अनुवाकः 8 TS 1.2.8

(A8)

( हृ॒थ्सु-पञ्च॑त्रिꣳशच्च )

अनुवाकः 8 - Complete Audio

TS 1.2.8 - स्वरानुगामी

0:00 0:00
PS1.1 उदायु॑षा स्वा॒युषोदोष॑धीनाꣳ॒॒ रसे॒नोत् प॒र्जन्य॑स्य॒
PS1.2 शुष्मे॒णोद॑स्थाम॒मृताꣳ॒॒ अनु॑
PS1.3 उ॒र्व॑न्तरि॑क्ष॒मन्वि॒ह्यदि॑त्याः॒ सदो॒ऽस्यदि॑त्याः॒ सद॒ आ
PS1.4 सी॒दास्त॑भ्ना॒द्-द्यामृ॑ष॒भो अ॒न्तरि॑क्ष॒ममि॑मीत वरि॒माणं॑ पृथि॒व्या
PS1.5 आऽसी॑द॒द् विश्वा॒ भुव॑नानि स॒म्राड्
PS1.6 विश्वेत्तानि॒ वरु॑णस्य व्र॒तानि॒ वने॑षु॒
PS1.7 व्य॑न्तरि॑क्षं ततान॒ वाज॒मर्व॑थ्सु॒ पयो॑
PS1.8 अघ्नि॒यासु॑ हृ॒थ्सु-[ ]
PS2.1 क्रतुं॒ ॅवरु॑णो वि॒क्ष्व॑ग्निं दि॒वि
PS2.2 सूर्य॑मदधा॒थ् सोम॒मद्रा॒वुदु॒त्यं जा॒तवे॑दसं दे॒वं
PS2.3 ॅव॑हन्ति के॒तवः॑
PS2.4 दृ॒शे विश्वा॑य॒ सूर्यं᳚
PS2.5 उस्रा॒वेतं॑ धूर्.षाहावन॒श्रू अवी॑रहणौ ब्रह्म॒चोद॑नौ॒
PS2.6 वरु॑णस्य॒ स्कंभ॑नमसि॒ वरु॑णस्य स्कंभ॒सर्ज॑नमसि॒
PS2.7 प्रत्य॑स्तो॒ वरु॑णस्य॒ पाशः॑

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 1.2.8.1 TS 1.2.8.1
उदायु॑षा स्वा॒युषोदोष॑धीनाꣳ॒॒ रसे॒नोत् प॒र्जन्य॑स्य॒ शुष्मे॒णोद॑स्थाम॒मृताꣳ॒॒ अनु॑ । उ॒र्व॑न्तरि॑क्ष॒मन्वि॒ह्यदि॑त्याः॒ सदो॒ऽस्यदि॑त्याः॒ सद॒ आ सी॒दास्त॑भ्ना॒द्-द्यामृ॑ष॒भो अ॒न्तरि॑क्ष॒ममि॑मीत वरि॒माणं॑ पृथि॒व्या आऽसी॑द॒द् विश्वा॒ भुव॑नानि स॒म्राड् विश्वेत्तानि॒ वरु॑णस्य व्र॒तानि॒ वने॑षु॒ व्य॑न्तरि॑क्षं ततान॒ वाज॒मर्व॑थ्सु॒ पयो॑ अघ्नि॒यासु॑ हृ॒थ्सु-[ ]
पदपाठः (Word-by-word)
उदिति॑ । आयु॑षा । स्वा॒युषेति॑ सु - आ॒युषा᳚ । उदिति॑ । ओष॑धीनाम् । रसे॑न । उदिति॑ । प॒र्जन्य॑स्य । शुष्मे॑ण । उदिति॑ । अ॒स्था॒म् । अ॒मृतान्॑ । अनु॑ ॥ उ॒रु । अ॒न्तरि॑क्षम् । अन्विति॑ । इ॒हि॒ । अदि॑त्याः । सदः॑ । अ॒सि॒ । अदि॑त्याः । सदः॑ । एति॑ । सी॒द॒ । अस्त॑भ्नात् । द्याम् । ऋ॒ष॒भः । अ॒न्तरि॑क्षम् । अमि॑मीत । व॒रि॒माण᳚म् । पृ॒थि॒व्याः । एति॑ । अ॒सी॒द॒त् । विश्वा᳚ । भुव॑नानि । सं॒राडिति सं - राट् । विश्वा᳚ । इत् । तानि॑ । वरु॑णस्य । व्र॒तानि॑ । वने॑षु । वीति॑ । अ॒न्तरि॑क्षम् । त॒ता॒न॒ । वाज᳚म् । अर्व॒थ्स्वित्यर्व॑त् - सु॒ । पयः॑ । अ॒घ्नि॒यासु॑ । हृ॒थ्स्विति॑ हृत् - सु ।
पदसंख्या: 50
सायणभाष्यम् (Sayana Commentary)

