भूतास्तेषां तद्भागधेयं तानेव तेन प्रीणाति” (सं. का. ६ प्र. २ अ. ८) इति।

भूतोद्देशेन स्रुगुद्ग्रहणे सत्कृताः सन्तः प्रीयन्ते।

विश्वायुरिति। कल्पः — ‘अथ पौतुद्रवान्परिदधाति। विश्वायुरसि पृथिवीं दृहेति मध्यमं, ध्रुवक्षिदस्यन्तरिक्षं दृहेति दक्षिणम्, अच्चुतक्षिदसि दिवं दृहेत्युत्तरम्’ इति।

हे मध्यमपरिधे त्वं कृत्स्नायुःप्रदोऽसि। पृथिवीं दृढां कुरु। हे दक्षिणपरिधे त्वं स्थिरनिवासोऽसि। हे उत्तरपरिधे त्वमविनष्टनिवासोऽसि।

विधत्ते —

‘पौतुद्रवान्परिधीन्परि दधात्येषां लोकानां विधृत्यै’ (सं. का. ६ प्र. २ अ. ८) इति।

परिधित्रयेण त्रयो लोका विधृता भवन्ति। पूतुद्रुर्देवदारुः।

अग्नेरिति। कल्पः — ‘अथातिशिष्टान्संभारान्निवपति गुल्गुलु सुगन्धितेजनं शुक्लामूर्णास्तुकामग्नेर्भस्मास्यग्नेः पुरीषमसीति’ इति।

हे संभारस्वरूप त्वमग्नेर्भासकं पूरकं चासि।

संभारान्विधातुं प्रस्तौति —

‘अग्नेस्त्रयो ज्यायासो भ्रातर आसन्ते देवेभ्यो हव्यं वहन्तः प्रामीयन्त सोऽग्निरबिभेदित्थं वाव स्य आर्तिमाऽरिष्यतीति स निलायत स यां वनस्पतिष्ववसत्तां पूतुद्रौ यामोषधीषु ता सुगन्धितेजने यां पशुषु तां पेत्वस्यान्तरा शृङ्गे तं देवताः प्रैषमैच्छन्तमन्वविन्दन्तमब्रुवन्नुप न आ वर्तस्व हव्यं नो वहेति सोऽब्रवीद्वरं वृणै यदेव गृहीतस्याहुतस्य बहिःपरिधि स्कन्दात्तन्मे भ्रातृणां भागधेयमसदिति तस्माद्यद्गृहीतस्याहुतस्य वहिःपरिधि स्कन्दति तेषां तद्भागधेयं तानेव तेन प्रीणाति सोऽमन्यतास्थन्वन्तो मे पूर्वे भ्रातरः प्रामेषतास्थानि शातया इति

स यान्यस्थान्यशातयत तत्पूतुद्र्वभवद्यन्मा समुपभृतं तद्गुल्गुलु” (सं. का. ६ प्र. २ अ. ८) इति।

भ्रातरो हविर्वहनप्रयासेन यथा मृता इत्थमेव सोऽन्योऽपि मृतिं प्राप्स्यतीति भीतोऽग्निर्निरूढो वनस्पत्योषधिपशुष्वेकैकां रात्रिमवसत्। देवदारुवृक्षे सुगन्धयुक्ततृणे पेत्वस्य मेषस्य शृङ्गयोर्मध्ये च क्रमेण तं वसन्तं देवा हविर्वहने प्रेरयितुमैच्छन् तमन्विष्यालभन्त। स्रुगुद्गृहीतस्य हविषो यल्लेशरूपं होमात्पूर्वं परिधिभ्यो बहिर्हविः स्कन्देत्स भ्रातृभागोऽस्त्वित्यग्नेर्वरः। अस्थन्वन्तस्त्वगस्थिमांसोपेताः प्रामेषत मृतास्तदीयान्यस्थीनि मांसानि च शातयै परित्यजानि। परित्यक्तानि तानि पूतुद्रु गुल्गुल्वभवताम्।

विधत्ते —

“यदेतान्त्संभारान्त्संभरत्यग्निमेव तत्सं भरति” (सं. का. ६ प्र. २ अ. ८) इति।

मन्त्रगतेन पुरीषशब्देन संभाररूपं वह्निपूरणं विवक्षितमित्याह —

‘अग्नेः पुरीषमसीत्याहाग्नेर्ह्येतत्पुरीषं यत्संभाराः’ (सं. का. ६ प्र. २ अ. ८) इति।

गुल्गुलुसुगन्धितेजनशुक्लोर्णास्तुकाः संभाराः।

किंच देवदारुपरिधिरूपेण वह्निना भ्रातरोऽस्य संनिधीयन्त इत्याह —

‘अथो स्वल्वाहुरेते वावैनं ते भ्रातरः परि शेरे यत्पौतुद्रवाः परिधय इति’ (सं. का. ६ प्र. २ अ. ८) इति।

एवमग्निं परितः शेरते।

अथ विनियोमसंग्रहः –

“वित्तोत्तराख्यवेद्यर्थं चतुर्भिः परितो लिखेत्।

विदेस्त्रिभिर्हरेत्पांसून्सिंहीर्वेद्यां विनिक्षिपेत्॥१॥

उरु प्रथयते वेदिं ध्रुवा संहत्य शम्यया।

देवे प्रोक्ष्य तथा देवे सिकताऽत्रावकीर्यते॥२॥

इन्द्र प्रोक्ष्य चतुर्दिक्षु सिंहीरंसद्वये तथा।

श्रोणिद्वये च मध्ये च व्याघारयति पञ्चभिः॥३॥

भूतेभ्यः स्रुचमुद्गृह्य विश्वा परिधयस्त्रयः।

अग्नेः संस्थाप्य संभारान्मन्त्राः षड्विंशतिर्मताः॥४॥” इति।

नात्र विशेषमीमांसा। नापि च्छन्दः॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये प्रथमकाण्डे द्वितीयप्रपाठके द्वादशोऽनुवाकः॥१२॥
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 शम्यया चात्वालं परिमिमीते - वित्तायनीति ॥ शम्यया परिमीयमाणा भूमिरुच्यते । वित्तं धनमग्निलक्षणम्, तस्यायनी प्रापणी त्वमसि । एतेः करणे ल्युट् । ममाग्निप्राप्तिहेतुस्त्वमसि ॥
2 दक्षिणतो मिमीते - तिक्तायनीति ॥ तिक्तं तेजः । तिज निशातने । अग्निलक्षणस्य तेजसो मे प्रापण्यसि ॥
3 पश्चान्मिमीते - अवतादिति ॥ अवतात् रक्षतात् तर्पयताद्वा । मां नाथितम् । कर्तरि निष्ठा । नाथमानमग्निं याचमानं तत्प्रदानेनावतात् ॥

उत्तरतो मिमीते - अवतादिति ॥ अवताद्रक्षतात् मा व्यथितं भीतम्, किमत्राग्निर्लभ्यते उत न लभ्यत इति संशयेन भीतं चकितं वाग्निप्रदानेन रक्षतु ॥