(अथ प्रथमाष्टके द्वितीयप्रपाठकेऽष्टमोऽनुवाकः)

सप्तमेऽनुवाके सोमक्रयणमभिहितम्। अथ क्रीतं सोमं प्राचीनवंशे नेतुमष्टमे शकटारोपणं सोमस्योच्यते।

उदायुषेति कल्पः – ‘अथैनमादायोपोत्तिष्ठति उदायुषा स्वायुषोदोषधीना रसेनोत्पर्जन्यस्य शुष्मेणोदस्थाममृता अन्विति’ इति।

अमृतान्देवाननुलक्ष्याऽऽयुरादिविशेषणविशिष्टेन सोमेन सहोदस्थामुत्तिष्ठामीति। जीवनमायुः। तत्रापि रोगाद्युपद्रवरहितं स्वायुः। तदुभयप्रदत्वात्सोमस्य तदुभयरूपत्वम्। ओषधीनां पर्जन्यस्य च सोमः सार इतरौषधिवद्भूमिविशेषे जायमानत्वाद्वृष्ट्या वर्धमानत्वाच्च। चतुर्भिर्विशेषणैः पृथक्क्रियापदमन्वेतुं चत्वार उच्छब्दाः।

अमृतशब्दानुशब्दयोरर्थमाह —

‘उदायुषा स्वायुषेत्याह देवता एवान्वारभ्योत्तिष्ठति’ (सं. का. ६ प्र. १ अ. ११) इति।

उर्विति। कल्पः — ‘उर्वन्तरिक्षमन्विहीति शकटायाभिप्रव्रजति’ इति।

उत्थापनमारभ्य पुनर्भूमौ स्थापनपर्यन्तं सोमोऽन्तरिक्षाधार इत्यभिप्रायं दर्शयति —

‘उर्वन्तरिक्षमन्विहीत्याहान्तरिक्षदेवत्यो ह्येतर्हि सोमः’ (सं. का. ६ प्र. १ अ. ११) इति।

अदित्या इति। बौधायनः – ‘तस्य च्छिद्रे कृष्णाजिनमास्तृणात्यदित्याः सदोऽसीति, अदित्याः सद आसीदेति कृष्णाजिने राजानमथैनमुपतिष्ठतेऽस्तभ्नाद्द्यामृषभो अन्तरिक्षममिमीत वरिमाणं पृथिव्या आऽसीदद्विश्वा भुवनानि सम्राड्विश्वेत्तानि वरुणस्य व्रतानीति’ इति।

आपस्तम्बो द्वितीयतृतीयमन्त्रावेकी चकार। हे कृष्णाजिन त्वमिदित्या भूमेः सदः स्थानमसि। हे सोम तस्या सदः प्राप्नुहि। ऋषभः श्रेष्ठोऽयं सोमो यथा द्युलोको न पतति तथा स्तम्भनं संचस्कार। अन्तरिक्षमेतावदित्यमिमति पृथिव्या वरिमाणं गुरुत्वं चामिमीत। स सोमदेवः स्वमहिम्ना सम्यग्राजमानो विश्वानि भुवनानि आसीदद्व्याप्तवान्। विश्वेत्ताति सर्वाण्येवोक्तानि कर्माणि सर्वावरकत्वेन वरुणनाम्नः सोमस्य व्रतानि व्रतवन्नियतानि।

प्रथमद्वितीयमन्त्रयोः स्पष्टार्थतां दर्शयति —

“अदित्याः सदोऽस्यदित्याः सद आ सीदेत्याह यथायजुरेवैतत्” (सं. का. ६ प्र. १ अ. ११) इति।

द्वितीयमन्त्रसाध्यं यदासादनं तदेव तृतीयमन्त्रेणापि कर्तव्यमित्यमुमर्थं हेतूपन्यासपुरःसरं विधत्ते —