5 चात्वालस्थे बर्हिषि स्फ्येन प्रहरति - विदेरिति ॥ हे अग्ने अङ्गिरः अङ्गनादिगुणयुक्त । अङ्गेरसुनि इरुरागमः । यस्त्वमस्यां पृथिव्यामसि वर्तसे स त्वं विदेः वेदितुमर्हसि । कथं? नभो नामाग्निरहमिति । यद्वा - नभोनामाग्निस्त्वमसि, एतद्वेदितुमर्हसि । वेत्तेर्लिङि विकरणव्यत्ययेन शः । एवंनामानमग्निं यागसिद्ध्यर्थमादातुं स्फ्येन बर्हिषि प्रहरामि, तस्मात्तन्नामाहमिति यत्ते वेदनं प्रयोजनवदेवेति अवश्यं त्वमेवं वेदितुमर्हसीत्यर्थः । नभनान्नभः । तत्र पुरीषनद्धोग्निर्नभ इत्येके । लोकत्रयनद्धस्सूक्ष्मोग्निरित्यपरे । पुरीषादाने पृथिवीस्थस्य तस्याग्नेरादानं भवतीति तदर्थं मया स्फ्येन बर्हिषि प्रहारः क्रियत इति ॥
6 पुरीषमादत्ते - आयुषेति ॥ हे अग्रे पार्थिव आयुषाऽस्मभ्यं देयस्यायुषस्साधनेन नाम्ना नभ इत्यनेन त्वया विदितेनोपलक्षितः एहि आगच्छ, त्वामहं ग्रहीतुमारभ इति ॥
7 -9उत्तरवेद्यां निवपति - यत्त इति ॥ हे अग्ने यत्ते तव अनाधृष्टमनभिभूतं केनचिदपि राक्षसादिना, यज्ञियं यज्ञार्हं यज्ञसम्पादनसमर्थं नाम नभ इत्येतत् । तेन त्वामादधे स्थापयामि । उत्तरवेद्यामाहवनीयधारणार्थं पुरीषात्मना त्वयैवायं धारयितुं शक्यते न हि त्वदन्यस्तद्धारयितुं समर्थः । तस्मादेतन्नाम बिभ्रदुत्तरवेद्यामात्मनो महिमानमाहवनीयं धारयितुं सन्निहितो भूत्वा यज्ञं सम्पादयेति भावः । एवं द्वितीयं तृतीयं च करोति । विदेरग्निर्नभो नामेत्यादिकं सर्वत्रानुवर्तते । अयं तु विशेषः, द्वितीयपर्याये 'अग्ने अङ्गिरो यो द्वितीयस्यां पृथिव्यामसि' इति भवति । द्वितीया पृथिवी अन्तरिक्षम् । तृतीये तु, 'अग्रे अङ्गिरो यस्तृतीयस्यां पृथिव्यामसि' इति । तृतीया पृथिवी द्युलोकः पृथुत्वात्पृथिवी । समानमन्यत् । 'विदेरग्निर्नभो नामाग्ने अङ्गिर इति त्रिर्हरति' इति ब्राह्मणम् ॥
10 पुरीषं सम्प्रयौति - सिंहीरिति ॥ हे उत्तरवेदे सिंहीरसि सहनात्सिंही शत्रूणामभिभवित्रीति । हिनस्तेर्वाद्यन्तविपर्ययः । सिंहीरूपं कृत्वा वासिंही । ब्राह्मणं च भवति - 'तेभ्य उत्तरवेदिस्सिंहीरूपं कृत्वा' इत्यादि । व्यत्ययेन 'हल्ङ्याभ्यः' इति सुलोपो न प्रवर्तते । किञ्च - महिषीरसि महती महनीया वा । 'अविमह्योष्टिषच्' । महति वा यागे सीदतीति महिषी । पृषोदरादिः, पूर्ववत्सुलोपाभावः । यस्मादीदृशी त्वमसि, तस्मात्त्रिलोकाग्निभिः पुरीषरूपैस्त्वां सम्प्रयौमीति ॥
11 प्रथयति - उर्वीति ॥ व्याख्यातम् ॥
12 स्फ्येन दृढीकरोति - ध्रुवसीति ॥ ध्रुवा निश्चलासि भवेत्यर्थः । लेटि लोपाभावे रूपम् ॥
13 अद्भिरवोक्षति - देवेभ्य इति ॥ देवार्थं शुन्धस्व शुद्धा भव । शुन्ध शौचकर्मणि, चुरादिराधृषीयः ॥