“वि वा एनमेतदर्धयति यद्वारुण सन्तं मैत्रं करोति वारुण्यर्चाऽऽसादयति स्वयैवैनं देवतया समर्धयति” (सं. का. ६ प्र. १ अ. ११) इति।

उपनद्धः सोमो वरुणो यद्विषये मित्रो न एहीति मन्त्रं पठन्मैत्रं करोतीति यदस्ति एतैनैनं सोमं व्यर्धयति समृद्धिहीनं करोति, वारुण्यर्चा तु समर्धयति।

वनेष्विति। कल्पः — “अथैनं वाससा परितनोति वनेषु व्यन्तरिक्षं ततान वाजमर्वत्सु पयो अघ्नियासु हृत्सु क्रतुं वरुणो विक्ष्वग्निं दिवि सूर्यमदधात्सोममद्राविति” इति।

विततानेति प्रतिवाक्यमन्वेति। वरुणनामकः सोमदेवो जगदीश्वरेणाभिन्नः सर्वं निर्ममे। तत्किं वनेषु वृक्षमध्येषु अन्तरिक्षमवकाशं विततान। अर्वत्सु वाजिषु वाजं वेगं गतिविशेषं, पयो गोषु, हृदयेषु वित्तेषु क्रतुं संकल्पं, विक्षु प्रजासु जठराग्निं, द्युलोके सूर्यं, पर्वते सोमवल्लीमदधादस्थापयत्।

अनेन मन्त्रेण कर्तव्यं विधत्ते —

“वाससा पर्यानह्यति सर्वदेवत्यं वै वासः सर्वाभिरेवैनं देवताभिः समर्धयत्यथो रक्षसामपहत्यै” (सं. का. ६ प्र. १ अ. ११) इति।

मन्त्रार्थो लोकप्रसिद्ध इत्याह —

“वनेषु व्यान्तरिक्षं ततानेत्याह वनेषु हि व्यन्तरिक्षं ततान वाजमर्वत्स्वित्याह वाज ह्यर्वत्सु पयो अघ्नियास्वित्याह पयो ह्यघ्नियासु हृत्सु क्रतुमित्याह हृत्सु हि क्रतुं वरुणो विक्ष्वग्निमित्याह वरुणो हि विक्ष्वग्निं दिवि सूर्यमित्याह दिवि हि सूर्य सोममद्रावित्याह ग्रावाणो वा अद्रयस्तेषु वा एष सोमं दधाति यो यजते तस्मादेवमाह” (सं. का. ६ प्र. १ अ. ११) इति।

अद्रिशब्देनात्र पाषाणबहुलो गिरिर्विवक्षितः। पाषाणसंधिषु सोमस्योत्पत्तेः। यजमानस्तेषु सोमं प्राप्नोति।

कल्पः — “उदु त्यं जातवेदसमिति सौर्यर्चा कृष्णाजिनं प्रत्यानह्यत्युर्ध्वग्रीवं बहिष्ठाद्विशसनम्” इति।

स च मन्त्र एवं पठ्यते —

उदु त्यमिति। केतवो रश्मयस्त्यं तं परोक्ष जातवेदसमुत्पन्नस्य सर्वस्य जगतो वेत्तारं सूर्यं देवमुद्वहन्ति ऊर्ध्वप्रदेशं प्रापयन्ति। किमर्थं, विश्वाय दृशे सर्वस्य जगतो दर्शनार्थम्।

सौर्यमन्त्रेण रक्षांसि निवार्यन्त इत्याह —

“उदु त्यं जातवेदसमिति सौर्यर्चा कृष्णाजिनं प्रत्यानह्यति रक्षसामपहत्यै” (सं. का. ६ प्र. १ अ. ११) इति।

उस्राविति। कल्पः — “अथ सोमवाहनावानीयमानौ प्रति मन्त्रयते उस्रावेतं धूर्षाहावन्श्रु अवीरहणौ ब्रह्मचोदनाविति” इति।

हे उस्रौ बलीवर्दावेतमागच्छतम्। कीदृशौ, धूर्षाहौ भारं सहमानौ। अनश्रू अनसि शकटे श्रुतौ ख्यातौ। अवीरहणौ वीरं शकटस्थितं सोममबाधमानौ ब्रह्मचोदनौ ब्रह्मान्नं कृषिद्वारेणान्नप्रवर्तकौ।