14 सिकताभिरनुप्रकिरति - देवेभ्य इति ॥ देवार्थं शुम्भस्व शोभस्व उज्ज्वला भव । शुभ शुम्भ शोभनार्थे ॥
15 उत्तरवेदेः प्राग्भागं प्रोक्षति - इन्द्रघोष इति ॥ इन्द्रस्य घोष इन्द्रघोषः स्तनयित्नुः स वसुभिस्सह त्वां पुरस्तात्पूर्वस्यां दिशि पातु रक्षतु । अनेन प्रोक्षणेन हे उत्तरवेदे त्वदीयं पूर्वभागं पातु ॥
16 दक्षिणभागं प्रोक्षति मनोजवा इति ॥ मनसो जव इव जवो वेगो यस्य स मनोजवाः यमः । तस्य हि मनस इव जवो भवति । जवतेरसुनि जवः । स पितृभिस्सह त्वां दक्षिणतः पातु त्वदीयं दक्षिणभागं पातु ॥
17 पश्चिमभागं प्रोक्षति - प्रचेता इति ॥ प्रकृष्टचेताः प्रकृष्टविज्ञानो वरुणः । स रुद्रैस्सह त्वां पश्चात्पातु पश्चाद्भागं पातु ॥
18 उत्तरभागं प्रोक्षति - विश्वकर्मेति ॥ विश्वानि कर्माण्यस्मिन्निति विश्वकर्मा त्वष्टा, लोकपालाधिकाराद्वैश्रवणो वा । 'बहुव्रीहौ विश्वं संज्ञायाम्' इति पूर्वपदान्तोदात्तत्वम् । स आदित्यैस्सह त्वामुत्तरतः पातु तवोत्तरभागं पातु । 'असुरा वज्रमुद्यत्य देवानभ्यायन्त' इत्यादि ब्राह्मणम् ॥
19 उत्तरवेदिमक्ष्णया व्याघारयति - सिंहीरिति पञ्चभिः ॥ तत्र दक्षिणेंसे सिंहीस्त्वमसि । सपत्नसाही सपत्नानां शत्रूणामभिभवित्री । स्वाहा सुहुतं तवेदमस्तु ॥
20 उत्तरस्यां श्रोण्यां - सिंहीस्त्वमसि सुप्रजावनिः शोभनानामपत्यानां सम्भक्त्री त्वमसि । 'छन्दसि वनसन' इतीन् ॥
21 दक्षिणस्यां श्रोण्यां - सिंहीस्त्वमसि रायस्पोषस्य धनपुष्टेस्सम्भक्त्री । छान्दसष्षष्ठ्या अलुक् । 'षष्ठ्याः पतिपुत्र' इति सत्वम् ॥
22 उत्तरेंसे - सिंहीस्त्वमसि आदित्यवनिः अदितिपुत्राणां सम्भक्त्री ॥
23 मध्ये - सिंहीस्त्वमसि, सा त्वमावह देवान्, यजमानाय यजमानार्थम् । कीदृशाय? देवयते देवान् कामयमानाय । देवानात्मन इच्छतीति क्यच् । 'न छन्दस्यपुत्रस्य' इतित्वाभावो दीर्घश्च निषिध्यते । 'शतुरनुमः' इति चतुर्थ्या उदात्तत्वम् । 'सोत्तरवेदिरब्रवीत्' इत्यादि ब्राह्मणम् ॥
24 स्रुचमुद्गृह्णाति - भूतेभ्य इति ॥ सर्वभूतार्थं त्वामुद्गृह्णामि । यागसाधनद्वारेण सर्वभूतार्थतोद्ग्रहणस्य । 'य एव देवा भूताः' इत्यादि ब्राह्मणम् ॥
25 पौतुद्रवान् परिधीन् परिदधाति - 'अग्नेस्त्रयो ज्यायांसो भ्रातर असन्' इत्यादि ब्राह्मणम् । तत्र मध्यमं परिदधाति - विश्वायुरिति ॥ विश्वमायुर्जीवनमन्नं वा अस्मिन्निति यागसाधन द्वारेण तादृशोसि, स त्वं पृथिवीं दृंह दृढमग्निधारणसमर्थां कुरु ॥
26 दक्षिणं परिदधाति - ध्रुवक्षिदिति ॥ ध्रुवे निश्चलेन्तरिक्षे क्षियतीति ध्रुवक्षित् तादृशोसि । स त्वमन्तरिक्षे वसन् अन्तरिक्षं दृंह ॥
27 उत्तरं परिदधाति - अच्युतक्षिदिति । अच्युतेऽविनष्टे दिवि क्षियतीत्यच्युतक्षित् । स त्वं दिवं दृंह ॥