मन्त्रस्य स्पष्टार्थतामाह —

“उस्रावेतं धूर्षाहावित्याह यथायजुरेवैतत्” (सं. का. ६ प्र. १ अ. ११) इति।

वरुणस्येति। बौधायनः – “तयोर्दक्षिणं पूर्वं युनक्ति वरुणस्य स्कम्भनमसीति, वरुणस्य स्कम्भसर्जनमसीति शम्यामवगूहति, प्रत्यस्तो वरुणस्य पाश इति योक्त्रम्” इति।

आपस्तम्बः — “वरुणस्य स्कम्भनमसीति शम्यां प्रतिमोच्योस्रावेतं धूर्षाहावित्यनड्वाहावुपाज्य वारुणमसीति योक्त्रपाशं परिहृत्य प्रत्यस्तो वरुणस्य पाश इत्यभिधानीं प्रत्यस्यति” इति। शाखान्तरानुसारेण वारुणमसीत्युक्तम्। एतच्छाखानुसारेण वरुणस्य स्कम्भसर्जनमसीति द्रष्टव्यम्। युगच्छिद्रे प्रक्षेप्यः शङ्कुः शम्या। हे शम्ये त्वं वरुणस्योक्ष्णो निवारणीयस्य बलीवर्दस्य स्कम्भनं। निवारणं कुर्वत्यसि। गलबन्धनसाधनं योक्त्रम्। हे योक्त्र त्वमपि पलायनान्निवारणीयस्य शम्येव निवारणं सृजसि। दीर्घरज्जुः पाशः। स च प्रत्यस्तः शकटस्योपरि प्रसारितः। एते त्रयो मन्त्राः स्पष्टार्था इति ब्राह्मणेनोपेक्षिताः।

अत्र विनियोगसंग्रहः —

“उदायु सोममादायोरु गच्छेच्छकटं प्रति।

अदि स्तृत्वाऽजिनं सोममदित्याः सेति सादयेत्॥१॥

वने वस्त्रेण बद्ध्वोदु प्रत्यानह्यति चर्मणा।

उस्रावनडुहोर्योगो वरु शम्यां विनिक्षिपेत्॥२॥

वरु बद्ध्वा योक्त्रपाशं प्रति धानीमुपास्यति।

अनुवाके ह्यष्टमेऽस्मिन्मन्त्रा एते दशोदिताः॥३॥” इति।

अत्र मीमांसा नास्ति।

अथ च्छन्दः —

उदायुषेत्यनुष्टुष्। उर्वित्येकपदा गायत्री। अस्तभ्नादिति वनेष्विति च त्रिष्टुभौ। उदु त्यमिति गायत्री॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये प्रथमकाण्डे द्वितीयप्रपाठकेऽष्टमोऽनुवाकः ॥८॥
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 सोममादायोत्तिष्ठति - उदित्यन[न्व?]वसानयानुष्टुभा ॥ उच्छब्दादयश्चत्वारोपि पादाः । अस्थामिति वक्ष्यते, तेनोदित्यस्य सम्बन्धः । आयुस्सोमः अयनीयत्वादायुषोन्नस्य वा हेतुत्वात्स एव विशेष्यते । स्वायुषा शोभनमायुर्देयमस्मिन्निति स्वायुः । 'नञ्सुभ्याम्' इत्युत्तरपदान्तोदात्तत्वम् । तादृशेन त्वया सहाहं उदस्थामुत्तिष्ठामि । छान्दसो लुङ् । 'गातिस्था' इति सिचो लुक् । तदिदमोषधीनां रसेन सारेणोदस्थाम्, पर्जन्यस्य शुष्मेण बलेनोदस्थाम्, तदुभयस्यापि तदधीनत्वात् । किञ्च, अमृतानमरणान् देवान् अनु लक्षीकृत्य उद्दिश्य वा त्वया सहोदस्थाम्, अमरणान् देवान् कर्तुमिति यावत् । उत्तरपदाद्युदात्तत्वे, पूर्ववद्रुत्वानुनासिकौ सांहितिकौ । 'देवता एवान्वारभ्योत्तिष्ठति' इति ब्राह्मणम् ॥
2 सोमवाहनमनोभिप्रैति - उर्विति गायत्र्यैकपदया ॥ विस्तीर्णमाकाशमनुगच्छ निर्बाधं गच्छेति । व्याख्याता चेयम् । 'अन्तरिक्षदेवत्यो ह्येतर्हि सोमः' इति ब्राह्मणम् ॥
3 नीडे कृष्णाजिनमास्तृणाति - अदित्या इति ॥ अदित्याः देवमातुः सदः सदनं लोकलक्षणं त्वमसि ॥
4 तस्मिन्सोमं निदधाति - अदित्या इति ॥ अदित्यास्सदः सदन स्थानीयमेतत् कृष्णाजिनमासीद उपविश अस्मिन् ॥
5 सोममुपतिष्ठते - अस्तभ्नादिति त्रिष्टुभा ॥ अमिमीतेति द्वितीयस्य पादस्यादिः, अत एव न निहन्यते । अस्तभ्नात् स्तब्धां दृढामकरोत् द्यां द्युलोकम् । ऋषभो वर्षिता अन्तरिक्षममिमीत मितवान् निर्मितवान् । वरिमाणं पृथिव्याः वरिमाणं उरुत्वम् । 'प्रियस्थिर' इत्यादिना वरादेशः । यद्वा - वरिमाणं वारकत्वम् । 'अन्येभ्योपि दृश्यन्ते' इति मनिन्, उञ्छादिर्द्रष्टव्यः । आसीदत् व्याप्तवान् वर्षेण । विश्वा विश्वानि च भुवनानि भूतजातानि आसीदत् इत्येव । यद्वा - अन्तरिक्षममिमीत वरिमाणं च पृथिव्या अमिमीतेत्येव । विश्वानि भुवनानि आसीदत् इत्यन्तर्भावितण्यर्थो वा आसादयति विश्वानि भुवनानीति । 'शेश्छन्दसि बहुऌअम्' इति लुक् । सम्राट् सङ्गतदीप्तिः । 'मो राजि समः क्वौ' इति मकारः । यान्येवंविधानि तानि विश्वान्येव वरुणस्य वारकस्य सोमस्य व्रतानि वीर्याणि कर्माणि, त्वमेवेन्द्रो भूत्वा तथा तथा कृतवानित्यर्थः । 'वारुण्यर्चा सादयति' इत्यादि ब्राह्मणम् ॥