28 सम्भारान्निवपति - अग्नेरिति ॥ अग्नेर्भस्म दीप्तिसाधनं त्वमसि । भस भर्त्सनदीप्त्योः । अग्नेः पुरीषं पूरणं प्रीणनं वा त्वमसि । तस्मादग्निं भासय पूरय प्रीणय वा । 'यदेतान्सम्भारान्सम्भरति' इति ब्राह्मणम् ॥
इति द्वितीये द्वादशोनुवाकः ॥
पञ्चशत् 2 #
TS 1.2.12.2 TS 1.2.12.2
य॒ज्ञियं॒ तेन॒ त्वाऽऽ*द॑धे सिꣳ॒॒हीर॑सि महि॒षीर॑स्यु॒रु प्र॑थस्वो॒रु ते॑ य॒ज्ञ्प॑तिः प्रथतां ध्रु॒वाऽसि॑ दे॒वेभ्यः॑ शुन्धस्व दे॒वेभ्यः॑ शुंभस्वेन्द्रघो॒षस्त्वा॒ वसु॑भिः पु॒रस्ता᳚त् पातु॒ मनो॑जवास्त्वा पि॒तृभि॑र् दक्षिण॒तः पा॑तु॒ प्रचे॑तास्त्वा रु॒द्रैः प॒श्चात् पा॑तु वि॒श्वक॑र्मा त्वाऽऽदि॒त्यैरु॑त्तर॒तः पा॑तु॒ सिꣳ॒॒हीर॑सि सपत्नसा॒ही स्वाहा॑ सिꣳ॒॒हीर॑सि सुप्रजा॒वनिः॒ स्वाहा॑ सिꣳ॒॒ही-[ ]
पदपाठः (Word-by-word)
य॒ज्ञिय᳚म् । तेन॑ । त्वा॒ । एति॑ । द॒धे॒ । सिꣳ॒॒हीः । अ॒सि॒ । म॒हि॒षीः । अ॒सि॒ । उ॒रु । प्र॒थ॒स्व॒ । उ॒रु । ते॒ । य॒ज्ञ्प॑ति॒रिति॑ य॒ज्ञ् - प॒तिः॒ । प्र॒थ॒ता॒म् । ध्रु॒वा । अ॒सि॒ । दे॒वेभ्यः॑ । शु॒न्ध॒स्व॒ । दे॒वेभ्यः॑ । शुं॒भ॒स्व॒ । इ॒न्द्र॒घो॒ष इती᳚न्द्र - घो॒षः । त्वा॒ । वसु॑भि॒रिति॒ वसु॑ - भिः॒ । पु॒रस्ता᳚त् । पा॒तु॒ । मनो॑जवा॒ इति॒ मनः॑ - ज॒वाः॒ । त्वा॒ । पि॒तृभि॒रिति॑ पि॒तृ - भिः॒ । द॒क्षि॒ण॒तः । पा॒तु॒ । प्रचे॑ता॒ इति॒ प्र - चे॒ताः॒ । त्वा॒ । रु॒द्रैः । प॒श्चात् । पा॒तु॒ । वि॒श्वक॒र्मेति॑ वि॒श्व - क॒र्मा॒ । त्वा॒ । आ॒दि॒त्यैः । उ॒त्त॒र॒त इत्यु॑त् - त॒र॒तः । पा॒तु॒ । सिꣳ॒॒हीः । अ॒सि॒ । स॒प॒त्न॒सा॒हीति॑ सपत्न - सा॒ही । स्वाहा᳚ । सिꣳ॒॒हीः । अ॒सि॒ । सु॒प्र॒जा॒वनि॒रिति॑ सुप्रजा - वनिः॑ । स्वाहा᳚ । सिꣳ॒॒हीः ।
पदसंख्या: 50
पञ्चशत् 3 #
TS 1.2.12.3 TS 1.2.12.3
र॑सि रायस्पोष॒वनिः॒ स्वाहा॑ सिꣳ॒॒हीर॑स्यादित्य॒वनिः॒ स्वाहा॑ सिꣳ॒॒हीर॒स्या व॑ह दे॒वान्दे॑वय॒ते यज॑मानाय॒ स्वाहा॑ भू॒तेभ्य॑स्त्वा वि॒श्वायु॑रसि पृथि॒वीं दृꣳ॑ह ध्रुव॒क्षिद॑स्य॒न्तरि॑क्षं दृꣳहाच्युत॒क्षिद॑सि॒ दिवं॑ दृꣳहा॒ग्नेर् भस्मा᳚स्य॒ग्नेः पुरी॑षमसि ॥
पदपाठः (Word-by-word)
अ॒सि॒ । रा॒य॒स्पो॒ष॒वनि॒रिति॑ रायस्पोष - वनिः॑ । स्वाहा᳚ । सिꣳ॒॒हीः । अ॒सि॒ । आ॒दि॒त्य॒वनि॒रित्या॑दित्य - वनिः॑ । स्वाहा᳚ । सिꣳ॒॒हीः । अ॒सि॒ । एति॑ । व॒ह॒ । दे॒वान् । दे॒व॒य॒त इति॑ देव - य॒ते । यज॑मानाय । स्वाहा᳚ । भू॒तेभ्यः॑ । त्वा॒ । वि॒श्वायु॒रिति॑ वि॒श्व - आ॒युः॒ । अ॒सि॒ । पृ॒थि॒वीम् । दृꣳ॒॒ह॒ । ध्रु॒व॒क्षिदिति॑ ध्रुव - क्षित् । अ॒सि॒ । अ॒न्तरि॑क्षम् । दृꣳ॒॒ह॒ । अ॒च्यु॒त॒क्षिदित्य॑च्युत -क्षित् । अ॒सि॒ । दिव᳚म् । दृꣳ॒॒ह॒ । अ॒ग्नेः । भस्म॑ । अ॒सि॒ । अ॒ग्नेः । पुरी॑षम् । अ॒सि॒ ॥
पदसंख्या: 35