6 सोमं वाससा वेष्टयति - वनेष्विति त्रिष्टुभा । वाजमिति द्वितीयस्यादिः । हृत्स्विति तृतीयस्य । दिवीति चतुर्थस्य ॥ वनेषु वुक्षेषु वृक्षषण्डेषु वा अन्तरिक्षं भूताकाशं विततान विस्तारितवान् । वाजं वेगमर्वत्सु अश्वेषु विततान । 'अर्वणस्त्रसावनञः' इति त्रादेशः । पयः क्षीरमघ्नियासु गोषु विततान । अहन्तव्या अघ्नियाः । 'अघ्न्यादयश्च' इति निपात्यते । हृत्सु हृदयेषु क्रतुं विज्ञानं विततान । वरुणो वरुणशब्दवाच्यस्सोमः विक्षु मर्त्येषु अग्निं विततान । दिवि सूर्यमदधात् स्थापितवान् । सोमं लतारूपमात्मानं अद्रावदधात् इत्येव । त्वमेव यथैतत्सवर्मकरोः तथा वाससा आत्मानं वेष्टयामीति ॥
7 सौर्यर्चा कृष्णाजिनं पुरस्तात्प्रत्यानह्यत्यूर्ध्वग्रीवम् - उदुत्यमिति गायत्र्या ॥ त्यं तं जातवेदसं जातानां वेदितारम् । 'गतिकारकयोरपि' इत्यसुन्प्रत्ययः । जातप्रज्ञानं वा सूर्यं देवं देवनादिगुणयुक्तं उद्वहन्ति ऊर्ध्वं वहन्ति केतवो रश्मयः दृशे द्रष्टुम् । 'दृशे विख्ये च' इति निपात्यते । विश्वाय विश्वार्थं विश्वं लोको यथा एनं पश्येत् तदनुरूपमुद्वहन्ति । स्मैभावाभावश्छान्दंसः । क्रियमाणेन का सङ्गतिः? उच्यते - एतस्य कर्मणस्सामर्थ्यादेतदेवं भवतीति ॥
8 सोमवाहनावानीयमानौ प्रतिमन्त्रयते - उस्राविति विराजैकपदया यजुरन्तया ॥ हे उस्रौ बलीवर्दौ एतमागच्छतं धूर्षाहौ धूर्वाहौ धुरस्सोढारौ धुरं वोढुं समर्थौ । 'छन्दसि सहः' इति ण्विः, पूर्ववत् षत्वम् । अनश्रू अश्रुवर्जितौ अखिन्नौ सन्तावागच्छतम् । 'नञ्सुभ्यां' इत्युत्तरपदान्तोदात्तत्वम् । यद्वा - अनसि शकटे वोढृत्वेन श्रुतौ विख्यातौ । क्विपि तुगभावश्छान्दसः । अनो वोढृत्वेन श्रितौ वा । श्रयतेः क्विपि वर्णव्यत्ययः । तुगभावश्छान्दसः । अवीरहणौ अहिंसकौ दान्तौ सन्तौ । यजुरादित्वान्न निहन्यते । ब्रह्मचोदनौ ब्रह्म अन्नं, तत्साधनत्वादिह सोम उच्यते; तस्य चोदनौ प्रस्थापयितारौ सन्तौ । कर्तरि करणे वा ल्युटि कृदुत्तरपदप्रकृतिस्वरत्वम् ॥
9 दक्षिणं युनक्ति - वरुणस्येति ॥ वरुणस्य स्कम्भनं स्तम्भनमुत्पादयिता त्वमसि यागद्वारेण । यद्वा - वरुणस्य वरणीयस्य वारयितुर्वा सोमस्य स्कम्भनं धारायिता असि ॥
10 शम्यामवगूहति - वरुणस्येति ॥ वरुणस्य सोमस्य स्कम्भनं स्कम्भः अविचलिमवस्थानं, तस्य सर्जनमुत्पादयिता चासि, त्वदधीनत्वात् स्कम्भनस्य ॥
11 योक्त्रेण बध्नाति - प्रत्यस्त इति ॥ प्रत्यस्तः उत्क्षिप्तः वरुणस्य पाशस्त्वमसि । यद्वा - त्वया बन्धने कृते वरुणस्य पाशः प्रत्यस्तः ॥
इति द्वितीये अष्टमोनुवाकः ॥
पञ्चशत् 2 #
TS 1.2.8.2 TS 1.2.8.2
क्रतुं॒ ॅवरु॑णो वि॒क्ष्व॑ग्निं दि॒वि सूर्य॑मदधा॒थ् सोम॒मद्रा॒वुदु॒त्यं जा॒तवे॑दसं दे॒वं ॅव॑हन्ति के॒तवः॑ । दृ॒शे विश्वा॑य॒ सूर्यं᳚ ॥ उस्रा॒वेतं॑ धूर्.षाहावन॒श्रू अवी॑रहणौ ब्रह्म॒चोद॑नौ॒ वरु॑णस्य॒ स्कंभ॑नमसि॒ वरु॑णस्य स्कंभ॒सर्ज॑नमसि॒ प्रत्य॑स्तो॒ वरु॑णस्य॒ पाशः॑ ॥
पदपाठः (Word-by-word)
क्रतु᳚म् । वरु॑णः । वि॒क्षु । अ॒ग्निम् । दि॒वि । सूर्य᳚म् । अ॒द॒धा॒त् । सोम᳚म् । अद्रौ᳚ । उदिति॑ । उ॒ । त्यम् । जा॒तवे॑दस॒मिति॑ जा॒त - वे॒द॒स॒म् । दे॒वम् । व॒ह॒न्ति॒ । के॒तवः॑ ॥ दृ॒शे । विश्वा॑य । सूर्य᳚म् ॥ उस्रौ᳚ । एति॑ । इ॒त॒म् । धू॒र्.॒षा॒हा॒विति॑ धूः - सा॒हौ॒ । अ॒न॒श्रू इति॑ । अवी॑रहणा॒वित्यवी॑र - ह॒नौ॒ । ब्र॒ह्म॒चोद॑ना॒विति॑ ब्रह्म - चोद॑नौ । वरु॑णस्य । स्कंभ॑नम् । अ॒सि॒ । वरु॑णस्य । स्कं॒भ॒सर्ज॑न॒मिति॑ स्कंभ -सर्ज॑नम् । अ॒सि॒ । प्रत्य॑स्त॒ इति॒ प्रति॑ - अ॒स्तः॒ । वरु॑णस्य । पाशः॑ ॥
पदसंख्या: 35